भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.131

6.131.1

भूयश् शृणु महाबाहो सङ्ग्रहेण वचो मम ।
यद् वच्मि तव बोधाय मयूरस्येव वारिदः ॥

6.131.2

त्वद्बोधनम् उपादेयम् आत्मीयात् तपसो मम ।
अबुद्धपृच्छका राम के रघूणां हि दैशिकाः ॥

6.131.3

जन्मान्तरशताभ्यस्तघनभ्रमणविह्वलः ।
शृणु जीवन् कथं मायापञ्जरात् प्रविमुच्यते ॥

6.131.4

कृताहम्भावना संविज् जीवाद्यभिधयान्विता ।
अहम्भावो ऽत्र मिथ्यैव सत्यं संविद् उदाहृता ॥

6.131.5

यन् मिथ्या तद् भ्रमायाल्पं कालं स्फुरति नो चिरम् ।
मोहात्मशुक्तिरुप्यादिमृगतृष्णाद्विचन्द्रवत् ॥

6.131.6

यन् मिथ्या तत् क्षयं याति यत् सत्यं तन् न नश्यति ।
आबालम् एतज् जगति प्रसिद्धम् अशनादिवत् ॥

6.131.7

नासतो विद्यते भावस् स्निग्धत्वं सिकतास्व् इव ।
सतश् च दृष्टो नाभावो भेकचूर्णाद् अणोर् अपि ॥

6.131.8

यथा भेकरजो ऽलक्ष्यं याति प्रावृषि भेकताम् ।
यत्र यत्र स्थितो जीवस् तथोदेति न नश्यति ॥

6.131.9

केवलं भावनामात्रं बुद्ध्यैवास्य प्रमार्जय ।
आत्मत्वायाङ्ग ताम्रस्य हेमत्वायेव कालताम् ॥

6.131.10

जगद्भावास्थया मुक्तḫ प्रयाति परमात्मताम् ।
जीवो विमुक्तं कालिम्ना ताम्रं कनकताम् इव ॥

6.131.11

सर्वेषाम् एव जीवानां भावना भवबन्धनी ।
वागुरेव विहङ्गानाम् एकावष्टम्भकारिणी ॥

6.131.12

आत्मतत्त्वाद् ऋते नास्ति मदीयम् अहम् इत्य् अलम् ।
युक्तितो निश्चये रूढे नूनं गलति भावना ॥

6.131.13

मांसास्थ्योघश् शवो देहẖ खं खम् अद्रिगणो जगत् ।
बुद्ध्यादयो विकल्पांशाẖ को ऽहं मम कथं च किम् ॥

6.131.14

संविदो ऽनन्तशुद्धायाẖ किलाकलितचेतसः ।
इयत्तोपशमं याति भावनाप्रलये सति ॥

6.131.15

सम्यग्दर्शनम् एवास्या भावनाया विशाम्पते ।
विनाशं विद्ध्य् अनन्ताभं यामिन्या दिवसं यथा ॥

6.131.16

प्रशान्तवासनो जीव एकतां याति चिद्घने ।
घृते घृतं जले तोयं क्षीरे क्षीरम् इवार्पितम् ॥

6.131.17

अतदात्मा तदात्मा च जीवḫ प्रस्फुरतीश्वरे ।
ज्वालायां तु यथालोको यथा गन्धलवẖ क्षितौ ॥

6.131.18

येनैकतां भावयति जीवस् तद् भवति क्षणात् ।
यच्चित्तस् तन्मयो जन्तुẖ केनैतन् नानुभूयते ॥

6.131.19

ब्रह्मभावनया जीवो ब्रह्मताम् एति शाश्वतीम् ।
अमृतं भाव्यते येन सो ऽमृतीभवति स्वयम् ॥

6.131.20

अब्रह्मभावनाज् जीवो दीनताम् एत्य नश्यति ।
विषभावनयैवाङ्ग विषीभवति मानवः ॥

6.131.21

आत्मनस् संविदो ऽच्छस्य संवेद्यकलनामलम् ।
सम्प्रमार्ज्योदितस् संविदात्मा व्यवहरानघ ॥

6.131.22

स्वेदोत्थदंशयौकान्तं भूतजातं सुराद्य् अपि ।
किं सर्वम् एव कर्मोत्थम् उत किञ्चिद् वदेति मे ॥

6.131.23

चतुर्दशविधस्यास्य भूतजातस्य राघव ।
किञ्चित् सकारणं जातं प्राक्तनैर् आत्मकर्मभिः ॥

6.131.24

किञ्चिन् निष्कारणं जातं कचनं सुमणेर् इव ।
स्वभावतो ऽधुना कर्म कारणात्तं भविष्यति ॥

