भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.123

6.123.1

सङ्कल्पोन्मुखतां यातास् सत्याश् चिन्मात्रसंविदः ।
आपस् तरङ्गत्वम् इव यान्ति भूमिप जीवताम् ॥

6.123.2

ते जीवास् संसरन्तीह संसारे पूर्वम् उत्थिते ।
स्वकर्मकरणाद् देहेष्व् अब्जेष्व् इव मधुव्रताः ॥

6.123.3

सर्वात्मापि परं ब्रह्म कुर्वद् एव करोति नो ।
जननिष्ठानि दिवसकर्माणीव दिवाकरः ॥

6.123.4

चलत्य् अचेतनम् अयो यथायस्कान्तसन्निधौ ।
तथा स्फुरति सर्गो ऽयं स्वस्थिते परमात्मनि ॥

6.123.5

स्वपरिस्पन्दजो वारि यथावर्तḫ प्रवर्तते ।
तथायं चिन्मये जीवे देहस् सम्पद्यते स्वयम् ॥

6.123.6

यथालातपरिस्पन्दाद् धेमचक्रं प्रदृश्यते ।
एवं स्वचेतनस्पन्दाद् देहो ऽयम् अवलोक्यते ॥

6.123.7

यथा नदनदीभेदाद् बहुत्वं कल्प्यते ऽम्भसः ।
एवम् आकारभेदेन नानात्वं परमात्मनः ॥

6.123.8

सुखदुẖखदशामोहो मनस्य् एवास्ति नात्मनि ।
केयूरकटकादित्वं सङ्कल्पे ऽस्ति न हेमनि ॥

6.123.9

मूढे जीवे मनश् चित्तम् इत्यादिकलनं विदुः ।
यथाभूतार्थतत्त्वज्ञे सत्त्वम् एतद् उदाहृतम् ॥

6.123.10

देहाद् अनन्तरं सत्त्वं व्योमताम् एति केवलम् ।
न जरामरणार्तीनां भूयो भवति कारणम् ॥

6.123.11

यथास्फुरत् स्फुरद् इव प्रतिबिम्बं गिरेर् भवेत् ।
तथाकर्तैव कर्तेव लक्ष्यते चेतनस् तनौ ॥

6.123.12

शारीरेषु विलासेषु सोम्य एवाशयेश्वरः ।
प्रतिबिम्बं विकारेषु मुखस्येवानुवर्तते ॥

6.123.13

यथार्कश् चञ्चलो वारि दृश्यते न तु चञ्चलः ।
तथात्मा चञ्चलो देहे दृश्यते न तु चञ्चलः ॥

6.123.14

यथा घटेषु नष्टेषु घटाकाशं न नश्यति ।
तथा नष्टेषु देहेषु नात्मा नश्यति कस्यचित् ॥

6.123.15

रूपालोकमनस्काररहितो ऽर्थानुरञ्जनम् ।
यथामलो मणिर् धत्ते धत्ते देहं तथेश्वरः ॥

6.123.16

रूपालोकमनस्कारैẖ किं वा मधुरसस् तरुम् ।
यथोल्लासयति प्रोच्चैस् तथा चिद् दृश्यमण्डलम् ॥

6.123.17

त्रैलोक्यवर्तिनि यथा मधुरद्रव्यसञ्चये ।
स्थितं माधुर्यम् अखिले तथात्मा वस्तुजालके ॥

6.123.18

यथार्को गच्छतो याति जन्तोस् तिष्ठति तिष्ठतः ।
मिथ्यैव न तु सत्येन तथात्मा वपुषाम् इह ॥

6.123.19

प्रतिबिम्बविनाशेषु यथा न मकुरादयः ।
नश्यन्ति तद्वद् देहस्य नाशे नात्मा विनश्यति ॥

6.123.20

अङ्गारादिषु दग्धेषु यथा हेम न दह्यते ।
तथा देहेषु नष्टेषु चिन्मात्रं न विनश्यति ॥

6.123.21

अदृश्यो दृश्यते राहुर् गृहीतेन यथेन्दुना ।
तथानुभवमात्रात्मा चेत्येनात्मावलोक्यते ॥

6.123.22

यद्वत् प्रकटताम् एति प्रतिबिम्बार्हता मणौ ।
प्रतिबिम्बेन तद्वद् वै चित्त्वं चेत्येन चेत्यते ॥

6.123.23

सङ्कल्पजालमुक्तायाश् चितो यत् स्वस्थम् आस्थितम् ।
क्षयातिशयनिर्मुक्तं तद् विद्धि परमं पदम् ॥

6.123.24

सत्त्वस्थे बुद्धितत्त्वे ऽन्तस् स्वयम् आत्मोपलभ्यते ।
आदर्शे मलमुक्ते हि प्रतिबिम्बं प्रवर्तते ॥

6.123.25

न शास्त्रैर् नापि गुरुणा दृश्यते परमेश्वरः ।
दृश्यते स्वयम् एवात्मा स्वया सत्त्वस्थया धिया ॥

6.123.26

इमे देहादयस् सर्वे भावाḫ प्रकृतिरूपिणः ।
नाप्य् असन्तो न सन्तो ऽपि भ्रममात्राद् ऋते ऽनघ ॥

6.123.27

पथिकाḫ पथि दृश्यन्ते रागद्वेषविमुक्तया ।
यथा धिया तथैवैते द्रष्टव्यास् स्वेन्द्रियादयः ॥

6.123.28

एतेषु नादरẖ कार्यस् सता नैवावधीरणम् ।
पदार्थमात्रतानिष्ठास् तिष्ठन्त्व् एते यथास्थितम् ॥

6.123.29

यद् अस्ति तन्मयेनैव भवितव्यं विजानता ।
आत्मैव जगताम् अस्ति न देहाद्यर्थजालकम् ॥

6.123.30

पदार्थजातं देहादि विदा सन्त्यज्य दूरतः ।
आशीतलान्तẖकरणो नित्यम् आत्ममयो भव ॥

6.123.31

आत्मैव ह्य् आत्मनो बन्धुर् आत्मन्य् आत्मैव विद्यते ।
आत्मात्मनैवाह्रियते सर्वात्मात्मानुभूतितः ॥

6.123.32

यथा जलाद् ऋते नास्ति समुद्रत्वं महाम्बुधेः ।
आत्मतत्त्वाद् ऋते नास्ति जगत्त्वं जगतस् तथा ॥

6.123.33

यथार्कẖ कुम्भलक्षेषु तथात्मा देहपङ्क्तिषु ।
नास्तम् एति न चोदेति नष्टानष्टासु तास्व् असौ ॥

6.123.34

अनात्मधीẖ क्वचिद् अपि शुक्तौ रजतता यथा ।
योदेत्य् अनघ मिथ्या सा सर्वगत्वाद् इहात्मनः ॥

6.123.35

देहो ऽहम् इति या बुद्धिस् सा संसारनिबन्धनी ।
देहदुẖखानुपातित्वाद् असारत्वाच् च वस्तुनः ॥

6.123.36

नकिञ्चिन्मात्ररूपो ऽस्मि यथैते गगनादयः ।
इति या शाश्वती बुद्धिस् सा न संसारबन्धनी ॥

6.123.37

यथा विमलतोयान्तर् बहिर् अन्तश् च भानुजम् ।
तेजस् तिष्ठति सर्वत्र तथात्मा सर्ववस्तुषु ॥

6.123.38

भित्तौ नभसि पाताले पुरो दूरे च संस्थितः ।
आत्मा त्रिष्व् अपि कालेषु नासौ नश्यति कर्हिचित् ॥

6.123.39

छेदादीनाम् अगम्यं खं यथैवात्मा तथैव हि ।
एतावन्मात्रको भेदो यच् चिन्मात्रात्मतात्मनि ॥

6.123.40

सन्निवेशांशवैचित्र्यं यथा हेम्नो ऽङ्गदादिता ।
आत्मनस् तदतद्रूपं तथैव जगदादिता ॥

6.123.41

सरिताम् आसमुद्रान्तं यथैवाम्बु विवर्तते ।
उत्पन्नध्वंसिनाजस्रं तरङ्गौघेन वारिणि ॥

6.123.42

आत्मन्य् आत्मसमुल्लासस् तथैवायं विलोक्यते ।
नानापदार्थजालेन विनाशाब्धिं प्रधावता ॥

6.123.43

विनाशवाडवाक्रान्तं भीमं कालमहार्णवम् ।
जगज्जालतरङ्गिण्यो यान्ति सर्गतरङ्गकाः ॥

6.123.44

तस्याप्य् अद्याप्य् अपूर्णस्य यḫ पाता कालवारिधेः ।
तम् आत्मानं महागस्त्यं राजन् भावय विन्ध्यवत् ॥

6.123.45

शास्त्रसंव्यवहारार्थं संसारोच्छेदनोद्यतैः ।
आत्मादिकाẖ कृतास् सञ्ज्ञा वागतीतस्य वस्तुनः ॥

6.123.46

न रज्ज्वाम् अस्ति सर्पत्वं तन् मिथ्या कḫ प्रपश्यति ।
नात्मनो ऽस्ति क्वचिद् बन्धो मा मोहाद् भावयाङ्ग तम् ॥

6.123.47

मोहस् तद्भावनामात्रम् आहुर् मोहहरा नराः ।
तम् एव भावनात्यागात् त्यक्त्वा विज्वरतां व्रज ॥

6.123.48

एष एवान्धकारो ऽसाव् एतद् एव परं मलम् ।
प्राग् अबद्धस्य बन्धेन सङ्कल्पो यẖ किलात्मनः ॥

6.123.49

अनात्मन्य् आत्मताम् अस्मिन् देहादौ दृश्यजालके ।
त्यक्त्वा सत्त्वम् उपारूढो गूढस् तिष्ठ यथासुखम् ॥

6.123.50

कुचकोटरसंसुप्तं विस्मृत्य जननी सुतम् ।
यथा रोदिति पुत्रार्थं तथात्मार्थम् अयं जनः ॥

6.123.51

अजरामरम् आत्मानम् अबुद्ध्वा परिरोदिति ।
हा हतो ऽहम् अनाथो ऽहं नष्टो ऽस्मीति जनो मुधा ॥

6.123.52

देशकालक्रियाभेदे देहस्थे मरणाभिधे ।
लोको ऽनुशोचत्य् आत्मानम् अहो नु खलु मूढता ॥

6.123.53

देशकालक्रियाभेदं यदि देहो ऽनुधावति ।
तद् अनादेर् अनाशस्य किम् अस्यागतम् आत्मनः ॥

6.123.54

अन्यद् भुक्तं वान्तम् अन्यद् इदं तद् यज् जनव्रजैः ।
देहस्य नाशिनो नाशे आत्मनाशो ऽनुशोच्यते ॥

6.123.55

देहात्मनोर् महीपाल सविकाराविकारयोः ।
सुवर्णभस्मोपमयोस् सम्बन्धẖ क इवैतयोः ॥

6.123.56

नानाकारविकाराख्यैस् स्वविलासैर् अनन्यगैः ।
लीलयैव स्वम् आत्मानम् आत्मायं गोपयन् स्थितः ॥

6.123.57

सर्गनिर्माणसंहारैर् मिथẖ कारणतां गतैः ।
अकारणस्वभावेन वित् स्फुरत्य् आत्मनात्मनि ॥

6.123.58

क्रीडत्य् आत्मा शिशुर् इव सङ्कल्पैर् लीलयोम्भितैः ।
तृणैर् मणिम् इवात्मानं स्वच्छम् आच्छाद्य चञ्चलैः ॥

6.123.59

स्पन्दप्रभां चिदादित्यḫ प्रसार्यालोककारिणीम् ।
जगद्दिनानि रचयन् न कदाचन खिद्यते ॥

6.123.60

स्पन्दमात्रात्मचिद्धातोर् देह एव जगत्क्रमः ।
सन्निवेशो ऽप्य् अभिन्नात्मा पदार्थस्येव संस्थितः ॥

6.123.61

स्पन्दमात्रात् स्वभावेन चित् करोति जगत्क्रियाम् ।
संहरत्य् अपरिस्पन्दाद् वार् वीचिरचनाम् इव ॥

6.123.62

पदार्थान् अविभागेन पश्यन् बुद्ध्यादिवर्जितः ।
चिन्मात्रबालो रमते सर्गक्रीडनकैस् स्वयम् ॥

6.123.63

बालẖ क्रीडनके जातरतिश् शोचति तत्क्षये ।
स्वरूपे विस्मृते यद्वत् तद्वद् आत्मेह संसृतौ ॥

6.123.64

निस्स्पन्दास्पन्दसंवित्तेस् स्वयं सा स्मरणेन चित् ।
वित्त्वम् अस्या विदुस् स्पन्दं यदि वेद्योन्मुखं च तत् ॥

6.123.65

अस्पन्दा स्पन्दविद्भ्रान्त्या चिद् विस्मृत्यैव शोचति ।
झगित्य् अस्पन्दनामानं मोक्षम् एत्योपशाम्यति ॥

6.123.66

निजम् अस्पन्दनं तुर्यं जाग्रत्स्वप्नसुषुप्तकैः ।
आच्छाद्य शोचति मुधा तद् अकृत्वा न शोचति ॥

6.123.67

जगज्जालाय चित्स्पन्दा मनोबुद्धीन्द्रियादयः ।
समुद्यन्ति जलस्पन्दा इवोर्म्योघकणादयः ॥

6.123.68

सङ्कल्पनं हि चित्स्पन्दो ऽस्पन्दो ऽसङ्कल्पनं स्मृतम् ।
ब्रह्मासङ्कल्पनं विद्धि नकिञ्चिद् इव यच् च तत् ॥

6.123.69

यथा वारि परिस्पन्दान् नानाकारं विलोक्यते ।
तदद्वितीयम् एवैवं चिद्ब्रह्म परिबृंहितम् ॥

6.123.70

चितो ऽस्पन्दस् त्व् असङ्कल्पस् तत् तुर्यं ब्रह्म तद् भवेत् ।
तं मोक्षम् आहुस् तस्मिंस् त्वं नृप बद्धपदो भव ॥

6.123.71

सङ्कल्पेन विहीनश् चेत् स्पन्द एव चितेर् नृप ।
सा तद् अस्पन्दना चित् स्यात् सङ्कल्पस् स्पन्द उच्यते ॥

6.123.72

संस्थाप्य सङ्कल्पविकल्पमुक्तं चित्तत्त्वम् आत्मन्य् उपशान्तशङ्कः ।
स्पन्दे ऽप्य् अपस्पन्दचिदीश्वरात्मा स्वस्थस् सुखी राज्यम् इदं प्रशाधि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc