मोक्षोपाय · अध्याय 6.135
शरीरेन्द्रियबुद्ध्यादिचेतसां स्पन्दनस्य च ।
किं कस्मात् सारम् उदितं व्यापकं श्रेयसे भवेत् ॥
यद् इदं दृश्यते किञ्चिज् जगत् त्वमहमादिमत् ।
चित्तमात्रं हि तत् सर्वं जलमात्रं यथार्णवः ॥
देहेन्द्रियादिभावेन चित्तं जगद् इति स्थितम् ।
षड्भिर् वा पञ्चभिर् द्वारैश् चेत्यं पतति देहिनाम् ॥
यतẖ कुतश्चित् सम्पन्नं चित्तं द्वीन्दुविलासवत् ।
यथा नानेव सम्पन्नं तद् उक्तं बहुशस् तव ॥
जीवादिसञ्ज्ञावलितं धृतसंसृतिविभ्रमम् ।
यथा तत् क्षीयते चित्तं श्रेयसे तद् इदं शृणु ॥
चेतो भावविकाराढ्यं पश्यतीदं शरीरकम् ।
अविद्यमानं प्रोच्छूनं मृगतृष्णाम्ब्व् इवैणकः ॥
तथा पश्यति वै चेतश् शरीरं स्पन्दचञ्चलम् ।
अभिन्नम् एव स्वात्मत्वाद् दधिरूपं यथा पयः ॥
उत्पत्तिस्थितिनाशान्तं यथानुभवति स्वयम् ।
पयो दधित्वम् एवं हि चेतḫ पश्यति देहकम् ॥
तथा हि भार्गवोदन्तो लवणैन्दवविभ्रमः ।
श्रुतस् त्वया महाबाहो चित्तरूपनिरूपणे ॥
प्रतिभां जडम् अप्य् एति चित्तं सर्वगचिच्च्युतम् ।
अनिच्छायोमणिप्राप्तम् अयḫ प्रस्पन्दनं यथा ॥
नित्योदितामलानन्तचिदादित्यांशुरञ्जनात् ।
चित्तपद्मो विकसति पुर्यष्टकदलावलिः ॥
यथा मुक्तावली दृष्टा शून्ये खे सदसन्मयी ।
स्फुरत्य् एवं हि चित्तत्त्वे चेतस् स्फुरति चञ्चलम् ॥
यथा चित्रोदयश् शून्ये भ्रान्तिमात्रम् उपप्लवः ।
तथा चेतसि देहो ऽयं गन्धर्वपुरवत् स्थितः ॥
यथा चेतसि देहो ऽयं मिथ्या द्वीन्दुविलासवत् ।
इन्द्रियाणि तथा देहे मैवम्मात्रपरो भव ॥
यथेन्द्रियाणि देहस्य बालकल्पितयक्षवत् ।
स्पन्दस् तथैवेन्द्रियाणां जडो मैतत्परो भव ॥
यथेन्द्रियाणां वातानाम् इव स्पन्दो जडात्मकः ।
स्पन्दबोद्धृ तथैवासत् स्फुरत्य् एतच् चलं मनः ॥
यथा स्पन्दस्य तु मनो भ्रमाकृति चलं जडम् ।
मनसो ऽस्य तथा बुद्धिर् मृगतृष्णा विजृम्भते ॥
यथैव बुद्धिस् स्वान्तस्य तथा बुद्धेर् अहङ्कृतिः ।
असद्रूपा मुधोद्भूता मैवम्मात्रपरो भव ॥
यथा बुद्धेर् अहङ्कारो वल्ल्याḫ पुष्पम् इव स्थितः ।
तथैवाहङ्कृतेर् जीवो मैवम्मात्रपरो भव ॥
यथैवाहङ्कृतेर् जीवश् शून्येहावासनात्मकः ।
तथा जीवस्य कलया युक्ता चित् सचमत्कृतिः ॥
तद् अप्य् अनघ सङ्कल्पवशान् नो वस्तुनापि सत् ।
मैतद् भावय किञ्चित् त्वं नैतत् तेनास्य वा भवान् ॥
एते परस्परं सर्वे भ्रमात् कारणतां गताः ।
तरङ्गवद् विवर्तन्ते मनोबुद्धीन्द्रियादयः ॥
यथा शून्ये महारण्ये स्वसङ्कल्पभ्रमाकुलाः ।
भ्रमन्त्य् उन्मत्तका एवं मनोबुद्धीन्द्रियादयः ॥
शरीरं संसृतौ सारस् सारो ऽक्षौघश् शरीरके ।
सारस् त्व् अक्षगणे स्पन्दस् स्पन्दे सारस् स्मृतं मनः ॥
सारो मनसि वै बुद्धिस् सारो बुद्धाव् अहङ्कृतिः ।
सारस् त्व् अहङ्कृतौ जीवो जीवे सारश् चिद् आबिला ॥
चिति सारस् त्व् अचेत्यत्वं चेत्यस्यासम्भवाच् छिवे ।
तस्मात् सारतरात् सारẖ किञ्चिद् अन्यन् न विद्यते ॥
निर्विकल्पचिदाभास एव सर्वत्र कारणम् ।
कारणं तस्य नास्त्य् अन्यत् तत् स्वतो नित्यभासुरम् ॥
तावन्मात्रपरो नित्यं भव पूर्वं परित्यजन् ।
सकलं निष्कलं वापि जगच् चिन्मात्रम् एव हि ॥
वलितं सर्वसङ्कल्पैर् यदि वा यदि वोज्झितम् ।
जगत् तद् अखिलं राम विद्ध्य् एतच् छुद्धचिन्मयम् ॥
इत्य् अस्मात् परमात् साराद् अजस्रं संविद् अङ्ग ते ।
रात्रिन्दिवं न चलति यदि तत् त्वम् अजश् शिवः ॥
अत्र स्थितस्य तव केचन दुर्विलासा रात्राव् अहेर् इव न राम पदं लभन्ते ।
मैनां परित्यज महामृतकन्दरां त्वम् अत्रैव तिष्ठ दृढलेख्यम् इवाश्मनीति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0