6.131.25

हार्दान्धकारमार्ताण्ड संशयाब्दानिलप्रभो ।
जगतां भूतजातस्य जातस्याथ भविष्यतः ॥

6.131.26

किं कथं कारणायातं किं कथं चाप्य् अकारणम् ।
जातं वा जायते वापि कथं वापि जनिष्यते ॥

6.131.27

दिक्कालाद्यनवच्छिन्नं व्योम्न्य् अव्योम्नि च संस्थितम् ।
चिद्व्योमानुभवप्राप्यम् आमोदḫ पवने यथा ॥

6.131.28

ख इवार्को ऽम्बुदव्याप्तो वटबीज इवाङ्कुरः ।
वायौ स्पन्द इवालक्ष्यं व्योम्न्य् अव्योम्नि च चेतनम् ॥

6.131.29

तत् क्वचिन् नित्यम् अचलं शान्तं समसमस्थिति ।
ब्रह्माण्डपाराम्बरवद् अनन्तम् अविकारि च ॥

6.131.30

क्वचित् स्वभावजात् स्पन्दात् स्फुरत्य् अग्निर् इव त्विषा ।
भूततन्मात्रभावेन जगत्तां समुपेयुषा ॥

6.131.31

क्वचित् प्राक्स्पन्दसम्पन्नभूततन्मात्ररञ्जनात् ।
भूतत्वं समुपादत्ते हेमाङ्गददशाम् इव ॥

6.131.32

यथा सत्त्वम् उपेक्ष्य स्वं शनैर् विप्रो दुरीहया ।
अङ्गीकरोति शूद्रत्वं तथा जाड्यं चिदीश्वरः ॥

6.131.33

भूतानि द्विविधान्य् एवं प्रतिसर्गं स्फुरन्ति हि ।
अद्यचित्स्पन्दजातानि चिरचित्स्पन्दजानि च ॥

6.131.34

तत्र ये चित्स्वभावोत्थस्पन्दजास् ते हि जीवकाः ।
निष्कारणं समुत्पन्ना रुचयस् सन्मणेर् इव ॥

6.131.35

सकारणत्वम् अधुना गन्तव्यं तैस् स्वकर्मभिः ।
दशासु बन्धमोक्षासु नाशे जन्मनि कर्मणि ॥

6.131.36

ईश्वरात् समुपागत्य भुक्तजन्मान्तरास् तु ये ।
जाता जन्मनि तेषां हि प्राक्तनं कर्मकारणम् ॥

6.131.37

अधुनैव हि सम्पन्ना ये जीवा ब्रह्मणḫ पदात् ।
ते ह्य् अकारणजन्मानो भविष्यज्जन्मकारणम् ॥

6.131.38

कार्यकारणभावो ऽयम् ईदृशो जीवकर्मणोः ।
जीवो ऽकारणजḫ पुण्यो धन्यẖ कारणजस् स्मृतः ॥

6.131.39

केचित् पुण्याḫ प्रजायन्ते केचिद् धन्याश् च जीवकाः ।
पुण्या धन्यत्वम् आयान्ति न धन्या यान्ति पुण्यताम् ॥

6.131.40

धन्याḫ पुण्यत्वम् अगता एव केचिद् विमोक्षणाः ।
धन्यत्वान् मोक्षिणẖ केचिद् धन्यत्वाद् अपि नेतरे ॥

6.131.41

वीरुत्तृणलतागुल्मयौककीटखगादयः ।
सुरासुरनराहीन्द्रपिशाचाशीविषादयः ॥

6.131.42

केचिद् धन्याẖ केचित् पुण्याẖ केचिद् धास्यन्ति पुण्यताम् ।
पुण्यत्वान् मोक्षिणẖ केचिद् धन्यत्वाद् वा ततो ऽपि नो ॥

6.131.43

यथा रत्नस्य कचनं स्पन्दनं पवनस्य च ।
यथौष्ण्यम् अनलादेश् च चिन्मात्रस्य तथा जगत् ॥

6.131.44

असम्यग्दर्शनोत्पन्नं पुंस्त्वं स्थाणौ यथोदितम् ।
क्षीयते सम्यगालोकाद् द्वित्वम् एव तथात्मनि ॥

6.131.45

चिन्मात्रस्यातिशुद्धस्य निस्सङ्कल्पोदितात्मनः ।
अनन्तस्य प्रकाशस्य सर्वगत्वाद् रघूद्वह ॥

6.131.46

खाद् एव जायते कश्चित् कश्चिद् व्योम्न्य् एव लीयते ।
जीवस् सङ्कल्पमात्रात्मा मधाव् इव जरद्घनः ॥

6.131.47

आत्मानं सम्यग् आलोक्य यẖ ख एव विलीयते ।
न स सन्दृश्यते भूयो हिमं तापद्रुतं यथा ॥

6.131.48

यस् त्व् अपश्यन् स्वम् आत्मानं सस्पन्दẖ कलनात्मभिः ।
कर्मभिस् स स्फुरत्य् उच्चैर् विलीनो जायते पुनः ॥

6.131.49

यस् सङ्कल्पपरिस्पन्दैस् स्थौल्यम् एति जडात्मकः ।
प्रावृषीव पयोवाहẖ क्षीणक्षीणो ऽप्य् उदेत्य् असौ ॥

6.131.50

आत्मत्वांशान्वितम् अपि चित्सङ्कल्पं रघूद्वह ।
दूरीकुरु महासिद्ध्यै विषसिक्तम् इवाशनम् ॥

6.131.51

निर्विकल्पम् अनाद्यन्तम् उदासीनम् अवस्थितम् ।
सर्वात्मैकं समुदितं चिद्व्योम भव भूतये ॥

6.131.52

अकारणम् उपायान्ति सर्वे जीवाḫ परात् पदात् ।
पश्चात् कारणतां यान्ति बन्धमोक्षदशास्व् इह ॥

6.131.53

सङ्कल्पित्वं हि बन्धस्य कारनं तत् परित्यज ।
मोक्षस् तु निस्सङ्कल्पत्वं तदभ्यासं धिया कुरु ॥

6.131.54

अकारणं त्व् अकरणात् सर्वकारणकारणात् ।
यावन् निमेषम् अव्यक्ताज् जीवस् सम्पद्यते शिवात् ॥

6.131.55

तावन् निमेष एवासौ याति कारणतां स्वयम् ।
संसृतौ स्वास्व् अवस्थासु वीचिष्व् इव चलज्जलम् ॥

6.131.56

सावधानो भवातस् त्वं ग्राह्यग्राहकसङ्गमे ।
अजस्रम् एव सङ्कल्पदशाḫ परिहरञ् शनैः ॥

6.131.57

मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।
भावनाम् अखिलां त्यक्त्वा यच् छिष्टं तन्मयो भव ॥

6.131.58

ग्राह्यग्राहकसम्बन्धसावधानो ह्य् अनारतम् ।
अकुर्वन् वापि कुर्वन् वा मुक्तिम् एवानुधावति ॥

6.131.59

ग्राह्यग्राहकरूपात्मा ह्य् अज्ञो राम क्षणं प्रति ।
नवं नवम् उपायाति बन्धनं भावनावशात् ॥

6.131.60

ग्राह्यग्राहकसम्बन्धे रसभावनया स्वया ।
निमेषं प्रति जीवस्य बन्धो गच्छति पीनताम् ॥

6.131.61

ग्राह्यग्राहकसम्बन्धे विनैव रसभावनाम् ।
निमेषं प्रति जीवो ऽयम् आत्मताम् एति मोक्षभाक् ॥

6.131.62

अजस्रं यं यम् एवार्थं पतत्य् अक्षगणो ऽनघ ।
बध्यते तत्र रागेण तत्रारागेण मुच्यते ॥

6.131.63

किञ्चिच् चेद् रोचते तुभ्यं तद् बद्धो ऽसि भवस्थितौ ।
न किञ्चिद् रोचते ते चेत् तन् मुक्तो ऽसि भवस्थितेः ॥

6.131.64

अस्मात् पदार्थनिचयात् सहस्थावरजङ्गमात् ।
तृणादेर् देवपर्यन्तान् मा किञ्चित् तव रोचताम् ॥

6.131.65

रतिर् नित्यम् अनर्थार्थम् अरतिश् श्रेयसे नृणाम् ।
अन्तवत्त्वाद् रतिर् दुẖखैर् अनन्तैर् योजयेन् नरम् ॥

6.131.66

अरतिस् सन् यद् अश्नासि यत् करोषि जहासि यत् ।
न कर्तासि न भोक्तासि तत्र मुक्तमतिश् शमी ॥

6.131.67

नेह प्रजायते किञ्चिन् नेह किञ्चिद् विनश्यति ।
सर्वं शान्तं निरालम्बं चिद्व्योमामलम् आततम् ॥

6.131.68

सन्तो ऽतीतं न शोचन्ति भविष्यच् चिन्तयन्ति नो ।
वर्तमानं च गृह्णन्ति क्रमप्राप्तं सदानघ ॥

6.131.69

स्फुरन्ति जीवपुष्पाणि जातानि ब्रह्मपादपे ।
तज्जान्यतन्मयानीव फेना इव महार्णवे ॥

6.131.70

अन्योऽन्यप्रतिबिम्बेन चिदर्णवतरङ्गकाः ।
एकात्मका अपि द्वित्वं यान्ति जीवा जगत्स्थितौ ॥

6.131.71

दृढभावनया जीवो मनस्ताम् उपगच्छति ।
शीतातिशयतस् स्वच्छं पयḫ पाषाणताम् इव ॥

6.131.72

मनसि ग्रथिताḫ पाशास् तृष्णामोहमदादयः ।
वागुरायाम् इव खगाḫ मेथ्याम् इव च तर्णकाः ॥

6.131.73

मनसैव मनो राम च्छेदनीयं विजानता ।
विवेकतीक्ष्णेनातप्तम् अयसेव बलाद् अयः ॥

6.131.74

अनन्यदविकारादिजनितं स्वस्वभावजम् ।
वैचित्र्यं शिखिपिञ्छस्य यथा भाति तथात्मनः ॥

6.131.75

नकिञ्चित् किञ्चिद् अप्य् आत्मा सत्याकारो ऽप्य् असद्वपुः ।
आकाशाद् अप्य् अलक्ष्यो ऽसौ जगद्रूपो ऽप्य् अरूपवान् ॥

6.131.76

सालम्बे ऽपि निरालम्बो निर्विकारो विकारिणि ।
साभासे ऽपि निराभासो नश्यत्य् अर्थे न नश्यति ॥

6.131.77

ग्राह्यं च ग्राहकं चैव ग्रहणं च रघूद्वह ।
यत्र सत्ताम् उपगतं तत्त्वं तत्र स्थिरो भव ॥

6.131.78

मनसैव मनश् छिन्द्धि संसारभ्रमशान्तये ।
क्षालयन्ति मलेनैव मलं क्षालनकोविदाः ॥

6.131.79

अमनस्त्वं प्रयातस्य न भूयस् ते भवो भवेत् ।
मननं हि भवं विद्धि स्वप्नाद् यत् तन् न तत्क्षयात् ॥

6.131.80

सर्वं चिन्मात्रम् आत्मैव नास्त्य् अन्या कलनेति वा ।
बुद्ध्वा न जायसे भूयस् सति चासति चेतसि ॥

6.131.81

सर्वं चिन्मात्रम् आत्मैव नास्त्य् अन्यद् इति या मतिः ।
तत्त्वं तद् विद्धि परमम् उन्मनस्त्वम् अजन्मने ॥

6.131.82

सति चित्ते ऽप्य् अचित्तत्वं यद् आत्मत्वैकभावनात् ।
तद् अचित्तत्वम् आकारे सति वासति मोक्षदम् ॥

6.131.83

सर्वं चिद् इति भावेन रागद्वेषदृशोẖ क्षये ।
चित्ते सत्य् अप्य् अचित्तत्वे जाते भूयोभवẖ कुतः ॥

6.131.84

सुखाशयैति सङ्कल्पं जीवो दुẖखं ततो व्रजेत् ।
जीवो हि यतते भूत्यै सम्प्राप्नोत्य् आपदं पराम् ॥

6.131.85

मनो विचारम् आरुह्य मननानर्थम् उज्झति ।
यत् करोति विमूढात्मा तेनैतन् नश्यति स्वयम् ॥

6.131.86

विवेकं प्राप्य चेतस् स्वान् सङ्कल्पान् नाशयत्य् अलम् ।
पूर्वं हि स्वजनान् हन्ति दुर्जनḫ प्राप्य सम्पदम् ॥

6.131.87

स्वजनान् एव दहति दुर्जनḫ प्रथमोत्थितः ।
रूक्षैश् चटचटास्फोटैर् वेणून् वेण्वनलो यथा ॥

6.131.88

प्रसारणात् प्रदृश्यन्ते सृष्टयो ऽन्तर्गताश् चितः ।
कदर्ककस्य विविधा यथा वर्णकपङ्क्तयः ॥

6.131.89

समस्तशक्तिकचितम् एकात्म ब्रह्म संवृतम् ।
विवृतं भाति नानात्वे यात्रास्व् इव कदर्ककम् ॥

6.131.90

चिन्मात्रालोकितं चित्तं करोतीमां जगत्स्थितिम् ।
नृपेक्षितḫ प्रतीहारस् सामन्तरचनाम् इव ॥

6.131.91

चिद्रूषितस्य मनसẖ कर्म संसृतिनामकम् ।
रसासिक्तस्य बीजस्य पत्त्रपुष्पफलं यथा ॥

6.131.92

अत्युल्लसद्विविधभङ्गुरवस्तुजातैश् चिच्चक्रचञ्चलतया समुदेति विश्वम् ।
तस्यैव सम्प्रति निवारय चञ्चलत्वं बुद्ध्वेह सत्यम् अथ वा घनतां नयस्व ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc