मोक्षोपाय · अध्याय 6.113
अथ तां दयितां दृष्ट्वा विस्मयोत्फुल्ललोचनः ।
शिखिध्वज उवाचेदम् आश्चर्याकुलया गिरा ॥
का त्वम् उत्पलपत्त्राक्षि कुतः प्राप्तासि सुन्दरि ।
किमीहासि कियत्कालं किमर्थम् इह तिष्ठसि ॥
अङ्गेन व्यवहारेण स्मितेनानुनयेन च ।
मम जाया विलासेन चूडालेवोपलक्ष्यसे ॥
एवम् एव प्रभो विद्धि चूडालास्मि न संशयः ।
अकृत्रिमेन देहेन लब्धो ऽस्य् अद्य मया स्वयम् ॥
कुम्भादिदेहनिर्माणस् त्वां बोधयितुम् एष मे ।
प्रपञ्चश् शतशाखत्वम् इह यातो वनान्तरे ॥
यदा राज्यं परित्यज्य मोहेन तपसे वनम् ।
त्वम् अगास् तत्प्रभृत्य् एव त्वद्बोधायाहम् उद्यता ॥
अनेन कुम्भदेहेन मयैवं त्वं विबोधितः ।
मायया न तु कुम्भादि किञ्चित् सत्यं महीपते ॥
बुद्धो विदितवेद्यस् त्वं ध्यानेनैतद् अखण्डितम् ।
सर्वं पश्यसि तत्त्वज्ञ ध्यानेनाश्व् अवलोकय ॥
अथ चूडालयेत्य् उक्ते बद्ध्वा परिकरं नृपः ।
आत्मोदन्तम् अशेषेण ध्यानेनालम् अवैक्षत ॥
आ स्वराज्यपरित्यागाच् चूडालादर्शनावधिम् ।
सर्वं मुहूर्तध्यानेन स्वात्मोदन्तं ददर्श सः ॥
आ राज्यसम्परित्यागाद् वर्तमानक्षणक्रमम् ।
सर्वम् आलोक्य भूपालो विरराम समाधितः ॥
समाधिविरतो हर्षविकासिनयनाम्बुजः ।
विसार्य तरसा बाहू पुलकोज्ज्वलतां गतः ॥
गलदङ्गं लसत्स्नेहम् उद्यद्बाष्पं स्फुरत्स्पृहम् ।
आलिलिङ्ग चिरं कान्तां नकुलो नकुलीम् इव ॥
तयोर् आलिङ्गने तस्मिंस् तत्र भावो बभूव यः ।
न स वासुकिजिह्वाभिर् वक्तुं वर्षैर् हि शक्यते ॥
चित्रस्थाव् इव पङ्केन कृताव् इव गलत्तनू ।
शैलाद् इव समुत्कीर्णौ श्लिष्टाव् आस्तां चिरं प्रियौ ॥
मुहूर्तेन गलद्घर्मजालौ पुलकपीवरौ ।
बाहू विश्लथताम् ईषन् निन्यतुस् तौ शनैः प्रियौ ॥
अमृतापूर्णहृदयं संशून्यहृदयोपमम् ।
उन्मुक्तभुजम् आस्तां ताव् अलक्ष्यस्थितलोचनम् ॥
घनानन्दः क्षणं स्थित्वा तूष्णीं प्रणयपेशलम् ।
कान्ताचिबुकसंलग्नकरः प्रोवाच भूपतिः ॥
अहो नु मधुरस् स्निग्धः कान्तश् च कुलयोषिताम् ।
पुण्यश् चरितनिष्ष्यन्दस् स्वादवान् अमृताद् अपि ॥
कियत्प्रमाणं तन्वङ्गि त्वया बालेन्दुमुग्धया ।
अनुभूतश् चिरं क्लेशो भर्तुर् अर्थेन दारुणः ॥
एवं दुरुत्तराद् अस्मात् संसारकुहराद् अहम् ।
उत्तारितो यया बुद्ध्या सा हि केनोपमीयते ॥
अरुन्धती शची गौरी गायत्री श्रीस् सरस्वती ।
समस्ताः पेलवायन्ते तन्व्यास् सत्त्वगुणश्रिया ॥
धीश्रीकान्तिक्षमामैत्रीकरुणाद्यासु सुन्दरि ।
कान्तास्व् आकारकान्तासु प्रथमैवासि लक्ष्यसे ॥
परेणाध्यवसायेन त्वयाहम् अवबोधितः ।
केन प्रत्युपकारेण तुलाम् एष्यन्ति मे गुणाः ॥
मोहाद् अनादिगहनाद् अनन्तविषमाद् अपि ।
पतिम् अध्यवसायिन्यस् तारयन्ति कुलस्त्रियः ॥
शास्त्रार्थगुरुमन्त्रादि न तथोत्तारणक्षमम् ।
यथैतास् स्नेहशालिन्यो भर्तॄणां कुलयोषितः ॥
सखा भ्राता सुहृद् भृत्यो गुरुर् मन्त्रो धनं सुखम् ।
शास्त्रम् आयतनं दास्यस् सर्वं भर्तुः कुलस्त्रियः ॥
सर्वदा सर्वयत्नेन पूजनीयाः कुलाङ्गनाः ।
लोकद्वयसुखं सम्यक् सर्वं तासु प्रतिष्ठितम् ॥
निरिच्छायाः प्रयातायाः पारं संसारवारिधेः ।
कथम् अस्योपकारस्य करिष्ये ते प्रतिक्रियाम् ॥
मन्ये कुलाङ्गनालोको लोके सर्वस् त्वयाधुना ।
नारीसौजन्यचर्चासु व्यपदेश्यो भविष्यति ॥
त्वां निर्मितवतो धातुर् गुणजालातिशायिनीम् ।
मन्ये प्रकुपिता नूनम् अरुन्धत्यादिकास् स्त्रियः ॥
सतीत्वरूपसौजन्यगुणरत्नसमुद्गिके ।
एहि मे त्वद्गुणोत्कस्य पुनर् आलिङ्गनं कुरु ॥
इत्य् उक्त्वा मृगशावाक्षीं चूडालां स शिखिध्वजः ।
आलिलिङ्ग पुनर् गाढं नकुलो नकुलीम् इव ॥
देव शुष्कक्रियाजालपरे त्वय्य् आकुलात्मनि ।
तथाभूवं भृशम् अहं त्वदर्थं दुःखिता किल ॥
तेन त्वदवबोधात्मा स्वार्थ एवोपपादितः ।
मया तद् अत्र किं देवः करोति मयि शंसनम् ॥
त्वया यथा वरारोहे स्वार्थस् सम्पादितश् शुभः ।
तथेदानीं सतां सर्वास् साधयन्तु कुलस्त्रियः ॥
बुद्ध्यंशैकान्तविश्रान्तजगज्जालक देव हे ।
अद्य तं प्राक्तनं कच्चिन् मोहं समनुपश्यसि ॥
इदं करोमि नेदं तु प्राप्नोमीदम् इतस् त्व् इति ।
अन्तर् हससि तां कच्चिद् आशापेलवतां धियः ॥
तास् तुच्छतृष्णाकलनास् तास् सङ्कल्पकुकल्पनाः ।
त्वयि नाद्यावलोक्यन्ते देव व्योम्नीव पर्वताः ॥
कस् त्वम् अद्याङ्गसम्पन्नः किंनिष्ठो ऽसि किम् ईहसे ।
कथं पश्यसि पाश्चात्यं देहावस्थाक्रमं प्रभो ॥
सुमनःपूर्णनीलाब्जमालासारविलोकने ।
यस्य त्वम् एव तज्ज्ञासि तद् एवाहम् उपस्थितः ॥
निरीहो ऽस्मि निरंशो ऽस्मि नभस्स्वच्छो ऽस्मि निस्स्पृहः ।
शान्ताहमर्थरूपो ऽस्मि चिरायाहम् अहं स्थितः ॥
तां दशाम् उपयातो ऽस्मि यतश् चण्पकवर्णिनि ।
प्रतिभान्ति महान्तो ऽपि शोच्या हरिजिनादयः ॥
नकिञ्चिन्मात्रचिन्मात्रनिष्ठो ऽस्मि स्वस्थ आस्थितः ।
भ्रमेणालं विमुक्तो ऽस्मि संसारेणालिलोचने ॥
न तुष्टो ऽस्मि न खिन्नो ऽस्मि नायम् अस्मि न चेतरत् ।
न स्थूलो ऽस्मि न सूक्ष्मो ऽस्मि सर्वम् अस्मि च सुन्दरि ॥
तेजोबिम्बात् प्रयातेन भित्ताव् अपतितेन च ।
क्षयातिशयमुक्तेन प्रकाशेनास्मि वै समः ॥
शान्तो ऽस्मि साम्यम् एवास्मि स्वच्छो ऽस्मि विगतामयः ।
परिनिर्वाण एवास्मि सद् अस्म्य् अतिसतीव्रते ॥
यत् तद् अस्ति तद् एवास्मि वक्तुं शक्नोमि नेतरत् ।
तरङ्गतरलापाङ्गे गुरुस् त्वं मे नमो ऽस्तु ते ॥
प्रसादेन विशालाक्ष्यास् तीर्णो ऽस्मि भवसागरात् ।
पुनर् मलं न गृह्णामि शतध्मातसुवर्णवत् ॥
स्वस्थश् शान्तो मृदुर् दान्तो वीतरागो निरंशधीः ।
सर्वातीतस् सर्वगश् च खम् इवायम् अहं स्थितः ॥
एवं स्थिते महासत्त्व प्राणेश हृदयप्रिय ।
किम् इदानीं प्रभो ब्रूहि रोचते ते महामते ॥
प्रतिषेधं न जानामि न जानाम्य् अभिवाञ्छनम् ।
यद् आचरसि तन्वि त्वं कदाचिद् वेद्मि तन् न वा ॥
मन्मनो नाशकलनां तथा स्थितिकलां प्रिये ।
न काञ्चिद् अनुसन्धातुं जानात्य् अम्बरसुव्रतम् ॥
यद् एव किञ्चिज् जानासि तद् एव कुरु सुन्दरि ।
तद् एव धारयिष्यामि प्रतिबिम्बं यथा मणिः ॥
चेतसा विगतेच्छेन यथाप्राप्तम् अनिन्दिते ।
न स्तौमि न च निन्दामि यद् इच्छसि तद् आचर ॥
यद्य् एवं तन् महाभाग समाकर्णय मन्मतम् ।
आकर्ण्य जीवन्मुक्तात्मंस् तद् एवाहर्तुम् अर्हसि ॥
सर्वत्रैक्यावबोधेन मौर्ख्यक्षयभुवाधुना ।
निरिच्छास् तावद् आकाशविशदास् संस्थिता वयम् ॥
यादृग् एषणम् अस्माकम् तादृग् एतद् अनेषणम् ।
एषणानेषणे भेदश् चिन्मात्रोल्लसने हि कः ॥
तस्माद् आद्यन्तमध्येषु ये वयं पुरुषोत्तम ।
मौर्ख्यम् एव परित्यज्य त एवेमे स्थिता इह ॥
साम्प्रतं प्रकृतेनेमं कालं नीत्वा क्रमेण वै ।
विदेहतां प्रयास्यामः प्रभो कालेन केनचित् ॥
वयम् आद्यन्तमध्येषु कीदृशास् तरले वद ।
मोहम् एकं परित्यज्य तिष्ठामः कथम् एव वा ॥
वयम् आद्यन्तमध्येषु राजानो राजसत्तम ।
मोहम् एकं परित्यज्य तिष्ठामः पुनर् एव ते ॥
स्व एव नगरे राजा भव त्वं स्वासने स्थितः ।
ललामभूता कान्तानां महिषी ते भवाम्य् अहम् ॥
सनृपा मत्तवास्तव्या नृत्यन्नववराङ्गना ।
सपताका ध्वनत्तूर्या पुष्पप्रकरिणी पुरी ॥
लसद्वल्ल्या समञ्जर्या रणत्षट्पदया समा ।
मधुमासवनावल्या चिराद् भवतु नः प्रभो ॥
इति चूडालया प्रोक्ते विहस्य स शिखिध्वजः ।
प्रोवाच मधुरं वाक्यम् अक्षुब्धं विगतत्वरम् ॥
एवं चेत् तद् विशालाक्षि स्वायत्ता नस् त्रिविष्टपे ।
सिद्धभोगभुवस् तासु निवसामो न किं प्रिये ॥
न राजन् मम भोगेषु वाञ्छा न च विभूतिषु ।
स्वभावस्य वशाद् एव यथाप्राप्ते रमे नृप ॥
न सुखाय मम स्वर्गो न राज्यं नापि नाकिता ।
यथास्थितम् अविक्षुब्धं तिष्ठामि स्वस्थचेष्टिता ॥
इदं सुखम् इदं नेति मनने क्षयम् आगते ।
समम् एव पदे शान्ते तिष्ठामीह यथासुखम् ॥
युक्तम् उक्तं विशालाक्षि त्वयैतत् समया धिया ।
को वार्थः किल राज्यस्य ग्रहे त्यागे ऽपि वा भवेत् ॥
सुखदुःखदशाचिन्तां त्यक्त्वा विगतमत्सरम् ।
यथासंस्थानम् एवेमौ तिष्ठावस् स्वस्थतां गतौ ॥
इति तत्र कथालापकथनेन तयोर् द्वयोः ।
कान्तयोश् चिरदम्पत्योर् वासरस् तनुतां ययौ ॥
अथोत्थाय दिनाचारं यथाप्राप्तम् अनिन्दितौ ।
सोत्कण्ठाव् अप्य् अनुत्कण्ठौ चक्रतुः कार्यकोविदौ ।
स्वर्गसिद्धिम् अनादृत्य तस्थतुः पूर्णचेतसौ ॥
एकस्मिन्न् एव शयने तैस् तैः प्रणयचेष्टितैः ।
सा व्यतीयाय रजनी तयोर् जीवद्विमुक्तयोः ॥
तद् भोगमोक्षसुखम् उत्तमयोस् तयोस् स्वम् आचेततोः प्रणयवाक्यविलासगर्भम् ।
उत्कण्ठितं प्रणयिनोर् घनतां नयन्ती दीर्घा मुहूर्तवद् असौ रजनी जगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0