मोक्षोपाय · अध्याय 6.127
आत्मनैवात्मनो लेपẖ क इव स्यात् कथं किल ।
अतो निर्लेप एवात्मा द्वितीयस्यात्यसम्भवात् ॥
वासनादिविकल्पो ऽस्ति व्यतिरिक्तश् च नात्मनः ।
आत्मैव वासनाशक्तिर् जलम् एव यथोर्मयः ॥
आत्मा देहेन्द्रियतया स्फुरद्भावविकारिताम् ।
धत्ते ऽभावविकारो ऽपि तरङ्गत्वं यथा पयः ॥
अविकारो ऽपि सङ्कल्प्य विकारकलनां मुधा ।
विकारीव भवत्य् उच्चैḫ पश्यत्य् उच्चैर् विजृम्भितम् ॥
आत्मनो दृश्यते राजन् यद् विकारो ऽविकारिणः ।
सत्यं सत्यम् असत्यं तत् स्वयम् एतद् विचारय ॥
कटकादि यथा हेम्नो विवर्तादि तथात्मनः ।
न विकारो ऽविकारस्य सम्भवत्य् अविनाशतः ॥
न विकारो यथोर्मित्वं वार एवं जगच् चितः ।
असत्यालोकनाद् भ्रान्तिर् दृष्टेर् एव न वस्तुनः ॥
यथाङ्गदत्वाद् दण्डत्वं गते हेम्नि न शोच्यते ।
मृतम् अङ्गदहेमेति न विकाराद्य् अपीति च ॥
तथाम्बरत्वात् कुड्यत्वे स्थिते चिद्व्योम्नि शोचनम् ।
न युक्तं व्योमसंविद् वै मृता सत्य् एव धीमतः ॥
देहसंवित् खसंवित्त्वं खसंविद् देहसंविदम् ।
यदि गच्छति तद् धर्षविषादानां क आगमः ॥
प्रत्यक्चेतनम् आभासस् संविद् अस्तीति निश्चये ।
भावानां सविकाराणां भ्रान्तिजानाम् अभावनात् ॥
बलेन स्वचमत्कृत्या नूनं नीते चिरोदयम् ।
निर्वासनत्वे हृदये कुतो जीवस्य संसृतिः ॥
स्वसंविन्मात्रवैचित्र्यं साध्ये संसृतिसङ्क्षये ।
जन्तूनां चित्रम् अत्यन्तं यत् संरम्भ उपस्थितः ॥
संविन्मात्रोपशमनं जीवो यẖ कुरुते बलात् ।
जडत्वम् अव्रजन् स्वच्छस् स तीर्णो भवसागरम् ॥
संविच्चापलजेयं वस् संसृतिर् भवबन्धनी ।
शमं तत्प्रशमाद् एति तस्मात् तत्प्रशमं कुरु ॥
यैव संविच् छमं याति सैव बुद्धिर् विलीयते ।
यैव प्रालेयकणिका सैव तापे विलीयते ॥
न म्रिये न च जीवामि नाहं सन् नाप्य् असन् न खम् ।
अहं नकिञ्चिच् चिद् इति मत्वा जीवो न शोचति ॥
अलेपको ऽहम् अजरो नीरागश् शान्तवासनः ।
निर्मलो ऽस्मि चिदाकाशम् इति मत्वा न शोचति ॥
अहम् अन्तादिरहितश् शुद्धो बुद्धो ऽजरामरः ।
शान्तस् समसमाभास इति मत्वा न शोचति ॥
जगत्सर्वपदार्थानां चिद्दीपो ऽहं प्रकाशनम् ।
के ते मे जन्ममरणे इति मत्वा न शोचति ॥
तृणे ऽग्नाव् अम्बरे भानौ नरनागामरेषु च ।
यच् चिद् अस्मि तद् एवेति मत्वा क इव शोचति ॥
तिर्यग् ऊर्ध्वम् अधस्तान् मे व्यापको महिमा चितः ।
अस्यानन्तविलासस्य ज्ञात्वेति क इव क्षयी ॥
उपशान्तमहातापां परां निष्ठाम् अहं गतः ।
अथ को ऽयम् अहं नाम मिथ्यैव प्रत्ययोदितः ॥
अजेनात्मा किल ज्ञातो यद् अहं बुद्ध ईश्वरः ।
आत्मनात्मनि विश्रान्तं जलेनेव जलार्णवे ॥
ब्रह्म ब्रह्मैव सम्पन्नम् अक्षोभं समतां गतम् ।
जलम् ऊर्मिवपुस् त्यक्त्वा स्वं सोम्यत्वम् इवागतम् ॥
निरहङ्काररूपो ऽस्मि गलितो ऽस्म्य् अस्मि शाश्वतः ।
अन्तश्शीतो ऽस्मि शाम्यामि मृगतृष्णेव प्रावृषि ॥
निर्वृतो ऽस्मि चिरायैव जातो ऽस्म्य् अजवपुर् महान् ।
इति जानन् भृशं जीवो बद्धो ऽपि न निबध्यते ॥
न मे बन्धो न मे मोक्षो नाहम् अस्मि न चेतरत् ।
यथाभूतार्थदर्शित्वाद् इति पश्यन् न शोचति ॥
कुर्वतो ऽपि न बन्धाय कर्म तत्त्वविदो भवेत् ।
भुञ्जानो ऽपि विषं तज्ज्ञो न विनश्यति कर्हिचित् ॥
प्राक्शरीरकृतं कर्म मूलकाषेण दह्यते ।
वर्तमानावबोधेन शुष्कं तृणम् इवाग्निना ॥
बद्धवासनम् अर्थो यस् सेव्यते सुखयत्य् असौ ।
ददाति च फलानीति स्वयम् एवानुभूयते ॥
यत् सुखाय तद् एवाशु वस्तु दुẖखाय नाशतः ।
अविनाभाविनिष्ठत्वं प्रसिद्धं सुखदुẖखयोः ॥
तनुवासनम् अर्थो यस् सेव्यते वा विवासनम् ।
नासौ सुखाय नैवातो नाशात् कालेन दुẖखदः ॥
निर्वासनतया स्पन्दं कुर्वतो ऽसुप्तबालवत् ।
कर्मणो योगिनस् तेन ते न कर्मफलान्विताः ॥
क्षीणवासनया बुद्ध्या कर्म यत् क्रियते ऽनघ ।
तद् भृष्टबीजवद् भूयो नाङ्कुरं प्रविमुञ्चति ॥
देहेन्द्रियादिना कर्म करणौघेन कल्प्यते ।
एकẖ कर्तात्र भोक्ता वा क इवाङ्गोपपद्यते ॥
अन्यḫ पश्यति भुङ्क्ते ऽन्यḫ परो ऽप्य् अनुभवत्य् अणुः ।
अन्यस्य सुखदुẖखादि कस्यैकस्यात्र कर्तृता ॥
आत्मा कर्ताप्य् अकर्तायम् औदासीन्येन संस्थितः ।
प्रतिबिम्बेष्व् इवादर्शो मनष्षष्ठेन्द्रियातिगः ॥
देहादयो जडास् सर्वे तस्माद् अङ्ग न किञ्चन ।
न कश्चिद् एव कुरुते सुकृतेष्व् अपि कर्मसु ॥
कर्म कुर्वत्य् अपि प्राज्ञे तयासंसक्तया धिया ।
न कश्चित् कुरुते किञ्चिद् देहस् स्फुरति केवलम् ॥
तूष्णीम् अपि स्थितो मूढश् चिन्तासंसक्तया धिया ।
करोति कर्म शैलाभं यद् युगैर् अपि न क्षयि ॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा तस्यानन्तेह कर्तृता ॥
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽनघ ।
कर्मेन्द्रियैẖ कर्मयोगम् अकर्तैव स मोक्षभाक् ॥
निर्वासनं कृतं कर्म न कर्तारं स्पृशत्य् अजम् ।
पद्मपत्त्रं जलम् इव नभस्तलम् इवाम्बुदः ॥
फलानि नानुधावन्ति यदा कर्माण्य् अवासनम् ।
तदा जीवं न स्पृशति कर्म जन्मैककारणम् ॥
कर्मणो जन्मबीजस्य रसस् सर्वत्र वासना ।
सा यद्भवा च तस्यैव गर्भे पश्यति देहकम् ॥
जायते तत एवाशु क्रमाद् भ्रमति संसृतौ ।
तस्माद् वासनयैवान्तर् वियोगस् ते ऽस्तु भूतये ॥
भावनास् सर्वभावेभ्यस् समुत्सृज्य समुच्छ्रितः ।
शशाङ्कशीतलḫ पूर्णो भासि भासेव भास्करः ॥
क्रियमाणा कृता कर्मतूलश्रीर् देहशल्मलेः ।
ज्ञानानिलसमुद्धूता विलयं क्वापि गच्छति ॥
आत्मज्ञतां प्रयातस्य तीर्णस्य भवसागरात् ।
इच्छतो ऽपि समायाति पुनर् नाज्ञत्वम् आत्मनः ॥
यथा दूरगतोत्पत्तिस्थानं रयवती सरित् ।
न यात्य् एवं मतिर् बुद्धा पुनर् मोहं न गच्छति ॥
सर्वैव हि कला जन्तोर् अनभ्यासेन नश्यति ।
फलदापि मनोज्ञापि लतेवासेकवर्जिता ॥
एषा ज्ञानकला त्व् अन्तस् सकृज्जाता दिने दिने ।
वृद्धिम् एति बलाद् एव सताम् अप्य् उप्तशालिवत् ॥
यथा दध्युद्धृतं नैति पुनर् दध्नैकतां घृतम् ।
तथा ज्ञानोद्धृता ज्ञप्तिर् नायात्य् अज्ञानतां पुनः ॥
यथा परभटव्यूहं विभिद्योदेति सद्भटः ।
तथाज्ञानं विदार्यान्ध्यम् उदेति ज्ञानभास्करः ॥
चिद्घनं निर्मलं ब्रह्म शान्तं सर्वम् इदं ततम् ।
अद्वैतं द्वैतवद् भाति नित्यम् एकम् अनामयम् ॥
एकस् स्फुरत्य् अखिलवस्तुषु चित्स्वरूप आत्मा परस् स्वजलधिष्व् इव तोयम् अच्छम् ।
संशान्तसङ्कलनभूरिकलापम् एकं सत्तांशमात्रम् अखिलं जगद् अङ्ग विद्धि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0