भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.112

6.112.1

तां मायां शमम् आनीय चूडाला समचिन्तयत् ।
दिष्ट्या भोगेच्छया नायं ह्रियते वसुधाधिपः ॥

6.112.2

शान्तस् समसमाभोग एव शक्रसमागमे ।
असम्भ्रमम् अहेलं च कृतवान् व्यवहारिताम् ॥

6.112.3

भूय एव प्रपञ्चेन विमृशाम्य् एनम् आदरात् ।
रागद्वेषप्रधानेन केनचिद् बुद्धिहारिणा ॥

6.112.4

इति सञ्चिन्त्य सा रात्राव् इन्दाव् अभ्युदिते वने ।
गृहीतमण्डना नूनं कान्ता मदनिका सती ॥

6.112.5

वाते वहति पुष्पाढ्ये मदिरामोदमांसले ।
सन्ध्याजप्यपरे नद्यास् तीरसंस्थे शिखिध्वजे ॥

6.112.6

सन्तानकलतागेहं नीरन्ध्रं पुष्पगुच्छकैः ।
शुद्धान्तं वनदेवीनां प्रविवेश मदान्विता ॥

6.112.7

तत्र सङ्कल्पिते पुष्पशयने माल्यमालिता ।
कण्ठे सङ्कल्पितं कान्तं शिड्गम् आदाय संस्थिता ॥

6.112.8

आगत्यान्विष्य कुञ्जान् स प्रददर्श शिखिध्वजः ।
लतागेहे मदनिकाकण्ठे शिड्गं मनोहरम् ॥

6.112.9

कुन्तलावलितस्कन्धं समालब्धं च चन्दनैः ।
शयनावृत्तिविक्षेपपर्याकुलितशेखरम् ॥

6.112.10

हेमाभे द्विगुणाकारे बालाबाहूपधानके ।
मग्नैकश्रवणापाङ्गकपोलतलकुन्तलम् ॥

6.112.11

मिथुनं तद् ददर्शाथ मिथः प्रहसिताननम् ।
अन्योऽन्यवदनासक्तं छन्नं कल्पलतांशुकैः ॥

6.112.12

आलोलमाल्यशयनं मदनातुरम् आकुलम् ।
अङ्गरागच्छलेनात्मरागम् अन्योऽन्यम् अर्पयत् ॥

6.112.13

रत्युन्मुखं घनानन्दम् उद्दाममदमन्मथम् ।
परस्पराहतं पुष्पैर् वक्षोभ्यां पीडितस्तनम् ॥

6.112.14

तद् आलोक्याविकारेण चेतसा स तुतोष च ।
अहो सुखं स्थितौ शिड्गाव् इत्य् आह स शिखिध्वजः ॥

6.112.15

तिष्ठथो ऽङ्ग यथाकामं सुखं शिड्गौ यथास्थितम् ।
विघ्नं मा कुरुथः प्रीताव् इत्य् उक्त्वा निर्जगाम सः ॥

6.112.16

ततो मुहूर्तमात्रेण प्रपञ्चं स्वम् उपेक्ष्य सा ।
निर्ययौ दर्शयन्ती स्वं रतियुद्धाकुलं वपुः ॥

6.112.17

उपविष्टं ददर्शैनं नृपं हेमशिलातले ।
समाधिसंस्थम् एकान्ते मनाग्विकसितेक्षणम् ॥

6.112.18

तं प्रदेशम् उपागत्य लज्जावनमितानना ।
तूष्णीम् आसित् क्षणं खिन्ना म्लाना मदनिकाङ्गना ॥

6.112.19

क्षणाच् छिखिध्वजो ध्यानाद् विरतस् ताम् उवाच ह ।
प्रसन्नमधुरं वाक्यम् इदम् अक्षुब्धया धिया ॥

6.112.20

तन्वि किं शीघ्रम् एव त्वं विघ्नितानन्दम् आगता ।
आनन्दायैव भूतानि यतन्ते यानि कानिचित् ॥

6.112.21

भूयस् तोषय तं गच्छ कान्तं प्रणयवृत्तिभिः ।
परस्परेप्सितस्नेहो दुर्लभो हि जगत्त्रये ॥

6.112.22

अहम् एतेन चार्थेन नोद्वेगं यामि मानिनि ।
यद् यद् इष्टतमं लोके तद् तद् देयं विजानता ॥

6.112.23

अहं कुम्भश् च तन्वङ्गि वीतरागाव् इह स्थितौ ।
दुर्वासश्शापजा बाला त्वं यद् इच्छसि तत् कुरु ॥

6.112.24

एवम् एष महाभाग स्त्रीपुम्भावो हि चञ्चलः ।
कामो ह्य् अष्टगुणस् स्त्रीणां न कोपं कर्तुम् अर्हसि ॥

6.112.25

अबलाहम् अनेनास्मि क्रान्ता गहनकानने ।
त्वयि सन्ध्याजपपरे किं करोमि वराकिका ॥

6.112.26

अबला वाक्यमात्रेण तावन् नरनिरोधनम् ।
करोति यावच् छिड्गेन नाङ्गे स्वे विनिवेशिता ॥

6.112.27

स्त्रियास् सुन्दर यातायाः परपुंसाङ्गसङ्गमम् ।
मन्युर् निषेध आक्रन्दस् सतीत्वं किं करिष्यति ॥

6.112.28

अबला स्त्री तथा बाला मूढाहम् अपराधिनी ।
क्षन्तुम् अर्हसि मां नाथ क्षमावन्तो हि साधवः ॥

6.112.29

मन्युर् मम न बाले ऽन्तर् विद्यते ख इव द्रुमः ।
केवलं साधुनिन्द्यत्वान् नेच्छामि त्वाम् अहम् वधूम् ॥

6.112.30

सुहृत्त्वेन वनान्तेषु पूर्ववत् समम् अङ्गने ।
वीतरागतया नित्यं तपसैव रमावहे ॥

6.112.31

एवं समतया तत्र स्थिते तस्मिञ् शिखिध्वजे ।
चूडाला चिन्तयाम् आस तत्सत्येनोदिताशया ॥

6.112.32

अहो बत परं साम्यं भगवान् अयम् आगतः ।
वीतरागभयक्रोधो जीवन्मुक्तो ऽवतिष्ठति ॥

6.112.33

नैनं हरन्ति भोगाशा न महत्यो ऽपि सिद्धयः ।
न सुखानि न दुःखानि नापदो न च सम्पदः ॥

6.112.34

चिन्तितास् सकला एव प्रयान्त्य् एनम् अनिन्दिताः ।
मन्ये महर्द्धयः कान्ता नारायणम् इवापरम् ॥

6.112.35

आत्मवृत्तान्तम् अखिलं तद् एनं स्मारयाम्य् अहम् ।
कुम्भरूपम् इदं त्यक्त्वा चूडालैव भवाम्य् अहम् ॥

6.112.36

इति सञ्चिन्त्य चूडाला चूडालावपुर् अक्षतम् ।
दर्शयाम् आस तत्राशु त्यक्त्वा मदनिकावपुः ॥

6.112.37

तस्मान् मदनिकादेहाच् चूडाला निर्गतेव सा ।
बभाव् इन्द्वमला मुक्ता निर्गतेव समुद्गकात् ॥

6.112.38

तां ददर्शानवद्याङ्गीं पुरः प्रणयपेशलाम् ।
कान्तो मदनिकाम् एव चूडालां दयितां स्थिताम् ॥

6.112.39

समुदिताम् इव माधवपद्मिनीम् उपगताम् इव भूमितलाच् छ्रियम् ।
प्रकटिताम् इव रत्नसमुद्गकात् परिददर्श निजां दयितां नृपः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc