मोक्षोपाय · अध्याय 6.120
ह्यो दिने हि मया प्रश्नẖ कृत आसीन् मुनीश्वर ।
उपशान्तिप्रकरणप्रसरे स यथा किल ॥
अनन्तस्यात्मतत्त्वस्य कलङ्ककलना कुतः ।
अब्धेर् अगाधरूपस्य रजोराशिẖ कुतो भवेत् ॥
तत्रोक्तं भवता ब्रह्मन् मय्य् अकालैकचोदके ।
सिद्धान्तकाल एवास्य प्रश्नस्योत्तरवाग् इति ॥
तद् अद्य भगवंस् तं मे हृदयाच् छिन्द्धि संशयम् ।
वाक्यरश्मिभिर् आशीतैẖ खान् निशीव शशी तमः ॥
त्वद्वाक्यामृतपानेन संशयांशापमृत्यवः ।
अशेषेण विनष्टा मे वर्षणेनेव पांसवः ॥
क्षमानववधूकान्तं त्वां पृच्छामि तथाप्य् अहम् ।
न राजते स्वयं ज्ञातं ज्ञानं गुरुगिरं विना ॥
राम राजीवपत्त्राक्ष साधु संस्मृतवान् असि ।
के नाम वा समारम्भाḫ प्राज्ञस्यायान्ति वन्ध्यताम् ॥
क्षमौदार्यशमप्रायैर् गुणैर् यातो ऽसि पात्रताम् ।
शारदैश् शालिसौन्दर्यैश् श्रीमत्ताम् इव भूतलम् ॥
भाजनं त्वं पवित्राणां सिद्धान्तवचसां स्थितः ।
सुरक्तकण्ठगीतीनां रागरक्तमना इव ॥
श्रुत्वात्मज्ञानसिद्धान्तं त्वम् अद्यार्धप्रबुद्धवत् ।
न क्रियाद्वैतदोषेण गच्छस्य् उभयनष्टताम् ॥
अमहात्मा हि वेदान्तसिद्धान्तावगताव् इतः ।
सर्वं ब्रह्मेति संयाति कर्माद्वैतवशाद् अधः ॥
क्षमादिगुणपूतात्मा महात्मा त्वादृशस् तु यः ।
सर्वं ब्रह्मेति निर्णीय स्वभावाद्वैतम् एत्य् अलम् ॥
कर्माद्वैतम् अनादृत्य नाभिवाञ्छति नोज्झति ।
आत्मतत्त्वैकभावित्वात् समताम् एति केवलम् ॥
सर्वेषाम् एव शास्त्राणां सर्वासाम् अभितो दृशाम् ।
शृणु राघव सिद्धान्तम् आत्मज्ञानैकदीपकम् ॥
जन्तुर् न जायते येन भावितेन मनाग् अपि ।
भव्य एवाङ्ग नाभव्यो भृष्टं बीजम् इवोषरे ॥
इदं हि कथयन्त्य् उच्चैर् बोधं परम् उपागताः ।
वयं स्वयं च जानीमश् शास्त्रम् एवं च संस्थितम् ॥
न तत्त्वातत्त्वयोर् भेदस् तरङ्गपयसोर् इव ।
न सत्यासत्ययोर् भेदो जाग्रत्स्वप्नार्कयोर् इव ॥
सत्तायां न तु भेदो ऽस्ति भेदो यẖ कल्पितस् त्व् अयम् ।
विकल्पो न क्वचित् सत्यस् सत्तामात्रम् अतो ऽखिलम् ॥
न सत्यासत्ययोर् भेदस् सत्तायाम् अङ्ग दृश्यते ।
सङ्कल्पान्तरशैलेन्द्रबाह्यशैलेन्द्रयोर् इव ॥
संविन्मात्रं हि पुरुषो देहो नाम न विद्यते ।
अर्थक्रिया तदर्था च संविदर्थेन पूर्यते ॥
तद् एव कल्पिताकारम् अगेन्द्रादीव दृश्यते ।
असद्रूपशरीरार्थम् अर्थẖ क इतरैẖ क्रमैः ॥
अन्तस्स्वानुभवानन्दफला निश्शेषतẖ क्रियाः ।
समग्राणां पदार्थानाम् आसवाद्यनुभूतिवत् ॥
अस्तीह किञ्चिद् एवैकं न द्वितीयास्ति कल्पना ।
निर्मलो नित्य आत्मास्ति यो नास्तीव व्यवस्थितः ॥
नैव तस्य मलं नाङ्को न विच्छेदो न वस्तुता ।
न सत्ता नापि चासत्ता त्वत्ता मत्ता न चैव च ॥
आत्मैवास्तीह नान्यो ऽस्ति त्यज रामेतरां धियम् ।
निर्द्वित्वो ऽथ निरेकत्वस् समो नित्योदितो भव ॥
तद् एते भगवन् ब्रूहि मनोबुद्ध्यादयẖ कथम् ।
संस्थिता यैर् इह प्रोक्तम् इदं शास्त्रं त्वया मयि ॥
शास्त्रसंव्यवहारार्थं शब्दराशिḫ प्रकल्पितः ।
मिथ्यैष चित्तबुद्ध्याद्यो न राम परमार्थतः ॥
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ।
चित्सत्तामात्रम् एवैतत् पराकाशात्मकं तथा ॥
अप्सत्तामात्रम् एवैतद् वीच्यावर्तादिकं यथा ।
सर्वो जगत्पदार्थौघश् चिदाकाशात्मकस् तथा ॥
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ।
यथा स्वप्ने पुरानीकं स्पन्दने वा यथानिलः ॥
नित्योदितं विमलरूपम् अनन्तम् आद्यं ब्रह्मास्ति नेतरकलाकलनं हि किञ्चित् ।
इत्य् एव भावय निरञ्जनताम् उपेतो निर्वाणम् एहि सकलामलशान्तवृत्तिः ॥
अनामयं ब्रह्म समस्तकल्पकार्यैकबीजं परमाणुरूपम् ।
बृहच् च तद् बृंहितसर्वभावं खम् अस्ति नास्तीव यद् अस्ति किञ्चित् ॥
अन्यत् क्वचित् किञ्चिद् इदं कदाचिन् न सम्भवत्य् एव सद् अप्य् असच् च ।
इत्य् एव साधो दृढनिश्चयो ऽन्तस् स्थित्वा गताशङ्कविलासम् आस्स्व ॥
अन्तर्मुखस् सन् सततं समस्तं कुर्वन् बहिस्स्थं खलु कार्यजातम् ।
न खेदम् आयासि कदाचिद् एव व्योम्नस् समां संस्थितिम् अभ्युपैषि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0