भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.126

6.126.1

संशान्तभवसम्बन्धम् अरागद्वेशवासनम् ।
ज्ञस्येन्द्रियाणि स्पन्दन्ते यन्त्रेहापटचित्रवत् ॥

6.126.2

वेष्टितोन्मुक्ततृणवत् तरङ्गवद् अवासनम् ।
स्पन्दन्ते व्यवहारेषु खरूपा वेद्यवेदिनः ॥

6.126.3

अरागद्वेषमननम् ऊर्मिणोर्मिर् अनूर्म्यते ।
यथा स्वं ज्ञेन युद्धादि कर्म निर्मीयते तथा ॥

6.126.4

ऊर्मिणोर्माव् अनूर्मित्वं नीते तत्सारम् अक्षतम् ।
यथाम्ब्व् एवाम्बुसम्पन्नं युक्तं नष्टं न किञ्चन ॥

6.126.5

जीवेनाजीवतां जीवे नीते तत्सारम् अक्षतम् ।
तथात्मात्मैव सम्पन्नो युक्तं नष्टं न किञ्चन ॥

6.126.6

चिच् चिद् अस्तु पदांशे ऽपि सचेत्या तदधश् च्युता ।
कदर्थप्राप्यनिर्वाणा भवत्य् अभवनिं गता ॥

6.126.7

चिन्मात्रात्मात्मनिष्ठत्वात् सुखदुẖखे चिनोति नो ।
असती एव सत्यात्मा मुक्तो व्यवहरन्न् अपि ॥

6.126.8

जीवन्मुक्तत्वम् एतावद् यत् स्थिराभ्यासयोगतः ।
न सुखाय न दुẖखाय भवेच् चित् प्रतिबिम्बिता ॥

6.126.9

स्वस्थḫ प्रत्याहृतिवशाच् चेत्यं चेन् न चिनोषि तत् ।
मुक्त एवास्य् असन्देहं महासमतयानया ॥

6.126.10

यद् भोगसुखदुẖखांशैर् अनात्मीकृतपूर्णधीः ।
आत्मारामो मुनिस् तिष्ठेत् तन् मुक्तत्वम् उदाहृतम् ॥

6.126.11

व्यवहार्य् उपशान्तो वा गृहस्थो वाथ भिक्षुकः ।
सशरीरो ऽशरीरो वा भवत्व् एवम्मतिḫ पुमान् ॥

6.126.12

सुखदुẖखैर् अनालीढा संविद् भवति चेत् समा ।
असंविद् इव तद् देहो यत् करोति करोतु तत् ॥

6.126.13

मृगतृष्णोपमे देहे ऽविद्यात्मनि तते क्षते ।
भावाभावभ्रमे ऽसत्ये सुखदुẖखक्रमẖ कुतः ॥

6.126.14

चिन्मात्रम् अपनामेदम् अचिदाभम् अनन्तकम् ।
अतश् चासम्भवद्वेद्यम् आत्मानम् अमलं श्रयेत् ॥

6.126.15

जाग्रतो जीवतश् चेत्यचयनाद् अस्खलच्चितेः ।
स्थितिर् योपलकोशाभा सा तुर्यं सा विमुक्तता ॥

6.126.16

चिन्मूर्तिस् स्वान्तर् एवेदं स्वसत्तात्मोपकल्पितम् ।
जगन् मिथ्यानुभवति स्वप्ने छिन्नशिरा इव ॥

6.126.17

यन् मिथ्या तत् क्व सत्यात्म क्व सत्या मरुवारिता ।
अतो ऽसंवेदनाद् एव भ्रमस्यास्य परिक्षयः ॥

6.126.18

अहम् इत्य् एव चयनाज् जगत्संसृतिविभ्रमः ।
अस्यैवाचयनान् नाहं न जगन् न च विभ्रमः ॥

6.126.19

द्रवं स्वम् इव शुद्धाम्बु स्वान्तर्लेखा इवोपलः ।
स्वम् इक्षुर् इव माधुर्यं चित् स्वं चेतयते जगत् ॥

6.126.20

यथौष्ण्यम् अग्निस् तुहिनं च शैत्यं स्पन्दं नभस्वान् द्रवम् अब्धिर् एवम् ।
अनन्यद् अप्य् अन्यद् इवात्मतत्त्वं विद् वेत्त्य् अदस् तत् तु न वेत्त्य् अतज्ज्ञः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc