मोक्षोपाय · अध्याय 6.133
अकर्तृकर्मकरणम् असि चित्तत्त्वम् अक्षयम् ।
जाग्रत्स्वप्नसुषुप्ताख्यो भ्रमस् सङ्कल्पितस् त्व् असन् ॥
अत्रेमं शृणु वृत्तान्तं कथ्यमानं मयाधुना ।
प्रबुद्धो ऽपि यथा बोधम् उपैषि विबुधोपमः ॥
कस्मिंश्चित् कानने काष्ठमौनस्थितम् अरिन्दम ।
दृष्टद्रुतमृगं कञ्चिन् मुनिं पप्रच्छ लुब्धकः ॥
पश्चाद् उपगतो बाणभिन्नं मृगम् अभिद्रुतः ।
क्व प्रयातो मृग इति प्रत्युवाच स तं मुनिः ॥
शमशीला वयं साधो मुनयो वनवासिनः ।
नास्माकम् अस्त्य् अहङ्कारो व्यवहारेषु यẖ क्षमः ॥
सर्वाणीन्द्रियकर्माणि करोति हि सखे मनः ।
अहङ्कारमयं तन् मे नूनं प्रगलितं चिरम् ॥
मणिचन्द्रार्कदहनप्रकाशाẖ कारुकं यथा ।
औदासीन्येन तिष्ठन्तो योजयन्ति क्रियाक्रमे ॥
अहङ्कारो मनोनामा स चेन्द्रियगणं नृणाम् ।
नियोजयति कार्येषु स्वेषु साक्षिवद् आस्थितः ॥
स एवाभ्युपशान्तो नश् शरदीव पयोधरः ।
कस् तिष्ठत्व् इन्द्रियार्थेषु मृतẖ क इव वल्गति ॥
चित्तं शान्तिम् उपायातम् अस्माकं वननायक ।
मृतचित्ता वयम् इह स्थिता दारुमया इव ॥
अस्माकं नास्त्य् अहङ्कारो रसो वा शुष्कभूरुहाम् ।
अहङ्कारो हि सर्वेषां कर्मणां मूलकारणम् ॥
तन्तौ मुक्ताफलानीव प्रयान्ति समवायिताम् ।
अहङ्कृताव् इन्द्रियाणि सामन्ता इव राजनि ॥
अहङ्कारमहातन्तौ छिन्ने त्व् इन्द्रियबालकाः ।
इतश् चेतश् च गच्छन्ति सामन्ता विनृपा इव ॥
निरहङ्कृतिचित्तानि विशरारूणि लुब्धक ।
ममेन्द्रियाणि कार्येषु न लगन्त्य् अप्स्व् इवाम्बुजम् ॥
मिथस् संश्लेषम् आयान्ति न ममेन्द्रियबालकाः ।
विनाहङ्कारजतुना शीतलायẖकणा इव ॥
न मे बुद्धीन्द्रियं कञ्चिद् वेत्ति कर्मेन्द्रियक्रमम् ।
चित्रस्था इव तिष्ठन्ति स्वेष्व् अर्थेष्व् ईक्षणादयः ॥
साधो यद् इन्द्रियं वक्ति तेन दृष्टो न ते मृगः ।
यस्य वा दर्शने शक्तिर् वक्तुं जानाति तन् न नः ॥
न कानिचिन् ममैतानि गलिताहङ्कृतेẖ किल ।
तद् व्याध कस् त्वां कथयत्व् आर्तिमन्मृगदर्शनम् ॥
सर्वेषाम् इन्द्रियाणां हि पशूनाम् इव पालकम् ।
चित्तं तच् च विलीनं नस् सर्वार्थरहिते पदे ॥
इतश् चेतश् च विक्षिप्तरूपाण्य् एतानि तत् कथम् ।
किं वा त्वा कथयन्त्व् अङ्ग गतानीहैव पञ्चताम् ॥
निर्मातृपितृको यद्वद् विशरारुश् शिशुव्रजः ।
तथाक्षवृन्दम् अधृति निरहम्भाववासनम् ॥
जाग्रत्स्वप्नसुषुप्ताख्या दशा वेद्मि न काश्चन ।
तुर्य एवावतिष्ठे ऽहं तत्र दृश्यं न विद्यते ॥
इति निर्वचनीभावं यथार्थकथनेन सः ।
लुब्धको मुनिना नीतो जगामाभिमतां दिशम् ॥
अतो वच्मि महाबाहो नास्ति तुर्येतरा दशा ।
निर्विकल्पा हि चित् तुर्यं तद् एवास्तीह नेतरत् ॥
सत्यं दृष्ट्वा ब्रह्मभावं गते जीवे निरर्थकम् ।
देहे भवन्तीन्द्रियाणि चित्रभित्ताव् इवानघ ॥
यत्रेष्टानिष्टसम्बन्धे नोदयस् सुखदुẖखयोः ।
न तच् चित्तं भवेद् राम तत् सत्त्वं तुर्यगं विदुः ॥
स्वप्नकाले स्वप्न एव जाग्रद् व्यग्रापरिग्रहात् ।
जाग्रच् च स्वप्नताम् एति स्मरणीयतया तया ॥
असत्यं जाग्रति स्वप्नस् स्वप्ने जाग्रद् असन्मयम् ।
जाग्रत्स्वप्नविकारान्ता घनमोहा सुषुप्तभूः ॥
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयम् अङ्ग भ्रमोद्भवम् ।
वरत्रायाम् इवाहित्वं विज्ञाने प्रस्फुरत् स्थितम् ॥
तुर्यम् अस्त्य् अनवच्छिन्नं शुद्धचिन्मात्ररूपि यत् ।
तत्रैतत् स्फुरति भ्रान्त्या तरङ्गत्वम् इवाम्भसि ॥
यथाभूतार्थविज्ञानात् त्रयम् एतद् विलीयते ।
जीवन्मुक्तपदं शुद्धं तुर्यम् एवावशिष्यते ॥
प्रोक्तं विदेहमुक्तत्वं तुर्यान्त इति पण्डितैः ।
चिद् ब्रह्मेत्येवमादीनां वचसां तद् अगोचरः ॥
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयं रूपं हि चेतसः ।
शान्तं घोरं च मूढं च त्र्यात्म चित्तम् इह स्थितम् ॥
घोरं जाग्रन्मयं चित्तं शान्तं स्वप्नमयं स्थितम् ।
मूढं सुषुप्तभावस्थं त्रिभिर् हीनं मृतं भवेत् ॥
यत्र चित्तं मृतं तत्र सत्त्वम् एकं स्थितं समम् ।
तद् विद्धि जीवन्मुक्तत्वं तत् तुर्यं तन् महत् पदम् ॥
तत्रैते मुनयस् सिद्धा ब्रह्मविष्णुहरादयः ।
सत्त्वात्मके तुर्यपदे जीवन्मुक्ता व्यवस्थिताः ॥
यं तं मुनिं वने व्याधḫ पृष्टवान् मृगहेतुना ।
स संस्थितस् तुर्यपदे शुद्धसत्त्वोदयात्मनि ॥
चित्ताचारं न जानाति मृतचित्तस् स कञ्चन ।
शान्ताशेषविशेषांशम् अद्वैतैक्यपदं गतः ॥
समस्तसङ्कल्पविलासमुक्ते तुर्ये पदे तिष्ठ निरामयात्मा ।
यत्र स्थितास् साधु सदेहमुक्ताḫ प्रशान्तभेदा मुनयो महान्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0