मोक्षोपाय · अध्याय 6.118
परस्माद् ब्रह्मणः पूर्वं मनः प्रथमम् उत्थितम् ।
मननात्मकम् आभोगि तत्स्थम् एव स्थितिं गतम् ॥
पुष्पकोश इवामोदो महोर्मिर् इव सागरे ।
रश्मिजालम् इवादित्ये मनो ब्रह्मणि राघव ॥
तस्यादृश्यात्मतत्त्वस्य विस्मृत्यैव गतं स्थितिम् ।
नान्ययुक्त्या गतं राम जातं रज्जुभुजङ्गवत् ॥
आदित्यव्यतिरेकेण यो भावयति राघव ।
रश्मिजालम् इदं ह्य् एतत् तस्यान्यद् इव भास्वतः ॥
कनकव्यतिरेकेण केयूरं येन भावितम् ।
केयूरम् एव तत् तस्य न तस्य कनकं हि तत् ॥
सलिलव्यतिरेकेण तरङ्गो येन भावितः ।
तरङ्गबुद्धिर् एवैका स्थिता तस्य न वारिधीः ॥
सलिलाव्यतिरेकेण तरङ्गो येन भाव्यते ।
अम्बुसामान्यसम्बुद्धिर् निर्विकल्पस् स उच्यते ॥
कनकाव्यतिरेकेण केयूरं येन भाव्यते ।
कनकैकमहाबुद्धिर् निर्विकल्पस् स उच्यते ॥
पावकव्यतिरेकेण ज्वालाली येन भाव्यते ।
तस्याग्निबुद्धिर् गलति ज्वालाधीर् एव तिष्ठति ॥
ज्वालाजालेन लोलेन रञ्जिता सा तथा स्थितिः ।
ताम् एवास्थां समाधत्ते तद्गता व्याकुला मतिः ॥
पावकाव्यतिरेकेण ज्वालाली येन भाव्यते ।
तस्याग्निबुद्धिर् एवास्ति निर्विकल्पस् स उच्यते ॥
यो निर्विकल्पस् स महान् स सङ्क्षीणमना मुनिः ।
प्राप्तव्यं तेन सम्प्राप्तं नासौ मज्जति वस्तुषु ॥
नानाताम् अखिलां त्यक्त्वा शुद्धचिन्मात्रकोटरे ।
संवेदनविनिर्मुक्तं संवित्त्यंशो भवानघ ॥
स्वयम् आत्मात्मनैवाशु शक्तिं सङ्कल्पनामिकाम् ।
यदा करोति स्फुरितां स्पन्दशक्तिम् इवानिलः ॥
तदा पृथग् इवाभासं सङ्कल्पकलनामयम् ।
मनो भवति विश्वात्म भावयत्य् आकृतिं स्वयम् ॥
तत् सङ्कल्पात्मकं चेतो यथेदम् अखिलं जगत् ।
सङ्कल्पयति सङ्कल्पि तथैव भवति क्षणात् ॥
कीटत्वम् अब्जजत्वं च मेरुत्वम् अणुतां तथा ।
मनो यातम् अहङ्कारबुद्धिचित्तादिनामकम् ॥
स्वसङ्कल्पाद् विरिञ्चित्वम् एत्य चेतो जगत्स्थितिम् ।
तनोति तस्यां तदनु नानातां गच्छति स्वयम् ॥
सङ्कल्पमयम् एवेदं जगद् आभोगि दृश्यते ।
न सत्यं न च मिथ्यैव स्वप्नजालम् इवोत्थितम् ॥
जन्तोर् यथा मनोराज्यं विविधारम्भभासुरम् ।
ब्राह्मं तथेदं विततं मनोराज्यं विजृम्भते ॥
यथा न वितथस् स्वप्नः प्रतिभासान् न चापि सन् ।
तथा ब्राह्मं मनोराज्यं जगन् नासन् न सन् मुने ॥
मिथ्यावभासमात्रं हि यद् इदं घनतां गतम् ।
यथाभूतार्थभावित्वात् तद् एतत् प्रविलीयते ॥
परमार्थेन दृष्टं चेत् तद् इदं नैव किञ्चन ।
दृष्टं त्व् अपरमार्थेन प्रयाति शतशाखताम् ॥
लहर्यूर्मितरङ्गाम्बुकलनार्हं परिस्फुरन् ।
यथाम्बुधिर् वपुर् धत्ते स्वभावेन तथा विभुः ॥
कुर्वन् कर्मसहस्राणि कर्ता चित्स्पन्दनाद् ऋते ।
नापूर्वं कुरुते किञ्चित् कश्चिद् भेदम् अतस् त्यज ॥
पश्यञ् छृण्वन् स्पृशञ् जिघ्रन् वदन् व्यवहरन् स्वपन् ।
नापूर्वं कुरुते किञ्चित् सत्यम् इत्य् एव भावय ॥
यद् यत् करोषि तत् तत्त्वं चिन्मात्रम् अमलं ततम् ।
ब्रह्म प्रबृंहिताकारं तस्माद् अन्यन् न विद्यते ॥
पदार्थजाते सर्वस्मिन् संवित्सारतया स्थिते ।
संविद् एवेदम् अखिलं जगन् नान्यास्ति कल्पना ॥
संवित्स्फुरणमात्रे ऽस्मिञ् जगज्जालकनामनि ।
इदम् अन्यद् इदं चान्यद् इति मिथ्याग्रहः कुतः ॥
सम्भवाद् अखिलाकारेणैकस्या एव संविदः ।
संवेद्यम् अपि नास्त्य् एव बन्धमोक्षाव् अतः कुतः ॥
मोक्षो ऽयम् एष खलु बन्ध इति प्रसह्य चिन्ता निरस्य सकला विकलाभिमानः ।
मौनी वशी विगतमानमदो महात्मा कुर्वन् स्वकार्यम् अनहङ्कृतिर् एव तिष्ठ ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0