भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.124

6.124.1

सर्गात्मभिर् विभुस् स्पन्दक्रीडितैर् बालवन् निजाम् ।
सत्तां मोहयतीवान्तस् सावधानो भवात्र भोः ॥

6.124.2

सङ्कल्प्यात्मा स्वयं द्वैतं चिरं शोचति योनिषु ।
स्वयम् अद्वैतसङ्कल्पात् कालेनायाति निर्वृतिम् ॥

6.124.3

स्वयम् अस्य तथा शक्तिर् उदेत्य् आबध्यते यथा ।
स्वयम् अस्य तथा शक्तिर् उदेत्य् आमुच्यते यथा ॥

6.124.4

न लभ्यते प्रवचनैर् न धिया न तपश्श्रुतैः ।
यदोदयेच्छाम् आयाति तद् आत्मात्मानम् ईक्षते ॥

6.124.5

अहो नु चित्रा मायेयं बत विष्वग् विमोहिनी ।
सर्वाङ्गप्रोतम् अप्य् आत्मा यद् आत्मानं न पश्यति ॥

6.124.6

दृष्ट्वा सर्वगम् आत्मानम् अनन्तम् अवनीश्वर ।
निवर्तते शरीरास्था ततो दुẖखैर् न लिप्यते ॥

6.124.7

चन्द्रार्कवह्नितप्तायोरत्नादीनां यथार्चिषः ।
यथा पत्त्रादि वृक्षाणां निर्झराणां यथा कणाः ॥

6.124.8

तथेदं ब्रह्मणि स्फारे जगद् बुद्ध्यादि कल्पितम् ।
दुẖखप्रदम् अतज्ज्ञानां तद् एवातद् इव स्थितम् ॥

6.124.9

यथा वाहवशाद् वारि दामादिरचनां वहेत् ।
प्रकृतिर् याति नानात्वं तथा स्पन्दवशाद् इयम् ॥

6.124.10

यथा सरित्पयẖकोशे वाहस् स्पन्दी न लक्ष्यते ।
तथाजस्रं विरचयन् सर्गम् आत्मा न लक्ष्यते ॥

6.124.11

यथा स्वच्छस्य सोम्यस्य महतो ऽवहतो ऽनिशम् ।
वारिणो ऽप्य् अंशुभिन्नस्य कोशस्पन्दो न लक्ष्यते ॥

6.124.12

तथा सर्वगतस्यापि दाम्नि व्योम्न्य् अथ वाश्मनि ।
अनावृतस्यानन्तस्य सतस् सत्ता न लक्ष्यते ॥

6.124.13

सोम्यस्यावहतो वारेẖ कोशस्पन्दो यथात्मगः ।
न सन् नासन् न च पृथक् सत्ता चिद्वपुषस् तथा ॥

6.124.14

स्वसङ्कल्पात्मिकां यत्र सर्वशक्तितया स्वयम् ।
चित्तताम् एति तत्रैतत् तत् प्रस्फुरद् इव स्थितम् ॥

6.124.15

स्वसङ्कल्पात्मिकां यत्र सर्वशक्तितया स्वयम् ।
जहाति चित्ततां तत्र सत् संशान्तम् इव स्थितम् ॥

6.124.16

एवं चेत् तन् महाभाग दृषदादिर् महाकृतिः ।
पार्थिवो ऽयं बृहद्भागẖ किम् उत्थो ऽथ किमात्मकः ॥

6.124.17

शक्तयस् सकला एव चिन्मात्रे ब्रह्मणि स्थिताः ।
वटबीजे वटलतापत्त्रपुष्पफलादिवत् ॥

6.124.18

जडाजडाभिधे शक्ती सर्वशक्तेस् स्त आत्मनः ।
शक्तीनाम् उत्तमे हेम्नि काठिन्यद्रवते यथा ॥

6.124.19

रूपालोकमनस्कारविषयत्वम् उपागता ।
जाड्यनाम्नी तयोर् एका यासौ भूम्यादिरूपिणी ॥

6.124.20

नैषा प्रजायते नापि कदाचित् प्रविलीयते ।
स्वाङ्गभूता सतो नित्यम् आकाशकोशवत् स्थिता ॥

6.124.21

ब्रह्मणो ऽव्यतिरिक्तेयम् इति यस् सर्परज्जुवत् ।
असदभ्युदितो मोहस् स बोधेन विलीयते ॥

6.124.22

नैषा भावविकाराख्याम् एति शुद्धचिदात्मनि ।
एषा किल कणोर्म्यम्बु पयसीव चिति स्थिता ॥

6.124.23

यत् सतो ऽसत्त्वम् असतस् सत्त्वं वा विकृतिर् हि सा ।
अत्यन्तान्यस्वरूपत्वान् नास्ति तत् परमात्मनि ॥

6.124.24

असत्तया सतो राजन्न् असतश् चैव सत्तया ।
विनष्टाकृतिर् अस्येति विकाराद्य् अभिधीयते ॥

6.124.25

यत् त्व् अङ्कुरे फलादित्वं क्षीरादौ वा घृतादिता ।
सत्तावभासमात्रं तत् स्फुरत्य् अम्ब्व् इव वीचिभिः ॥

6.124.26

यद् यथा दृश्यते यत्र तत् तथा तत्र विद्यते ।
देशकालविभागात्म तथा संवेदनात्मकं ॥

6.124.27

देशकालान्तरगतो ऽप्य् एक एव यथा गिरिः ।
बीजं फलान्तम् अप्य् एवम् एकम् अत्रान्यतास्ति नो ॥

6.124.28

वटता वटधानायां यादृक्कालोदया यथा ।
तथा जडाजडेयं श्रीस् संस्थिता चिन्मयात्मनि ॥

6.124.29

आकारराशिरूपेण भूरिभावविकारिणा ।
आभास एव स्फुरति स्वप्नेनेव मनो नृप ॥

6.124.30

शैलाद्याकारता स्थूला यथास्य परमात्मनः ।
स्फुरत्य् असत्या सत्या वा तथा वद पुनर् मम ॥

6.124.31

इति सर्वं समं शान्तं चिद्व्योम ततम् अव्ययम् ।
अपर्यन्तम् अनाभासम् आसीद् अस्ति भविष्यति ॥

6.124.32

यन् नोर्ध्वं नाप्य् अधो नाशा न तमो न प्रकाशनम् ।
नेतरत् किञ्चिद् अपि च सर्वम् एव सदैव च ॥

6.124.33

चिन्मात्रैकात्मना तेन परमेणेश्वरेण नः ।
आद्यन्तमध्यमुक्तेन सङ्कल्पश् चेतितस् स्वयम् ॥

6.124.34

स्थितस् सङ्कल्परूपात्मा मनोमूर्तिर् अजस् ततः ।
तेन सङ्कल्पितं व्योम मनसेदं बृहद्वपुः ॥

6.124.35

मनोव्योम्नोर् घनतया सम्पन्नḫ पवनस् स्फुरन् ।
मनोव्योमानिलाश्लेषात् प्रकाशं बुद्धवांस् ततः ॥

6.124.36

तेजोऽंशभावसङ्कल्परूपं पश्चात् पयस् स्थितम् ।
स चतुष्टयपिण्डो ऽथ मनसो ऽण्डतयेक्षितः ॥

6.124.37

अण्डं तत् पाद्मजं भूत्वा सम्पन्ने पश्य रोदसी ।
तत्र त्व् अवयवाभासं मेर्वादीदं महत् स्थितम् ॥

6.124.38

जगत्तयेति ब्रह्मैव परिपूर्णं विलोक्यते ।
स्पन्दैर् भावविकाराद्यैस् सविकारम् इव स्थितम् ॥

6.124.39

एकैवानेकरूपेव देशकालान्तरे यथा ।
सरित् तथैव वल्लीत्वे स्थिता स्वस्थैव बीजता ॥

6.124.40

पालीवतानि तिष्ठन्ति यथा कुम्भस्य कोटरे ।
तथापारस्य चिद्व्योम्नो जगन्त्य् अन्तस् स्थितानि हि ॥

6.124.41

चिद्ब्रह्मकोटरगता इमास् सर्गपरम्पराः ।
स्फुरन्ति परिणामिन्यो जलकोशे यथोर्मयः ॥

6.124.42

यथा पतन्त्या तमसि दृष्ट्या किम् अपि दृश्यते ।
तथा जगद् अहं चेति चितासत् प्रतिभासते ॥

6.124.43

यथा दृष्ट्या तमस्य् अन्धे चक्रकाद्य् अपि दृश्यते ।
तथादिसर्गे ऽयम् अहम् इत्य् असत्यं चितोह्यते ॥

6.124.44

चिद्घनस्य महाशक्तेर् यद् एव प्रतिभासनम् ।
तत् प्रकृत्यादिनामेह न सन् नासन्न् अतच् च तत् ॥

6.124.45

बृंहिता भरिताकारा सत्तैका पारमात्मिकी ।
आभासैḫ प्रस्फुरत्य् एवम् अब्धिर् ऊर्म्यादिभिर् यथा ॥

6.124.46

चिदाकाशमयं सर्वं जगद् इत्य् एव भावयन् ।
यस् तिष्ठत्य् उपशान्तेच्छं स ब्रह्मकवचस् सुखी ॥

6.124.47

अहमर्थविमुक्तेन भावेनाभावरूपिणा ।
सर्वं शून्यं निरालम्बं चिच्छान्तम् इति भावयेत् ॥

6.124.48

इदं रम्यम् इदं नेति बीजं ते दुẖखसन्ततेः ।
तस्मिन् साम्याग्निना दग्धे दुẖखस्यावसरẖ कुतः ॥

6.124.49

राजन् भावनमात्रेण रम्यारम्यविभागिता ।
पौरुषातिशयेनान्तस् स्वेनैवाशु विलीयते ॥

6.124.50

अभावनेन भावानां कर्तित्वा कर्मकाननम् ।
परं समेत्य राजेन्द्र विशोकतर आस्स्व भोः ॥

6.124.51

भरितभुवनाभोगो भूत्वा विभागबहिष्कृतो गलितकलनोल्लासोल्लासी विकासविलासवान् ।
नवनवम् अजो वृद्धो ऽत्यन्तं चिराय निरामयस् समसमसितस्वच्छाभोगो भवाभयचिद्वपुः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc