मोक्षोपाय · अध्याय 6.132
जीवस्य त्रीणि रूपाणि स्थूलसूक्ष्मपराणि तु ।
तत्रास्य यत् परं रूपं तद् भज द्वे ऽपरे त्यज ॥
अस्यासती तु द्वे रूपे द्विचन्द्रत्वम् इवोत्थिते ।
विचाराद् एव नश्येते परं रूपं न नश्यति ॥
जीवस्य यद् अनाशं तु रूपं राघव तद् भवान् ।
तत्रैवाचलवद् बद्धपदम् आस्स्व रमस्व च ॥
जीवस्य यानि भगवंस् त्रीणि रूपाणि तानि मे ।
यथावत् कथयानाशं रूपं वेद्मि यथास्य तत् ॥
पाणिपादमयो यो ऽयं देहो भोगाय वल्गति ।
भोगार्थम् एतज् जीवस्य रूपं स्थूलम् इह स्थितम् ॥
स्वसङ्कल्पचिदाकारं यावत् संसारभावि यत् ।
चित्तं तद् विद्धि जीवस्य रूपं रामातिवाहिकम् ॥
सति चासति देहे ऽस्मिन् प्राणवातरथस्थितम् ।
एतद् अस्य मनोरूपं जगद् भ्राम्यत्य् अवारितम् ॥
आमोदḫ पवनारूढḫ पुष्पं त्यक्त्वा यथाम्बरे ।
भवत्य् एवं शरीरेषु नष्टेषु प्राणगं मनः ॥
यथा रक्षार्थसूत्रस्य ग्रन्थयो विविधास् स्थिताः ।
यथा वेणुलतायाश् च पर्वाण्य् अङ्गे स्थितानि वा ॥
चित्ततन्तौ सुदीर्घे ऽस्मिञ् शरीराणि तथानघ ।
उत्पत्योत्पत्य नाशीनि सरिद्रयतरङ्गवत् ॥
आद्यन्तरहितं सत्यं चिन्मात्रं निर्विकल्पकम् ।
यत् तद् विद्धि परं रूपं जीवस्याद्यं तृतीयकम् ॥
जगत् प्रजायते तस्मात् तस्मिन्न् एव प्रलीयते ।
मनाक् स्फुरित्वा तद्रूपम् ऊर्मिजालम् इवार्णवे ॥
जाग्रत्स्वप्नसुषुप्तानां भवनाशोद्भवस्थितेः ।
एतत् तुर्यपदं शुद्धम् अत्र बद्धपदो भव ॥
ब्रह्मन् येयं विना निद्रां ग्राह्यग्राहकसङ्गदृक् ।
सा लोला जाग्रदास्थेति जानाम्य् एव न संशयः ॥
जाग्रद्वत् स्वप्नकाले या निद्रायां स्फुरति भ्रमे ।
ग्राह्यग्राहकसंवित्तिस् सा स्वप्नाख्येति वेद्म्य् अहम् ॥
भाविजाग्रत्स्वप्नदशा या दृषद्वद् विमूढता ।
सा सुषुप्तदशेत्य् एव जानाम्य् एव मुनीश्वर ॥
जाग्रत्स्वप्नसुषुप्तेषु स्थितं त्रिष्व् अप्य् अलक्षितम् ।
तुर्यं तूर्याद् अतीतं च तद् विप्रेन्द्र किम् उच्यते ॥
अहम्भावानहम्भावौ त्यक्त्वा सदसती तथा ।
यद् असक्तं समं स्वच्छं स्थितं तत् तुर्यम् उच्यते ॥
या स्वस्था समता शान्ता जीवन्मुक्तव्यवस्थितिः ।
साक्ष्यवस्था व्यवहृतौ सा तुर्यकलनोच्यते ॥
रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् ।
आत्मवश्यैर् विधेयात्मा तुर्यताम् उपगच्छति ॥
समता स्वच्छता चान्तर् एकता निर्विकल्पता ।
शुन्यता भाविता येन तुर्यावस्थाम् असौ गतः ॥
सर्व एव महान्तो ऽपि ब्रह्मविष्णुहरादयः ।
नराश् च केचिज् जीवन्तो मुक्तास् तुर्ये व्यवस्थिताः ॥
नैतज् जाग्रन् न च स्वप्नस् सङ्कल्पानाम् असम्भवात् ।
सुषुप्तभावो नाप्य् एतद् अभावाज् जडतान्तयोः ॥
रज्जुसर्पभ्रमनिभं नात्र चित्तं विवल्गति ।
सत्तासामान्यम् एकात्म सत्त्वम् अत्र समं स्थितम् ॥
आत्मारामामलानन्दा संशान्तसकलैषणा ।
जीवन्मुक्तदशा राम तुर्यशब्देन कथ्यते ॥
यथा स्वप्ने जगद्भानम् इदं चित्कचनं त्व् इति ।
बोधाद् द्वेषभयोन्मुक्तं शान्तम् अप्रतिघं भवेत् ॥
अत्यन्तासम्भवाद् दृश्यदृशां ब्रह्मात्मतोदयात् ।
तथा रागादिनिर्मुक्तम् आसितं तुर्यम् उच्यते ॥
शान्तं सम्यक्प्रबुद्धानां यथास्थितम् इदं जगत् ।
विलीनं तुर्यम् इत्य् आहुर् अबुद्धानां स्थिरं स्थितम् ॥
जीवन्मुक्तपदाद् ऊर्ध्वं वचसां यन् न गोचरे ।
शान्तं विदेहमुक्तत्वं तुर्यातीतं तद् उच्यते ॥
जीवन्मुक्तपदे तुर्ये कञ्चित् कालं यदृच्छया ।
स्थित्वा विदेहमुक्तत्वं याहि तुर्योत्तरं पदम् ॥
तुर्ये बद्धपदो भूत्वा परमां समतां गतः ।
माकर्ता मा च कर्ता त्वं भव प्रकृतकर्मणि ॥
अहङ्कारकलात्यागे शान्ततैवानुभूयताम् ।
विशरारौ क्षते चित्ते तुर्यावस्थोपतिष्ठते ॥
या कर्मस्व् इह संसृतौ व्यवहृतिस् स स्वप्नजाग्रद्भ्रमो यन् मौर्ख्यं घनम् एव मोहवलितं सासौ सुषुप्तस्थितिः ।
जीवन्मुक्तपदं विवासनतया यत् तुर्यम् आर्येह तत् तुर्यातीतम् अदेहमोक्ष इह नो वक्तुं गिरा पार्यते ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0