मोक्षोपाय · अध्याय 6.129
आत्मारामो वीतशोको नित्यम् अन्तर्मुखस् सुखी ।
कुर्वन्न् अपि च कर्माणि तिष्ठत्य् अपगतभ्रमम् ॥
अन्तश्शीतलया नित्यम् अनाकुलतया तथा ।
सोम्यरूपतया पूर्णश् शशाङ्क इव शोभते ॥
समश् शान्तमना मौनी क्षीणवादविचारणः ।
कचत्य् आत्मनि चित्तत्त्वे दग्धेन्धन इवानलः ॥
येन केनचिद् आच्छन्नो येन केनचिद् आशितः ।
यत्र क्वचन शायी च सम्राड् इव विराजते ॥
वर्णधर्माश्रमाचारशास्त्रमन्त्रामयोज्झितः ।
निर्गच्छति जगज्जालात् पञ्जराद् इव केसरी ॥
वाचाम् अतीतविषयां विषयाशादशोज्झिताम् ।
काम् अप्य् उपगतश् शोभां शरदीव नभस्तलम् ॥
गम्भीरश् च प्रसन्नश् च गिराव् इव महाह्रदः ।
परानन्दरसक्षीवो रमते स्वात्मनात्मनि ॥
यथाभिमतविस्तारो यथाभिमतकर्मकृत् ।
परमां निर्वृतिं याति मुक्तशास्त्रार्थयन्त्रणः ॥
सर्वकर्मफलत्यागी नित्यतृप्तो निराश्रयः ।
न पुण्येन न पापेन नेतरेणापि लिप्यते ॥
स्फटिकḫ प्रतिबिम्बेन यथा नायाति रञ्जनाम् ।
तज्ज्ञẖ कर्मफलेनान्तस् तथा नायाति रञ्जनाम् ॥
हसन् रुदन्न् अपि भृशं देहपूजाविकर्तनैः ।
दाहाह्लादौ न जानाति प्रतिबिम्बगताव् इव ॥
निस्स्तोत्रो निर्वषट्कारḫ पूज्यपूजाविवर्जितः ।
संयुक्तश् च वियुक्तश् च सर्वाचारनयक्रमैः ॥
तस्मान् नोद्विजते लोको लोकान् नोद्विजते च सः ।
हर्षामर्षभयक्रोधैर् मुक्तो युक्तश् च दृश्यते ॥
रागद्वेषोदयारम्भैस् त्यज्यते ऽपि च युज्यते ।
ईहानीहाविलासेन नाप्यते ऽथ च भुज्यते ॥
प्रमेये कस्यचिद् अपि नारोहति महाशयः ।
प्रमेयीक्रियते वापि बालेनाप्य् अदुराशयः ॥
विधूयानन्तनानात्वं यẖ किलैकतयोदितः ।
तम् अनाद्यन्तसंवित्तिं को वा तुलयितुं क्षमः ॥
तनुं त्यजति तीर्थे वा श्वपचस्य गृहे ऽपि वा ।
मा कदाचन वा राजन् वर्तमाने ऽपि वा क्षणे ॥
ज्ञानसम्प्राप्तिसमये मुक्तो ऽसौ विगतामयः ।
वीतशोकजरायासो यत् करोति करोतु तत् ॥
अहम्भ्रान्तिर् हि बन्धाय मोक्षो जाते हि तत्क्षये ।
यथा भवति देहो ऽयं तथा भवतु का क्षतिः ॥
यत् करोति यद् आदत्ते यत्रोपविशति क्षणम् ।
यत् पश्यति स्पृशति यत् तस्मै स्पृहयति प्रजा ॥
स पूजनीयस् स स्तुत्यो नमस्कार्यस् स यत्नतः ।
स महात्माभिवाद्यश् च विभूत्यै विभवैषिणा ॥
न यज्ञतीर्थैर् न तपḫप्रदानैर् आसाद्यते तत् परमं पवित्रम् ।
आसाद्यते क्षीणभवामयानां भक्त्या सताम् आत्मविदां यद् अङ्ग ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0