मोक्षोपाय · अध्याय 6.117
मिथ्यानरप्रसङ्गेन किं मायापुरुषः प्रभो ।
कथितो ऽयं त्वया व्योमरक्षणं च किम् उच्यते ॥
शृणु राम यथाभूतम् एतत् प्रकटयामि ते ।
मिथ्यापुरुषवृत्तान्तकथनं कथयाधुना ॥
मायायन्त्रमयः प्रोक्तो यः पुमान् रघुनन्दन ।
एनं तं त्वम् अहङ्कारं विद्धि शून्याम्बरोत्थितम् ॥
यस्मिन्न् आकाशकोणे ऽस्मिन् साधो जगद् इदं स्थितम् ।
तद् अनन्तम् असच् छून्यं सर्गादौ भवति स्वयम् ॥
अन्तस्स्थितसुदुर्लक्ष्यब्रह्मव्योम्नो ऽथ शब्दखात् ।
तस्माद् उदेत्य् अहङ्कारः पूर्वं स्पन्द इवानिलात् ॥
वृद्धिं यातस् स गगने कल्पयत्य् आत्मतां शठः ।
अनात्मात्माभिमानेन तेनासौ यतते ततः ॥
अनात्मात्मैकरक्षार्थं देहान् नानाविधान् असौ ।
भूयो भूयो ऽपि निर्नष्टान् दृष्ट्वेदं कुरुते जगत् ॥
स एव मायापुरुषो मिथ्यापुरुष एव सः ।
असन्न् एवोदितो व्यर्थम् अहङ्कारो ऽपि मायया ॥
गृहकुण्डचतुश्शालकुम्भादीन् देहकान् असौ ।
कृत्वा रक्षित आत्मेति याति तद्व्योम्नि भावनाम् ॥
अहङ्कारस्य तस्यास्य नामानीमानि राघव ।
शृणु यैर् जगदारम्भविभ्रमैर् मोहम् एत्य् असौ ॥
जीवो बुद्धिर् मनश् चित्तं माया प्रकृतिर् इत्य् अपि ।
सङ्कल्पः कलना कालः कला चेत्य् अपि विश्रुतैः ॥
एवमाद्यैस् तथान्यैश् च नामभिर् बहुतां गतैः ।
सहस्ररूपो ऽहङ्कारः कल्पितार्थैर् विजृम्भते ॥
भूताकाशे तते शून्ये जगन्निर्मितिभिश् चिरम् ।
सुखदुःखान्य् अनुभवन् मिथ्यैव पुरुषस् स्थितः ॥
यथैष मिथ्यापुरुषो रक्षन् व्योमात्मशङ्कया ।
घटाकाशादिषु श्लिष्टम् एवं मा क्लेशवान् भव ॥
आकाशाद् अपि विस्तीर्णश् शुद्धस् सूक्ष्मश् शिवश् शुभः ।
य आत्मा स कथं केन रक्ष्यते गृह्यते तथा ॥
हृदयाकाशमात्रस्य घटाकाशसमस्थितेः ।
व्यर्थं भूतानि शोचन्ति नष्ट आत्मेति सङ्क्षये ॥
घटादिषु प्रणष्टेषु यथाकाशम् अखण्डितम् ।
तथा देहेषु नष्टेषु देही नित्यम् अलोपकः ॥
शुद्धचिन्मात्र आत्मायम् आकाशाद् अप्य् अणोर् अणुः ।
स्वानुभूत्यंशमात्रं हि खवद् राम न नश्यति ॥
न जायते न म्रियते क्वचित् किञ्चित् कदाचन ।
जगद्विवर्तरूपेण केवलं ब्रह्म जृम्भते ॥
सर्वम् एकम् इदं शान्तम् आदिमध्यान्तवर्जितम् ।
भावाभावविनिर्मुक्तम् इति मत्वा सुखी भव ॥
सर्वापदां निलयम् अध्रुवम् अस्वतन्त्रम् आसन्नपातम् अविवेकम् असारम् अज्ञम् ।
बोधाद् अहङ्कृतिपदं सकलं विमुच्य शेषे सुबद्धपद उत्तमतां प्रयासि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0