भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.119

6.119.1

महाकर्ता महाभोक्ता महात्यागी भवानघ ।
सर्वाश् शङ्काः परित्यज्य धैर्यम् आलम्ब्य शाश्वतम् ॥

6.119.2

किम् उच्यते महाकर्ता महात्यागी किम् उच्यते ।
किम् उच्यते महाभोक्ता सम्यक् कथय मे प्रभो ॥

6.119.3

एतद् व्रतत्रयं राम पुरा चन्द्रार्धमौलिना ।
भृङ्गीशायोत्तमं प्रोक्तं येनासौ विज्वरस् स्थितः ॥

6.119.4

सुमेरोर् उत्तरे शृङ्गे पूर्वं शशिकलाधरः ।
अतिष्ठद् अग्निसङ्काशे समग्रपरिवारवान् ॥

6.119.5

तम् अपृच्छन् महातेजा ज्ञानजिज्ञासया स्वतः ।
भृङ्गीशः प्रणतो राम बद्धाञ्जलिर् उमापतिम् ॥

6.119.6

भगवन् देवदेवेश सर्वज्ञ परमेश्वर ।
यद् अहं परिपृच्छामि कृपया तद् वदाशु मे ॥

6.119.7

संसाररचनां नाथ तरङ्गतरलाम् इमाम् ।
अवलोक्य विमुह्यामि तत्त्वविश्रान्तिवर्जितः ॥

6.119.8

कम् अन्तर्निश्चयं कान्तम् उररीकृत्य सुस्थिरम् ।
अस्मिञ् जगज्जीर्णगृहे तिष्ठामि विगतज्वरम् ॥

6.119.9

सर्वाश् शङ्काः परित्यज्य धैर्यम् आलम्ब्य शाश्वतम् ।
महात्यागी महाकर्ता महाभोक्ता भवानघ ॥

6.119.10

किम् उच्यते महात्यागी महाभोक्ता किम् उच्यते ।
किम् उच्यते महाकर्ता सम्यक् कथय मे प्रभो ॥

6.119.11

धर्माधर्मोदयापायशङ्काविरहिताशयः ।
यः करोति यथाप्राप्तं महाकर्ता स उच्यते ॥

6.119.12

रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले ।
यः करोत्य् अनपेक्ष्यैव महाकर्ता स उच्यते ॥

6.119.13

मौनवान् निरहम्भावो निर्मानो मुक्तमत्सरः ।
यः करोति गतोद्वेगं महाकर्ता स उचते ॥

6.119.14

शुभाशुभेषु कार्येषु धर्माधर्मकुशङ्कया ।
मतिर् न लिप्यते यस्य महाकर्ता स उच्यते ॥

6.119.15

सर्वत्र विगतस्नेहो यस् साक्षिवद् अवस्थितः ।
निरिच्छं वर्तते कार्ये महाकर्ता स उच्यते ॥

6.119.16

उद्वेगानन्दरहितस् समया स्वच्छयेच्छया ।
न शोचते यो नोदेति महाकर्ता स उच्यते ॥

6.119.17

यः कार्यकाले मतिमान् असंसक्तमना मुनिः ।
कार्यानुरूपवृत्तिस्थो महाकर्ता स उच्यते ॥

6.119.18

स्वभावेनैव यस्यान्तस् समतां न जहाति धीः ।
शुभाशुभं ह्य् आचरतो महाकर्ता स उच्यते ॥

6.119.19

जन्मस्थितिविनाशेषु सोदयास्तमयेष्व् अलम् ।
समम् एव मनो यस्य महाकर्ता स उच्यते ॥

6.119.20

न किञ्चन द्वेष्टि च यो न किं च स्तौति यस् स्वयम् ।
भुङ्क्ते च प्रकृतं सर्वं महाभोक्ता स उच्यते ॥

6.119.21

नादत्ते ऽप्य् आददानस् सन् नाचरत्य् आचरन्न् अपि ।
भुञ्जानो ऽपि न यो भुङ्क्ते महाभोक्ता स उच्यते ॥

6.119.22

साक्षिवत् सकलं लोकव्यवहारम् अखिन्नधीः ।
यः पश्यत्य् अपयातेच्छं महाभोक्ता स उच्यते ॥

6.119.23

सुखैर् दुःखैः क्रियायोगैर् भावाभावैर् भ्रमप्रदैः ।
यस्य नोत्क्रामति मतिर् महाभोक्ता स उच्यते ॥

6.119.24

जरामरणम् आपच् च राज्यं दारिद्र्यम् एव च ।
रम्यम् एवेति यो वेत्ति महाभोक्ता स उच्यते ॥

6.119.25

महान्ति सुखदुःखानि यः पयांसीव सागरः ।
समस् समुपगृह्णाति महाभोक्ता स उच्यते ॥

6.119.26

अहिंसा समता तुष्टिश् चन्द्रबिम्बाद् इवांशवः ।
नापयान्त्य् अनिशं यस्मान् महाभोक्ता स उच्यते ॥

6.119.27

कट्व् अम्ब्लं लवणं तिक्तम् अमृष्टं मृष्टम् उत्तमम् ।
अधमं यो ऽत्ति साम्येन महाभोक्ता स उच्यते ॥

6.119.28

सरसं नीरसं चैव सुरतं विरतं तथा ।
यः पश्यति समस् सोम्यो महाभोक्ता स उच्यते ॥

6.119.29

क्षारे खण्डप्रकारे च शुभे वाप्य् अशुभे तथा ।
समता सुस्थिता यस्य महाभोक्ता स उच्यते ॥

6.119.30

इदं भोज्यम् अभोज्यं चेत्य् एवं त्यक्त्वा विकल्पितम् ।
गताभिलाषं यो भुङ्क्ते महाभोक्ता स उच्यते ॥

6.119.31

आपदं सम्पदं मोहम् आनन्दम् अवरं वरम् ।
यो भुङ्क्ते समया बुद्ध्या महाभोक्ता स उच्यते ॥

6.119.32

धर्माधर्मौ सुखं दुःखं चिन्ता मरणजन्मनी ।
धिया येनेति सन्त्यक्तं महात्यागी स उच्यते ॥

6.119.33

सर्वेच्छास् सकलाश् शङ्कास् सर्वेहास् सर्वनिश्चयाः ।
धिया येन परित्यक्ता महात्यागी स उच्यते ॥

6.119.34

देहस्य मनसो बुद्धेर् इन्द्रियाणां जगत्स्थितेः ।
नूनं येनोज्झिता सत्ता महात्यागी स उच्यते ॥

6.119.35

न मे देहो न जन्मापि युक्तायुक्ते न कर्मणा ।
इति निश्चयवान् यो ऽन्तर् महात्यागी स उच्यते ॥

6.119.36

येन धर्मम् अधर्मं च मनोमननम् ईहितं ।
सर्वम् अन्तः परित्यक्तं महात्यागी स उच्यते ॥

6.119.37

मनो ध्यानं तपस्तेजस् त्वत्तामत्ते शुभाशुभे ।
त्यक्त्वा यो ऽवस्थितस् स्वस्थो महात्यागी स उच्यते ॥

6.119.38

स्वमनोमननं मान्यो नाभिवाञ्छति नोज्झति ।
यो ऽवासनस् सर्वम् इदं महात्यागी स उच्यते ॥

6.119.39

यावती दृश्यकलना सकलेयं विलोक्यते ।
सा येन सुष्ठु सन्त्यक्ता महात्यागी स उच्यते ॥

6.119.40

यो ऽकामकामी निर्द्वन्द्वस् सुखदुःखेष्व् अलोलधीः ।
धीरस् स्वस्थो मृदुर् दान्तो महात्यागी स उच्यते ॥

6.119.41

कुर्वन्न् अपि च कार्याणि सुषुप्तसमवृत्तिताम् ।
न सन्त्यजति यः पूर्णो महात्यागी स उच्यते ॥

6.119.42

इत्य् उक्तं देवदेवेन भृङ्गीशाय पुरानघ ।
एतां दृष्टिम् अवष्टभ्य तिष्ठ राम यथास्थितः ॥

6.119.43

श्रीमत्कपालशकलावलिमध्यबद्धखण्डेन्दुमण्डितजटाशिरसा हरेण ।
इत्य् उक्तम् उज्ज्वलमणीन्द्रशिलैकशृङ्गे मेरौ ज्वलज्ज्वलनरूपिणि रामभद्र ॥

6.119.44

एतां दृशं समवलम्ब्य विलासकान्तकार्यं कुरु क्रमगतं समयैव बुद्ध्या ।
नित्योदितो ऽसि विमलो ऽसि निरामयो ऽसि शङ्कां परित्यज सुखी भव यो ऽसि सो ऽसि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc