भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.114

6.114.1

ततस् समुदिते सूर्ये वितमस्य् अम्बरे स्थिते ।
समुद्गकाद् इव जगन्मणाव् अस्मिन् विनिर्गते ॥

6.114.2

विकसत्य् अरुणोपान्ते चक्षुषीवाम्बुजाकरे ।
आचारेष्व् इव लोकेषु प्रसृतेष्व् अर्करश्मिषु ॥

6.114.3

दम्पती तौ समुत्थाय कृतसन्ध्याक्रमौ स्थितौ ।
पत्त्रासने मृदुस्निग्धे कान्तौ काञ्चनकन्दरे ॥

6.114.4

अथोत्थायात्र चूडाला रत्नकुम्भं करस्थितम् ।
.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ॥

6.114.5

.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ।
भार्या भर्तारम् एकान्ते स्वराज्ये ऽभिषिषेच सा ॥

6.114.6

सङ्कल्पोपनते सैंहे स्वभिषिक्तं सुविष्टरे ।
स्थितं प्रोवाच तन्वी सा चूडाला देवरूपिणी ॥

6.114.7

केवलं मौनम् उत्सृज्य तेजश् शान्तम् इदं प्रभो ।
अष्टानां लोकपालानां तेजांस्य् आहर्तुम् अर्हसि ॥

6.114.8

चूडालयेति स प्रोक्तो वने राजा शिखिध्वजः ।
वदन्न् एवं करोमीति महाराजत्वम् आययौ ॥

6.114.9

अथ प्रतीहारपदे तिष्ठन्तीम् आह मानिनीम् ।
महादेवीपदे राज्ञि त्वां करोम्य् अभिषेकिनीम् ॥

6.114.10

इत्य् उक्त्वासन आस्थाप्य महादेवीपदे तदा ।
अभिषिक्तां नृपः कृत्वा मेघवाग् आह तां प्रियाम् ॥

6.114.11

प्रिये कमलपत्त्राक्षि क्षणात् सङ्कल्पसम्भवम् ।
महाविभवम् उद्दामं सैन्यम् आहर्तुम् अर्हसि ॥

6.114.12

इति कान्तवचश् श्रुत्वा चूडाला वरवर्णिनी ।
सैन्यं सङ्कल्पयाम् आस प्रावृड्घनम् इवोद्भटम् ॥

6.114.13

सैन्यं ददृशतुस् तत् तौ वाजिवारणसङ्कुलम् ।
पताकापूरिताकाशनीरन्ध्रीकृतकाननम् ॥

6.114.14

तूर्यारवध्वनच्छैलगुहं गहनकोटरम् ।
मत्तसामन्तवलितं विद्रवद्वनवारणम् ॥

6.114.15

उद्यन्नादमहासिंहविदारकरणोद्भटम् ।
वनेभमदनिष्ष्यन्दगन्धोद्गर्जज्जयद्विपम् ॥

6.114.16

विमानरथसङ्घट्टचक्रचीत्कारपीवरम् ।
मौलिरत्नघनोद्द्योतभग्नधूलितमःपटम् ॥

6.114.17

तत्र गन्धद्विपवरे कृतपार्थिवमन्दिरे ।
रक्षिते दृप्तसामन्तैर् आरूढौ नृपदम्पती ॥

6.114.18

ततश् शिखिध्वजो राजा महिष्या समम् इष्टया ।
पदातिरथसम्बाधं कर्षन्न् अतिबलो बलम् ॥

6.114.19

चचालाचलचालिन्या सेनया रभसेनया ।
भिनन्त्या तरसा शैलान् वात्ययेवाशु तोयदान् ॥

6.114.20

तस्मान् महेन्द्रशैलेन्द्राच् चलितस् स महीपतिः ।
पथि पश्यन् गिरीन् देशान् नदीर् ग्रामान् सजङ्गलान् ॥

6.114.21

दर्शयंश् च प्रियायास् तम् आत्मवृत्तान्तसञ्चयम् ।
प्रापाल्पेनैव कालेन स्वां पुरीं स्वर्गशोभनाम् ॥

6.114.22

तत्र ते तस्य सामन्तास् तदागमनम् आदृताः ।
विविदुर् जयशब्देन निर्जग्मुश् चोदिताशयाः ॥

6.114.23

एकतां सम्प्रयातेन तारतूर्यनिनादिना ।
बलद्वयेन तेनासौ विवेश नगरं नृपः ॥

6.114.24

लाजपुष्पाञ्जलिव्रातैर् आवृष्टः पौरयोषिताम् ।
वणिङ्मार्गगतो ऽपश्यत् पुरं परमभूषितम् ॥

6.114.25

पताकाध्वजसम्बाधं मुक्ताजालमनोरमम् ।
नृत्तगीतपरस्त्रीकं स्वर्गं भूमाव् इव च्युतम् ॥

6.114.26

प्रविश्याथ गृहं तैस् तैस् संयुतं नृपमङ्गलैः ।
सम्यक् सम्मानयाम् आस प्रणतं प्रकृतिव्रजम् ॥

6.114.27

पुरोत्सवं भृशं कृत्वा दिनसप्तकम् उत्तमम् ।
अकरोद् राजकार्याणि मानितान्तःपुरो नृपः ॥

6.114.28

दशवर्षसहस्राणि राज्यं कृत्वा महीतले ।
सह चूडालया राजा विरतो देहधारणात् ॥

6.114.29

देहम् उत्सृज्य निर्वाणम् अस्नेह इव दीपकः ।
अपुनर्जन्मने राम जगामेति महामतिः ॥

6.114.30

दशवर्षसहस्राणि समदृष्टितया तया ।
राज्यं तथानुशिष्यासौ निर्वाणपदम् आप्तवान् ॥

6.114.31

विगतभयविषादो मानमात्सर्यमुक्तः प्रकृतसहजकर्मा सक्तनीरागबुद्धिः ।
इति स सुसमदृष्टिर् मृत्युम् आर्यो ऽथ जित्वा दशशिशिरसहस्राण्य् एकराज्यं चकार ॥

6.114.32

भुक्त्वा भोगान् अनन्तान् भुवि सकलमही पालचूडामणित्वे स्थित्वा वै दीर्घकालं परम् अमृतपदं प्राप्तवांस् तद् यथैषः ।
एवं रामागतं त्वं प्रकृतम् अनुसरन् कार्यजातं विशोकस् तिष्ठोत्तिष्ठ स्वयत्नात् प्रसभम् अनुभवन् भोगमोक्षाग्र्यलक्ष्मीम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc