मोक्षोपाय · अध्याय 6.128
परस्मात् कारणाद् एको जीवḫ प्रथमम् उत्थितः ।
तस्माज् जीवकणा जाताẖ कणास् तप्तायसो यथा ॥
ते देवनागगन्धर्वविद्याधरशताभिधाः ।
स्फुरन्त्य् आत्मामृताम्भोदनिर्मलामृतबिन्दवः ॥
स्वैरसङ्कल्पजालेन वलिता बन्धम् आगताः ।
स्वलालयेव तन्तुत्वं गतया कोशकारकाः ॥
स्वसङ्कल्पेन भूतानि बद्धानीति परस्परम् ।
स्वतुषेणेव धान्यानि दुẖखान्य् अनुभवन्त्य् अतः ॥
स स्वसङ्कल्पनतुषो दह्यते ज्ञानवह्निना ।
यदा तदा भवन्त्य् अच्छा नवा मुक्ताकणा इव ॥
भूयो जगति जायन्ते न कदाचन केचन ।
ते ततात्मपदारूढा मूढत्वाद् उद्धृताशयाः ॥
जगद्वृत्ताव् अवयवैर् मिथẖ कारणतां गतम् ।
अकारणं जगद् विद्धि नाशोत्पत्त्योस् स्वभावतः ॥
यथाम्बुकुम्भेषु नभो नार्पितं नाप्य् अनर्पितम् ।
तथात्मा सर्वदेहेषु न स्थितो नापि चास्थितः ॥
सति कुम्भे सति च खे कुम्भाकाशाभिधा यथा ।
सत्य् आत्मनि च देहे च देहसंवेदनं तथा ॥
चेतनाचेतनकला नृप सन्ति न काश्चन ।
काचिद् आत्माभिधा सत्ता देहे स्फुरति केवलम् ॥
यथा दृङ् निर्मले व्योम्नि चिरन्यस्तोल्लसत्य् अलम् ।
तथा स्फुरति देहाभा सत्तात्मन्य् आत्मनामिका ॥
पूर्वं जीवास् स्वसङ्कल्पैर् ये जगत्सुस्थितिं गताः ।
तत्सङ्गाद् अद्य जीवत्वं यान्त्य् अन्या ब्रह्मशक्तयः ॥
यथा तस्करसंसर्गाद् बध्यते ऽतस्करो ऽपि हि ।
तथा प्राग्जीवसंसर्गात् प्रयात्य् आत्मकला मितिम् ॥
यावत् स्वता स्वदेहादौ तावत् संसृतिबीजता ।
यावद् विषयभोगाशा जीवाख्या तावद् आत्मनः ॥
विवेकवशतो ज्ञत्वाज् जाते द्वैतैक्ययोẖ क्षये ।
आत्मा जीवत्वम् उत्सृज्य ब्रह्मताम् एत्य् अनामयः ॥
जराजन्ममृतिभ्रान्तिचक्रे भ्रमति मोहिता ।
वासनातन्तुबद्धेयं जनतातापभागिनी ॥
न कस्यचिद् अहं नैव कश्चिद् एवाहम् ईदृशः ।
नैव कश्चिन् ममेत्य् अन्तर्निश्चयात् त्यज संसृतिम् ॥
सर्वं ममाहं सर्वस्य चैवेति दृढनिश्चयात् ।
त्यज संसृतिसंरम्भं स्वस्थो भव भवातिगः ॥
ऊर्ध्वाद् अधस् त्व् अधस्ताच् च पुनर् ऊर्ध्वं व्रजंश् चिरम् ।
मा संसारारघट्टस्य चिन्तारज्ज्वां घटो भव ॥
इदं ममाहम् अस्येति व्यवहारघनभ्रमम् ।
ये मोहात् सन्निषेवन्ते ते ऽधस्ताद् यान्त्य् अधश् शठाः ॥
अस्याहम् एष मे सो ऽयम् अहम् एवम्मयात्मनि ।
मोहे बुद्ध्या परित्यक्ते ऊर्ध्वाद् ऊर्ध्वं प्रयास्य् अजः ॥
मा सागरे शिलेव त्वम् अधोऽधो गच्छ मोहितः ।
क्षीरार्णवेन्दुवद् बोधाद् ऊर्ध्वाद् ऊर्ध्वतरं व्रज ॥
जलफेनवद् उत्पन्नध्वंसिताम् अनुभावयन् ।
वीरुत्तृणलतागुल्मगणनां मा प्रपूरय ॥
चित्तेजो यश् चिदादित्यḫ प्रसारयति सर्वतः ।
तेन प्रकटितं सार्कचन्द्रतारं जगद्गृहम् ॥
तत्प्रकाशं स्वम् आत्मानम् अवलम्ब्याविलम्बितम् ।
आस्स्व सम्पूरिताकाशं देहादिं नृप पश्य हे ॥
यथा तिष्ठन् स्वभावेन स्फटिकẖ किरति प्रभाः ।
तथा जगन्ति किरति चिद्दीप्त्या चिद्दिवाकरः ॥
यद् आत्मनैव विमलं चित्त्वेन स्फुरणं चितः ।
तद् इदं जगदाभोगि सम्पन्नं स्फारसंविदः ॥
यदा ब्रह्म परं ब्रह्म तत्रैव ब्रह्म बृंहितम् ।
न तत्र सम्भवन्त्य् एता भूताभूतादिकल्पनाः ॥
सर्वशक्तितया ब्रह्म चेतस्त्वाद् अतियातया ।
सत्त्वशक्त्या स्थितं यत्र जीवन्मुक्तं हि तत्र तत् ॥
यत्र ब्रह्मानन्तशक्तिचित्तशक्त्या विजृम्भते ।
विविक्तया तत्र नरसुरनागादितां गतम् ॥
भ्रान्तया मूढया यत्र चित्तशक्त्या लये स्थितम् ।
तत्र तिर्यक्पिशाचादिभूततां समुपागतम् ॥
अत्यन्तमूढया यत्र सुषुप्तसमया स्थितम् ।
चित्तशक्त्या गतं तत्र तरुगुल्मतृणादिताम् ॥
क्षीणदेहसहस्रस्य चिरमूढस्य चेतसः ।
शिलाद्य् अवयवं विद्धि कस्यचित् पर्वतस्य वा ॥
यथामोदेन कुसुमं माधुर्येण गुडो यथा ।
व्याप्तं सपर्वताकाशं चित्तत्त्वेन जगत् तथा ॥
किञ्चित् क्षुब्धं पयẖ किञ्चित् सोम्यरूपं यथाम्बुधेः ।
किञ्चिद् अस्पन्दि किञ्चिच् च स्पन्दिरूपं तथा चितः ॥
यदैवैवं चितो रूपं ततं बुद्धम् अखण्डितम् ।
तदैव तीर्णस् संसारḫ परमेश्वरतां गतैः ॥
ब्रह्मेन्द्रविष्णुवरुणा यद् यत् कर्तुं समुद्यताः ।
तद् अहं चिद्वपुस् सर्वं करोमीत्य् एव भावयेत् ॥
येषु येषु यथा यद् यद् दर्शनेषु निगद्यते ।
सर्वम् एवाङ्ग तत् सत्यं सर्वम् एव हि सर्वगम् ॥
यं यं देशं विदेशं वा कालं वा कलनां च वा ।
वेत्सि ब्रह्मैव तत् सर्वं यथेच्छसि तथा कुरु ॥
यद् यद् विभाव्यते रूपं तत्ताम् एति चिदीश्वरः ।
तां ताम् इच्छां पूरयितुं चिन्तामणिवद् आततः ॥
यद् यद् विभाव्यते किञ्चित् तत् तत् तेन विवस्वता ।
क्रियते भूष्यते सम्यग् योज्यते चानुभूयते ॥
चिन्मात्रत्वं प्रयातस्य तीर्णमृत्योस् स्वचेतसः ।
यो भवेत् परमानन्दẖ केनासाव् उपमीयते ॥
सीमान्तस् सर्वदुẖखानां मृत्युर् एव जगत्त्रये ।
तं जित्वा यḫ परानन्दस् स वक्तुं केन पार्यते ॥
सर्वासाम् एव दृष्टीनां सर्वासाम् एव सम्पदाम् ।
परिज्ञाय स्वम् आत्मानम् उपरि स्थीयते चिरम् ॥
अप्य् अनन्ता महान्तो ऽपि वज्रभेदकरा अपि ।
शुद्धं खम् इव बाधन्ते तज्ज्ञं दोषा न केचन ॥
जरामरणजन्माद्यास् समस्ता दोषदृष्टयः ।
आत्मज्ञानैकपर्यन्ता यथाब्ध्यन्तास् सरिद्रयाः ॥
तावत् प्रकृतिर् आलोला यतते दुẖखसङ्क्षये ।
यावत् पश्यति नात्मानं तम् आलोक्योपशाम्यति ॥
यथा पुष्पं समासाद्य नश्यन्ति शरवेणवः ।
तथात्मत्वं समासाद्य मनोबुद्धीन्द्रियादयः ॥
सर्वम् आदौ जगच् छून्यं शून्यम् अन्ते च भूपते ।
अतश् शून्यात्मकं ह्य् एतद् विद्धि मध्ये ऽपि शून्यकम् ॥
नान्तश् शूनं च शून्यं च नाचिद्रूपं न चिन्मयम् ।
नात्मरूपं नान्यरूपं भुवनं भावयन् भव ॥
एतत् स्वरूपम् आसाद्य प्रकृतिḫ परिशाम्यति ।
स्वभावाच् चलितं वस्तु क्षोभं कृत्वा क्व तिष्ठतु ॥
अज्ञानग्रन्थिनिर्भेदो मोक्ष इत्य् उच्यते ऽनघ ।
न देशो मोक्षनामास्ति न कालो नेतरा स्थितिः ॥
अहङ्कृतेर् विमोहस्य क्षयेणेयं विलीयते ।
प्रकृतिर् भावनानाम्नी मोक्षस् स्याद् एष एव सः ॥
एष एव शनैर् देहं गालयित्वोपशाम्यति ।
विवेको विषये वाचां भवत्य् अभवनिं गतः ॥
यथाभूतम् इदं ज्ञात्वा जागतं वस्तुविभ्रमम् ।
भावयित्वा यथाज्ञानं ज्ञस् तिष्ठति यथासुखम् ॥
प्रशान्तशास्त्रार्थविचारचापलो निवृत्तनानारसकाव्यकौतुकः ।
निरस्तनिश्शेषविकल्पविप्लवस् समस् सुखं तिष्ठसि शाश्वतात्मकः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0