भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.125

6.125.1

यथावर्ता जलभरे प्रतिबिम्बानि वा मणौ ।
यथेन्द्रियेषु विषया यथालोकश् च तेजसि ॥

6.125.2

यथा तृणानि वा वायौ दुर्लक्ष्यस्पन्दरूपिणि ।
त्रिजगन्ति स्फुरन्त्य् एवं दुर्लक्ष्ये ऽनुभवात्मनि ॥

6.125.3

यथा द्रवादयो ऽम्ब्वादौ तापे वा त्रसरेणवः ।
सन्निवेशाḫ पदार्थाङ्गे सर्गौघाश् चिद्घने तथा ॥

6.125.4

तदात्मका अतद्रूपास् तत्स्थास् तत्सत्तया स्थिताः ।
अनन्ते नाशिनस् सर्गा बुद्बुदा जलधाव् इव ॥

6.125.5

कृष्णे कृष्णस् सिते शुक्लो रक्ते रक्तो यथा मणिः ।
वर्णे निर्वासनाच्छत्वान् न त्व् असाव् एति रञ्जनाम् ॥

6.125.6

मूढे मूढो हते भग्नो हृष्टे हृष्टस् तथेश्वरः ।
चित्ते निर्वासनाच्छत्वान् न त्व् असाव् एति रञ्जनाम् ॥

6.125.7

वासनातो जगज्जन्म सा च सङ्केतमात्रकम् ।
इदं ममेति मिथ्यैव भावनं तत् परित्यज ॥

6.125.8

रजोधूमान्ध्यतेजोऽभ्रैर् यथाकाशो न लिप्यते ।
तथा प्रकृतिसङ्कल्पैश् चित्सारं खम् अलेपकम् ॥

6.125.9

यथा भूमिगता भासो रविर् एवाङ्ग नेतरत् ।
तथा चिद् एव सङ्कल्पास् तन्मयत्वेन नेतरत् ॥

6.125.10

परम् अव्यपदेश्यात्मा निस्स्पन्दḫ पवनो यथा ।
स्ववेदनात्मनस् स्पन्दाद् आत्मनैवोपलभ्यते ॥

6.125.11

असद् वेद्यं वेद्यम् इव चिद्रूपत्वाच् चिनोति यत् ।
चिन्नामयोग्यता सास्य सेयं संसृतिर् उत्थिता ॥

6.125.12

यथा स्फुरत् प्रसन्नाम्बु नान्यत् सलिलमात्रतः ।
तथा ब्रह्म चिदच्छात्म नेतरद् ब्रह्ममात्रतः ॥

6.125.13

परम् अव्यपदेश्यात्म यास्य तु व्यपदेश्यता ।
सैषा चिन् नाम सैवेह द्रष्टृदृश्यपदं गता ॥

6.125.14

नोदय्य् अप्य् उदितं स्पन्दाद् आवर्तादि यथाम्भसः ।
तथानुदय्य् अप्य् उदितम् इव वित्त्वात् परे जगत् ॥

6.125.15

ब्रह्म नव्यपदेश्यात्म निस्स्पन्दḫ पवनो यथा ।
चिच्छब्दार्थात्मता यात्र तद् अहन्तादिमज् जगत् ॥

6.125.16

स्वच्छे ऽम्भसि द्रवस्पन्दाद् यथावर्तादिता मता ।
अनिर्देश्ये परे वित्त्वात् तथा चित्ता जगन्मयी ॥

6.125.17

सर्गस्याद्यन्तयोर् उक्तो यẖ क्रमो वेदनात्मकः ।
स उन्मेषनिमेषाभ्यां निमेषं प्रति चिद्दृशः ॥

6.125.18

प्रसरन्ति यथा स्पन्दात् सलिले चक्रकादयः ।
प्रसरन्ति परे वित्त्वात् तथाहन्तादितादयः ॥

6.125.19

अवेदनं परं विद्धि वेदनं सर्ग उच्यते ।
असत् सद्वेदनाद् दृश्यं सद् अप्य् असदवेदनात् ॥

6.125.20

चितेर् दृश इवोन्मेषाद् असत्सर्गो ऽवभासते ।
चितीक्षणनिमेषात् तु सन्न् अप्य् एव न भासते ॥

6.125.21

मायाचूर्णपरिक्षेपाद् इन्द्रजालजगद् यथा ।
ख एवोदेति चिच्चूर्णचमत्काराद् इदं तथा ॥

6.125.22

यथा स्पन्दान् निमेषे ऽपि जलम् आवर्तलक्षवत् ।
तथा वित्त्वात् क्षणाद् ईशे सर्गप्रलयविभ्रमाः ॥

6.125.23

चिद्रूपस्य चिरक्षीणवासनस्यापि जीवतः ।
अवेदनमयी सत्ता यस्यासौ मुक्त उच्यते ॥

6.125.24

अवासनम् असङ्कल्पं प्रवाहापतितक्रियाः ।
तिष्ठन्ति सम्प्रबुद्धा ये ते ह्य् अवेदनसन्मयाः ॥

6.125.25

क्रियावन्तो ऽप्य् असङ्कल्पवासनास् स्तिमिताशयाः ।
नित्यं काष्ठसमाधानास् ते शिलोदरसन्निभाः ॥

6.125.26

न स्वप्नस्वप्नपुरयोर् इव भेदो मनाग् अपि ।
सर्गवेदनयोस् तस्माद् ब्रह्मविद् ब्रह्मवेदनम् ॥

6.125.27

शब्दार्थभावनेहानां वित्त्वात् सत्यावबोधतः ।
यद् असत्तावबोधो ऽन्तस् तद् अवेदनम् उच्यते ॥

6.125.28

अदृषद् दृषदाभासं ज्ञम् अप्य् अज्ञम् इव स्थितम् ।
अशून्यं शून्यसङ्काशं हृदयं वेदनं सतः ॥

6.125.29

शास्त्रसज्जनसम्पर्कैḫ प्रज्ञाम् आदौ विवर्धयेत् ।
प्रथमा भूमिकैषोक्ता योगस्य नवयोगिनः ॥

6.125.30

विचारणा द्वितीया स्यात् तृतीयासङ्गभावना ।
चतुर्थी सत्त्वतापत्तौ वासनाविलयात्मिका ॥

6.125.31

शुद्धसंविन्मयानन्दरूपा भवति पञ्चमी ।
अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तो ऽत्र तिष्ठति ॥

6.125.32

असंवेदनरूपा च षष्ठी भवति भूमिका ।
आनन्दैकघनाकारा सुषुप्तसदृशस्थितिः ॥

6.125.33

तुर्यावस्थोपशान्ताथ मुक्तिर् एव हि केवलम् ।
समता स्वच्छता सोम्या सप्तमी भूमिका भवेत् ॥

6.125.34

तुर्यातीताथ यावस्था परिनिर्वाणरूपिणी ।
सप्तमी सा परिप्रौढा विषयस् सा न जीवताम् ॥

6.125.35

पूर्वावस्थात्रयं तत्र जाग्रद् इत्य् एव संस्थितम् ।
चतुर्थी स्वप्न इत्य् उक्ता स्वप्नाभं यत्र वै जगत् ॥

6.125.36

आनन्दैकघनीभावात् सुषुप्ताख्या तु पञ्चमी ।
असंवेदनरूपा च षष्ठी तुर्याभिधा स्मृता ॥

6.125.37

तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा ।
परम् अव्यपदेश्यासाव् अगम्या महताम् अपि ॥

6.125.38

पदार्थस् सन्निवेशैस् स्वैर् यथानन्यैस् समन्वितः ।
तथा चित् सर्गशब्दार्थैर् न तु सर्गार्थरूपिभिः ॥

6.125.39

यथोर्मिकादिẖ कनके तथा सर्गḫ परे पदे ।
किं त्व् असौ विद्यमानो ऽपि सञ्ज्ञाशब्दार्थवर्जितः ॥

6.125.40

हाटके कटकादिश् च सर्गश् च परमे पदे ।
विद्यमानो ऽपि नास्त्य् एव प्रेक्षायां कल्पनार्थवत् ॥

6.125.41

अस्पन्दयावेदनया स्पन्दवेदनसत्तया ।
या संविद् अङ्कुरश्रीस् स्यात् सात्मसत्तेति कथ्यते ॥

6.125.42

सा त्वं सा चिन् मनस् सा च न त्वं नो चिन् मनश् च नो ।
सत्तासत्ते न सा शान्ता ततश् चान्यन् न विद्यते ॥

6.125.43

आकाशाद् इव शून्यत्वं तरङ्गत्वम् इवाम्भसः ।
नाकारादि ततो भिन्नं न दृक्चित्तशिलादि च ॥

6.125.44

द्रष्टृदर्शनदृश्यानां तस्यां दृशि वयं स्थिताः ।
चिच्चित्तजडतादीनां नामापि न च शिक्षिताः ॥

6.125.45

न सर्वापह्नवं वेद्मि न सर्वं नाप्य् अपह्नवम् ।
त्वत्त्वमत्त्वाद्यसम्भावात् परं शान्तं जगन्नभः ॥

6.125.46

शान्ताशेषविशेषवस्तुविषया सत्यात्मतासत्यतायुक्ताहम्प्रकृतिẖ क्रियेति गदिता नास्तीति निश्चित्य तत् ।
नास्तीत्य् एतद् अपीह वान्यद् अहम् इत्य् अर्थैर् युतं नास्त्य् अलं तस्माद् अस्तजडाजडाङ्कुरसमुत्सेधासनेनास्यताम् ॥

6.125.47

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc