भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.121

6.121.1

रामाहङ्कारसत्तान्तḫ प्रसूते संसृतिभ्रमम् ।
बालस्य भाविता यक्षभावनेवोग्रयक्षकम् ॥

6.121.2

अहङ्कारोपशान्तौ तु शाम्यतीयं हि संसृतिः ।
मोहदा मिहिकेवाङ्ग प्रावृट्कालपरिक्षये ॥

6.121.3

रज्ज्वां सर्पभ्रमो बन्धोर् वाक्येनैति यथा क्षयम् ।
न सर्पो ऽयम् इयं रज्जुर् इत्याद्येन जनस्य वै ॥

6.121.4

तथा गुरोर् गिरा शान्तिम् एत्य् अहम्भावविभ्रमः ।
माहङ्कारम् असद्रूपं भावयेत्यादिरूपया ॥

6.121.5

अभ्यासाज् ज्ञानशास्त्राणां सत्सङ्गमकथाक्रमैः ।
अहम्भ्रमश् शमं याति जन्तोर् आन्ध्यम् इवाञ्जनैः ॥

6.121.6

विद्यमानम् अपि स्थूलं यत् तत् क्षयि निघर्षणैः ।
उदपानशिलाप्य् अङ्ग क्षीयते घटघर्षणैः ॥

6.121.7

अहङ्कृतेर् अविद्याया भाविताया अकारणम् ।
नाशे क इव सन्देहो विचारैर् नाशहेतुभिः ॥

6.121.8

भगवन् सर्वतत्त्वज्ञ चित्ते ऽहङ्कारनामनि ।
गलिते वा गलद्रूपे लिङ्गं सत्त्वस्य किं भवेत् ॥

6.121.9

विवेकाब्दोदयेनाङ्ग शाम्यन्त्यां देहधन्वनि ।
स्वचित्तमृगतृष्णायां न संसृत्यातपो भवेत् ॥

6.121.10

उरवो ऽपि हि सञ्जाता न स्पृशन्त्य् आशयं सितम् ।
लोभमोहादयो दोषाḫ पयांसीव सरोरुहम् ॥

6.121.11

मुदिताद्याश् श्रियो वक्त्रं न मुञ्चन्ति कदाचन ।
सौभाग्यसुखदायिन्यḫ पुष्पलक्ष्म्यो मधुं यथा ॥

6.121.12

कथं संसृतिर् इत्य् एव विचारे मुदितोदये ।
उदेति सत्त्वं चित्तं च गलनाय प्रवर्तते ॥

6.121.13

गलत्य् अहङ्कारमये चित्ते चलति दुष्कृते ।
वासनाग्रन्थयẖ खिन्ना इव त्रुट्यन्त्य् अलं शनैः ॥

6.121.14

कोपस् तानवम् आयाति शरदीव पयोधरः ।
मोहो मान्द्यम् उपादत्ते प्रभाते तिमिरं यथा ॥

6.121.15

कामẖ क्लमं गच्छति च दीर्घाध्वग इवातपे ।
लोभḫ पलायते क्वापि व्यालो दृष्ट्वेव बर्हिणम् ॥

6.121.16

नोल्लसन्तीन्द्रियाण्य् उच्चैर् अहनीव निशाचराः ।
न स्फुरत्य् उच्चकैẖ खेदḫ प्रावृषीवाकुलं रजः ॥

6.121.17

न दुẖखान्य् उपगर्जन्ति गजा इव वियौवनाः ।
न सुखान्य् उपधावन्ति पयांसीवोग्रसेतुना ॥

6.121.18

सुखदुẖखादयश् चैते दृश्यन्ते यदि वा मुखे ।
दृश्यन्ते एव तत् साधो न तु लिम्पन्ति ते मनः ॥

6.121.19

चित्ते गलति गीर्वाणगणस्य स्पृहणीयताम् ।
साधुर् गच्छत्य् उदेत्य् अस्य समताशीतचन्द्रिका ॥

6.121.20

इदं शान्तं च कान्तं च दीप्तम् अप्रतिघाति च ।
निभृतं चोर्जितं स्वच्छं भवतीन्द्वमलं वपुः ॥

6.121.21

भावाभावविभुग्नो ऽपि विचित्रो ऽपि महान् अपि ।
नानन्दाय न खेदाय सतां संसृतिविभ्रमः ॥

6.121.22

बुद्ध्यालोकनसाध्ये ऽस्मिन् वस्तुन्य् अस्तमितापदि ।
प्रवर्तते न यो मोहात् तं धिग् अस्तु नराधमम् ॥

6.121.23

विश्रान्तिम् आप्तुम् उचितां चिरम् अङ्ग दुẖखरत्नाकरं जननसागरम् उत्तितीर्षोः ।
को ऽहं कथं जगद् इदं च परश् च कस् स्यात् किं भोगकैर् इति मतिḫ परमो ऽभ्युपायः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc