मोक्षोपाय · अध्याय 6.130
एवम् उक्त्वा स भगवान् मनुस् तूष्णीम् अवस्थितः ।
इक्ष्वाकुना नृपेन्द्रेण मुदितेनाभिपूजितः ॥
जगामाकाशम् आविश्य श्रीमान् पैतामहं गृहम् ।
एतां दृष्टिम् अवष्टभ्य रामात्मारामतां व्रज ॥
एवं स्थिते हे भगवञ् जीवन्मुक्तस्य सन्मतेः ।
अपूर्वो ऽतिशयẖ को ऽसौ भवत्य् आत्मविदां वर ॥
ज्ञस्य कस्मिंश्चिद् एवाङ्ग भवत्य् अतिशये न धीः ।
नित्यतृप्तḫ प्रशान्तात्मा स आत्मन्य् एव तिष्ठति ॥
अपूर्वो ऽतिशयẖ को वा साधोर् जगति विद्यते ।
सर्वे ह्य् अतिशया लोके शतशḫ पूर्वतां गताः ॥
धूर्तैस् सिद्धैश् च तज्ज्ञैश् च तथान्यैर् मृगपक्षिभिः ।
कृतम् आकाशयानादि का तस्य स्याद् अपूर्वता ॥
केवलं शान्तसंरम्भं प्रकृतव्यवहारवान् ।
तज्ज्ञस् सङ्क्षपयन् देहं स्वस्थ आत्मनि तिष्ठति ॥
नोत्तमं न च सामान्यं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं ज्ञं विदन्ति जना इमे ॥
लोकाचारगतस्यापि लोकवत् संस्थितस्य च ।
ब्रह्मन् विदितवेद्यस्य ब्रूहि चिह्नं मनाग् अपि ॥
न किञ्चिद् अप्य् अपूर्वत्वं जनात् तस्याङ्ग लक्ष्यते ।
यच् च स्याद् अस्य वा चित्रं तद् अन्यत्रापि लक्ष्यते ॥
तत्त्वज्ञस्येह हे राम न लोकालोकनक्षमम् ।
विद्यते लक्षणं साक्षाद् अणिमाद्य् अपदादि वा ॥
व्यवहारी यथैवाज्ञस् तज्ज्ञो लोके तथैव हि ।
व्यवहारवशप्राप्ते सुखे दुẖखे च तिष्ठति ॥
एक एव विशेषो ऽत्र स चादृश्यो जनस्थितौ ।
सति वासति वा देहे यद् अन्तẖक्षीणदुẖखता ॥
स्वानुभूत्यात्मकाद् अस्मान् निर्दुẖखत्वाद् ऋते परः ।
शिरश्शृङ्गादि तज्ज्ञस्य चिह्नम् अन्यन् न विद्यते ॥
महाकर्ता महाभोक्ता महात्यागी स यद्य् अपि ।
तज्ज्ञो भवति तद् राम ते ऽपि साधारणा गुणाः ॥
प्रायो ऽज्ञस्यापि वै दृष्टं कामलोभादितानवम् ।
तपोदानं यशश् चैव नैतज् ज्ञत्वस्य लक्षणम् ॥
नित्यम् एवोत्तमानन्दाद् अन्यत् स्वानुभवस्थितात् ।
क्षयातिशयनिर्मुक्ताच् चिह्नं तज्ज्ञस्य नास्ति वै ॥
महाकर्तृत्वम् अथ वा चिह्नं तज्ज्ञस्य दृश्यते ।
तत् साधो साधु सामान्यम् उक्तं च बहुधा मया ॥
एतावद् एव खलु लिङ्गम् अलिङ्गमूर्तेस् संशान्तसंसृतिचिरभ्रमनिर्वृतस्य ।
तज्ज्ञस्य यन् मदनकोपविषादमोहलोभापदाम् अनुदिनं निपुणं तनुत्वम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0