मोक्षोपाय · अध्याय 6.122
भवताम् आदिपुरुष इक्ष्वाकुर् नाम भूपतिः ।
इक्ष्वाकुवंशप्रभवो यथा मुक्तस् तथा शृणु ॥
इक्ष्वाकुर् इति विख्यातो भूपो भास्करवंशजः ।
आसीत् पतिर् महीपानां पितॄणाम् इव धर्मराट् ॥
हिमशीतस्वभावो ऽपि पदार्थान् अन्तर् अस्पृशन् ।
मध्याह्ने सूर्यकान्ताद्रिर् इव ज्वलति यो ऽरिषु ॥
यमबन्धुत्वम् अरिषु येन पापाशयेषु च ।
दीनारिस्त्रीदृशा श्यामवपुषा प्रकटीकृतम् ॥
प्रतापेनार्कवंशत्वं येनारिषु व्यतन्यत ।
सोम्यत्वं तु सुहृद्विप्रवधूगुर्वाद्यबन्धुषु ॥
यस्याननाब्जम् आश्रित्य लक्ष्मीर् भ्रूभ्रमरी सखी ।
अमन्यत हरेर् वक्षẖ क्षपाकुसुमपेलवम् ॥
यस्य शीतलशुक्लेन यशसा वलितं जगत् ।
करोति चक्रवाकानां पूर्णेन्दूदयविभ्रमम् ॥
सो ऽखण्डशक्तिप्रसरं स्वाराज्यं परिपालयन् ।
कदाचिद् एकान्तगतो मनसा समचिन्तयत् ॥
जरामरणसङ्क्षोभसुखदुẖखभ्रमस्थितेः ।
अस्य दृश्यप्रपञ्चस्य को हेतुस् स्याद् इति स्वयम् ॥
जगतो न विवेदासौ कारणं चिन्तयन्न् अपि ।
बालो ऽभ्रस्तनितस्येव तेनासौ पर्यतप्यत ॥
अथैकदापृच्छद् असौ ब्रह्मलोकागतं मनुम् ।
पूजितं स्वसभासंस्थं भगवन्तं प्रजापतिम् ॥
संयोजयति धार्ष्ट्येन भगवन् भूरितेजसम् ।
भवत्प्रसाद एवायं भवन्तं प्रष्टुम् ओजसा ॥
स्फुरता हृदये नित्यं धूमश्यामेन तापिना ।
दह्ये ऽहं संशयेनान्तर् वाडवेनेव वारिधिः ॥
कुतस् सर्गो ऽयम् आयातẖ किंस्वरूपश् च कथ्यते ।
कथं केष्व् अवतिष्ठन्ते जरार्तिमरणापदः ॥
अहं कथं वा विषमाद् अस्मात् संसृतिविभ्रमात् ।
विमुच्येय घनास्तीर्णाज् जालाद् इव विहङ्गमः ॥
त्वम् एवास्य प्रपञ्चस्य जानासि सकला गतीः ।
गम्भीरस्यातिलोलस्य वरुणो ऽम्बुनिधेर् इव ॥
सन्देहवृक्षपरशुर् हार्दध्वान्तदिवाकरः ।
परमामृतशीतांशुस् त्वम् एकḫ परमेश्वरः ॥
अहो नु चिरकालेन विवेके प्रविकासिनि ।
विततानर्थविच्छेत्ता सारḫ प्रश्नस् त्वया कृतः ॥
संसाराम्भोधितरणं परं विश्रमणं धियः ।
दृश्यतृण्यामहावातं यथापृष्टम् इदं शृणु ॥
यद् इदं दृश्यते किञ्चित् तन् नास्ति नृप किञ्चन ।
रज्ज्वाम् इव भुजङ्गत्वम् असद् एवेदम् उत्थितम् ॥
यथा गन्धर्वनगरं यथा वारिमतिर् मरौ ।
यथा शुक्तौ रजतता यथा द्वित्वं सुधानिधौ ॥
सर्वं मिथ्यावभासात्म स्फुरतीदम् असन्मयम् ।
प्रविलोलोज्ज्वलालातलोचनभ्रमचक्रवत् ॥
यत् तु नो दृश्यते किञ्चिद् यन् नकिञ्चिद् इति स्मृतम् ।
मनष्षष्ठेन्द्रियातीतं यत् खाद् अपि नकिञ्चन ॥
अविनाशं तद् अस्तीह तत् तद् आत्मेति कथ्यते ।
तत् तत् तत् परमं ब्रह्म तत् तत् सद् अमलं परम् ॥
अनन्तभूतपर्णाया जाताया व्योमकानने ।
ऋक्षजालकपुष्पायास् सर्गवल्ल्यास् तु तद् रसः ॥
तत् तच् चिन्मात्रम् आभानं यत् परिस्फुरति स्वयम् ।
अक्षुब्धाम्भोधिजलवत् तज् जगज्जालतां गतम् ॥
एवं परात् समायाता राजन् सर्गपरम्पराः ।
तस्मिन्न् एव महादर्शे प्रतिबिम्बम् उपागताः ॥
तास् स्वभावसमुत्पन्ना बह्व्यस् स्फुरणशक्तयः ।
पश्चात् कारणतां यान्ति मिथो जीवादिनामभिः ॥
काश्चिद् ब्रह्माण्डतां यान्ति काश्चिद् गच्छन्ति भूतताम् ।
अन्यन् नानात्वम् इतरा भवत्य् एवं जगत्स्थितिः ॥
गृहीतकलना ब्राह्म्यश् शक्तयस् स्वयम् एव हि ।
सङ्कल्प्य मितजीवत्वम् अहंज्ञानात्मिकास् स्थिताः ॥
ताẖ कोशकारक्रिमिवत् स्वयं गच्छन्ति बन्धनम् ।
प्राप्ताḫ परिमितं रूपं रञ्जनं स्फटिका इव ॥
बन्धो न सम्भवत्य् एव तास् स्वयं बन्धनं गताः ।
मुग्धा हि भीत्या पश्यन्ति यक्षं मातृस्तनेष्व् अपि ॥
स्वभावतस् समुत्थाय निष्कारणम् अकारणम् ।
मिथẖ कारणतां यान्ति ब्राह्म्यस् स्फुरणशक्तयः ॥
न बन्धो ऽस्ति न मोक्षो ऽस्ति ब्रह्मैवास्ति निरामयम् ।
नैक्यम् अस्ति न च द्वित्वं संविद्भानं विजृम्भते ॥
एकं यथा स्फुरति वारि तरङ्गभङ्गैर् एवं परिस्फुरति चित्तम् अकिञ्चिद् एतत् ।
त्वं बन्धमोक्षकलने प्रविमुच्य दूरे स्वस्थो भवाभयतयोदयसार एव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0