भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.11

6.11.1

पुनः पुनर् इदं राम प्रबोधार्थं मयोच्यते ।
अभ्यासेन विना साधो नाभ्युदेत्य् आत्मभावनम् ॥

6.11.2

अज्ञानम् एतद् बलवद् अविद्येतरनामकम् ।
जन्मान्तरशतप्रौढं नूनं स्थितिम् उपागतम् ॥

6.11.3

सबाह्याभ्यन्तरं सर्वैर् इन्द्रियैर् अनुभूयते ।
भावाभावेषु देहस्य तेनातिघनतां गतम् ॥

6.11.4

आत्मज्ञानं तु सर्वेषाम् इन्द्रियाणाम् अगोचरम् ।
सत्तां केवलम् आयाति मनष्षष्ठेन्द्रियक्षये ॥

6.11.5

प्रोल्लङ्घ्येन्द्रियजाश् शक्तीर् यत् स्थितं तत् कथं किल ।
याति प्रत्यक्षतां जन्तोः प्रत्यक्षातीतवृत्तिमत् ॥

6.11.6

नित्यम् अज्ञानम् एवातस् स्वभ्यस्तं सर्वदेहिनाम् ।
न कदाचन विज्ञानम् इह वामुत्र वानघ ॥

6.11.7

तस्माद् अविद्याभागेन प्रधानेनेतरं दहेत् ।
तावद् यावन् मिथोघर्षात् स्वयं शाम्येच् छिवं भवेत् ॥

6.11.8

न ह्य् अभ्यासं विना किञ्चित् फलदं भवति क्वचित् ।
यद् यद् आसाद्यते यत्र तद् अभ्यासतरोः फलम् ॥

6.11.9

अविद्यां सुचिराभ्यस्तां प्ररूढाम् अपि यत्नतः ।
आत्मज्ञानदृढाभ्यासाद् अनुद्वेगाच् छमं नयेत् ॥

6.11.10

त्वम् अविद्यालताम् एतां प्ररूढां हृदयद्रुमे ।
ज्ञानाभ्यासविलासासिपातेन च्छिन्द्धि सिद्धये ॥

6.11.11

यथा विहरति ज्ञातज्ञेयो जनकभूपतिः ।
आत्मज्ञानघनाभ्यासस् तथा विहर राघव ॥

6.11.12

निश्चयो यो मरुत्तस्य कार्याकार्यविचारणे ।
जाग्रतस् तिष्ठतो वापि तज् ज्ञानं तेन सत्यता ॥

6.11.13

निश्चयेन हरिर् येन विविधाचारकारणात् ।
योनिष्व् अवतरत्य् उर्व्यां तत् तज्ज्ञत्वम् उदाहृतम् ॥

6.11.14

निश्चयो यस् त्रिनेत्रस्य कान्तया सह तिष्ठतः ।
ब्रह्मणो वाप्य् अरागस्य स ते भवतु राघव ॥

6.11.15

यो निश्चयस् सुरगुरोर् वाक्पतेर् भार्गवस्य च ।
दिवाकरस्य शशिनः पवनस्यानलस्य च ॥

6.11.16

नारदस्य पुलस्त्यस्य मम वाङ्गिरसस् तथा ।
प्रचेतसो भृगोश् चैव क्रतोर् अत्रेश् शुकस्य च ॥

6.11.17

अन्येषां देवविप्रेन्द्रराजर्षीणां च राघव ।
यो निश्चयो ऽन्तर्मुक्तानां जीवतां ते भवत्व् असौ ॥

6.11.18

येनैते भगवन् वीरा निश्चयेन महाधियः ।
विशोकास् संस्थितास् तं मे ब्रह्मन् प्रब्रूहि तत्त्वतः ॥

6.11.19

राजपुत्र महाबाहो विदिताखिलवेद्य हे ।
स्फुटं शृणु यथापृष्टम् अयम् एतेषु निश्चयः ॥

6.11.20

यद् इदं किञ्चिद् आभोगि जगज्जालं प्रदृश्यते ।
तत् सर्वम् अमलं ब्रह्म बृंहयेत्थं व्यवस्थितम् ॥

6.11.21

ब्रह्म दिग् ब्रह्म भुवनं ब्रह्म भूतपरम्परा ।
ब्रह्माहं ब्रह्म मच्छत्रुर् ब्रह्म मन्मित्रबान्धवाः ॥

6.11.22

ब्रह्म खानिलतेजांसि ब्रह्म भूमिर् जलादि वा ।
ब्रह्म कालत्रयं तच् च ब्रह्मण्य् एव व्यवस्थितम् ॥

6.11.23

तरङ्गमालयाम्भोधिर् यथात्मनि विवर्धते ।
तथा पदार्थलक्ष्म्येत्थम् इदं ब्रह्म विवर्धते ॥

6.11.24

गृह्यते ब्रह्मणा ब्रह्म भुज्यते ब्रह्म ब्रह्मणा ।
ब्रह्म ब्रह्मणि बृंहाभिर् ब्रह्मशक्त्यैव बृंहति ॥

6.11.25

ब्रह्म मच्छत्रुरूपं चेद् ब्रह्म मे प्रियकृद् यदि ।
तद् ब्रह्म ब्रह्मणि श्लिष्टं किम् अन्यत् कस्य किं कृतं ॥

6.11.26

रागादीनाम् अवस्तूनां कल्पितानां खवृक्षवत् ।
असङ्कल्पननष्टानां कः प्रसङ्गो ऽत्र वर्धने ॥

6.11.27

ब्रह्मण्य् एव हि सर्वस्मिंश् चलनस्पन्दनादिकम् ।
स्फुरति ब्रह्म सकलं सुखितादुःखिते कुतः ॥

6.11.28

ब्रह्म ब्रह्मणि संवेत्तृ ब्रह्म ब्रह्मणि संस्थितम् ।
स्फुरति ब्रह्मणि ब्रह्म नायम् अस्तीतरात्मकः ॥

6.11.29

घटो ब्रह्म पटो ब्रह्म ब्रह्माहम् इदम् आततम् ।
अतो रागविरागाणां मुधैव कलनैव का ॥

6.11.30

मरणब्रह्मणि स्वैरं देहब्रह्मणि सङ्गते ।
दुःखिता नाम केव स्याद् रज्जुसर्पभ्रमोपमा ॥

6.11.31

सम्भोगादौ सुखे ब्रह्मण्य् आस्थिते देहब्रह्मणि ।
सम्पन्नम् एतन् म इति मुधा स्यात् कलना कुतः ॥

6.11.32

वीच्यम्भसोस् स्पन्दवतोर् न स्तस् त्वन्मन्मती यथा ।
त्वत्तामत्ते तथा न स्तो ब्रह्मणि स्पन्दरूपिणि ॥

6.11.33

यथावर्ते मृते तोये न किञ्चिन् म्रियते क्वचित् ।
मृते ब्रह्मत्वम् आयाते देहब्रह्मणि वै तथा ॥

6.11.34

यथा चलाचले तोये त्वत्तामत्ते न तिष्ठतः ।
तथा जडाजडे रूपे न स्थिते परमात्मनि ॥

6.11.35

कटकत्वं यथा हेम्नो यथावर्तो जलस्य च ।
तदतद्भावरूपेयं तथा प्रकृतिर् आत्मनः ॥

6.11.36

इदं हि भूतं जीवात्म जडरूपम् इदं भवेत् ।
इत्य् अज्ञातात्मनो मोहो न तु ज्ञातात्मनः क्वचित् ॥

6.11.37

अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् ।
अन्धं भुवनम् अन्धस्य प्रकाशं तु सचक्षुषः ॥

6.11.38

जगद् एकात्मकं ज्ञस्य जडस्य द्वैतदुःखदम् ।
शिशोर् एव स्फुरद्यक्षा निशा पुंसस् तु केवला ॥

6.11.39

अस्मिन् ब्रह्मघने नित्यम् एकस्मिन् सर्वतस् स्थिते ।
न किञ्चिन् म्रियते राम न च किञ्चन जीवति ॥

6.11.40

यथोल्लासविलासेषु न नश्यति न जायते ।
तरङ्गादि महाम्भोधौ भूतवृन्दं तथात्मनि ॥

6.11.41

इदं नास्तीदम् अस्तीति भ्रान्तिनाम्नात्मनात्मनि ।
शक्तिर् निर्हेतुकैवान्तस् स्फुरति स्फटिकांशुवत् ॥

6.11.42

जगच्छक्त्यात्मनात्मैव ब्रह्म स्वात्मनि संस्थितम् ।
तरङ्गकणजालेन पयसीव पयोघनम् ॥

6.11.43

शरीरनाशेन कथं ब्रह्मणो मृतधीर् भवेत् ।
ब्रह्मणो व्यतिरिक्तं हि न शरीरादि विद्यते ।
पयसो व्यतिरेकेण तरङ्गादि यथार्णवे ॥

6.11.44

यः कणो या च कणिका या वीची यस् तरङ्गकः ।
यः फेनो या च लहरी तद् यथा वारि वारिणि ॥

6.11.45

यो देहो या च कलना यद् दृश्यं यौ क्षयाव्ययौ ।
येहा या रचना यो ऽर्थस् तत् तथा ब्रह्म ब्रह्मणि ॥

6.11.46

संस्थानरचना चित्रा ब्रह्मणः कनकाद् इव ।
नान्यरूपा विमूढानां मुधैव द्वित्वभावनम् ॥

6.11.47

मनो बुद्धिर् अहङ्कारस् तन्मात्राणीन्द्रियाणि च ।
ब्रह्मैव सर्वं नान्यात्म सुखदुःखादि विद्यते ॥

6.11.48

अयं सो ऽहम् अयं च त्वम् इत्याद्यर्थोत्थया गिरा ।
शब्दः प्रतिश्रवेणाद्राव् इवात्मात्मनि जृम्भते ॥

6.11.49

ब्रह्मैवाज्ञातम् अज्ञत्वम् अभ्यागतम् इव स्थितम् ।
तथा हि दृश्यते स्वप्नचेतसात्मात्मना मृतः ॥

6.11.50

अभावितं ब्रह्मतया ब्रह्माज्ञानमयं भवेत् ।
अभावितं हेमतया यथा हेमैव मृद् भवेत् ॥

6.11.51

ज्ञातं ब्रह्मतया ब्रह्म ब्रह्मैव भवति क्षणात् ।
ज्ञातं हेमतया हेम हेमैव भवति क्षणात् ॥

6.11.52

ब्रह्मात्मा सर्वशक्तिर् हि यद् यथा भावयत्य् अलम् ।
निर्हेतुकं स्वयं शक्त्या तत् तथाशु प्रपश्यति ॥

6.11.53

अकर्मकर्तृकरणम् अकारणम् अनामयम् ।
स्वयंप्रभु महात्मैतद् ब्रह्म ब्रह्मविदो विदुः ॥

6.11.54

अपरिज्ञातम् अज्ञानम् अज्ञानम् इति कथ्यते ।
परिज्ञातं भवेज् ज्ञानम् अज्ञानपरिनाशनम् ॥

6.11.55

बन्धुर् एवापरिज्ञातो ह्य् अबन्धुर् इति कथ्यते ।
परिज्ञातो भवेद् बन्धुर् अबन्धुभ्रमनाशनात् ॥

6.11.56

इदं त्व् अयुक्तम् इत्य् अन्तर् ज्ञाते सोदेति भावना ।
तस्माद् अयुक्ताद् वैरस्याद् यया किल विरज्यते ॥

6.11.57

द्वैतं त्व् असत्यम् इत्य् अन्तर् ज्ञाते सोदेति भावना ।
तस्माद् द्वैतात् सुवैरस्याद् यया किल विरज्यते ॥

6.11.58

अयं नाहम् इति ज्ञाते स्फुटं सोदेति भावना ।
मिथ्याहङ्कारतादात्म्याद् यया नूनं विरज्यते ॥

6.11.59

ब्रह्मैवाहम् इति ज्ञाते सत्यं सोदेति भावना ।
तस्मिन् सत्ये निजे रूपे ययान्तः परिलीयते ॥

6.11.60

सर्वम् एवेह ब्रह्मेति ज्ञाते ब्रह्मैव शिष्यते ।
पीते ऽमृते ऽमृतमयः को नाम न भवेत् किल ॥

6.11.61

चेतो यद् एवाहरति तद् एवाशु भवत्य् अलम् ।
ब्रह्मैकाभ्यवहारेण ब्रह्मैव भवति क्षणात् ॥

6.11.62

यन् मिथ्या तन् मुधैवेति ज्ञाते सोदेति भावना ।
मिथ्याप्रतीतिर् अखिला यया नूनं प्रमार्ज्यते ॥

6.11.63

सर्वं सद् एवेति तते ज्ञाते सोदेति भावना ।
तस्मिन् सत्ये तते स्फारे ययान्तः प्राप्यते स्थितिः ॥

6.11.64

यथाभूते यथातत्त्वे यथारूपे यथास्थिते ।
भावना स्थितिम् आयाति नान्यत्राङ्ग कदाचन ॥

6.11.65

समाशतोपयाते ऽपि विस्मृते ऽपि निजे जने ।
अबन्धुवत् स्थिते ऽप्य् अन्तस् स्निह्यत्य् एव बलान् मनः ॥

6.11.66

जन्मान्तरशताभ्यस्ते स्थिते ऽपि हि भवभ्रमे ।
आत्मात्मन्य् एव विमले निर्वृतिं विन्दते परां ॥

6.11.67

नित्यम् अन्तिकसंस्थे ऽपि परे बन्धाव् इवाश्रिते ।
बन्धुभावं गते ऽप्य् अन्तर् मनो याति न निर्वृतिम् ॥

6.11.68

अत्यन्तगुप्ते ऽपि विषे भोजनस्थे ननु स्मृतिः ।
निवृत्तापि प्रवृत्तापि स्फुरत्य् एव चकोरवत् ॥

6.11.69

जन्मान्तरशताभ्यस्ते ऽप्य् आगते सौहृदं परम् ।
अनात्मभूते दृश्ये ऽस्मिन् नायम् आत्मा प्रसीदति ॥

6.11.70

अत्यन्तगुप्ते ऽप्य् अमृते भोजनस्थे ननु स्मृतिः ।
राजते रजनी मेघच्छन्ने ऽपीव निशाकरे ॥

6.11.71

नित्ये सत्ये तथाभूत आत्मात्मन्य् एव हृष्यति ।
नानाताचिरगुप्ते ऽपि लुप्ते ऽपि कलनामलैः ॥

6.11.72

तावद् आत्मात्मना यत्नात् प्रक्षाल्येदं मलं मलैः ।
दुर्भावनमलश् शास्त्रैश् शोध्यो यावद् भवेत् सितः ॥

6.11.73

शान्तदुर्वासने ज्ञानं पुण्यं लगति चेतसि ।
निष्कलङ्के सिते वस्त्रे यथा कुङ्कुमरञ्जनम् ॥

6.11.74

सर्वं सकलनिर्माणं कालेषु त्रिष्व् अपि स्थितम् ।
नित्यम् एकं समं शुद्धं ब्रह्मैवेति सुनिश्चयः ॥

6.11.75

सर्वथा सर्वदा सार्वं सर्वं घटपटादिमत् ।
जगज्जनितविस्तारं ब्रह्मेदम् इति वेद्म्य् अहम् ॥

6.11.76

न मे दुःखं न कर्माणि न ममेहा न वाञ्छितम् ।
समस् स्वस्थो विशोको ऽस्मि ब्रह्माहम् इति सत्यता ॥

6.11.77

अहं रक्तम् अहं मांसम् अहम् अस्थीन्य् अहं वपुः ।
चिद् अहं चेतनं चाहं ब्रह्माहम् इति सत्यता ॥

6.11.78

अहं तृणम् अहं वल्ली गुल्मो ऽहं काननान्य् अहम् ।
शैलसागरसार्थो ऽहं ब्रह्मैवेत्थं किल स्थितम् ॥

6.11.79

आदानदानसङ्कोचपूर्विका भूतशक्तयः ।
सर्वम् एव चिदात्मास्मि ब्रह्म व्याततरूपधृत् ॥

6.11.80

लतागुल्माङ्कुरादीनाम् अहम् उद्भावनैषणाः ।
चिदात्मान्तर्गतं शान्तं परं ब्रह्म रसात्मकम् ॥

6.11.81

यस्मिन् सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः ।
सो ऽयं चिद् अहम् एकात्मा परं ब्रह्मेति निश्चयः ॥

6.11.82

चिद् आत्मा ब्रह्म सत् सत्यम् ऋतं ज्ञ इति नामभिः ।
प्रोच्यते सर्वगं तत्त्वं चिन्मात्रं चेत्यवर्जितम् ॥

6.11.83

आभासमात्रम् अमलं सर्वभूतावबोधकम् ।
सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्य् अनुभूयते ॥

6.11.84

मनोबुद्धीन्द्रियव्रातसमस्तकलनाचितम् ।
भेदं त्यक्त्वा स्वम् आभासं चिद्ब्रह्माहम् अनामयम् ॥

6.11.85

शब्दादीनाम् अशेषाणां कारणानां जगत्स्थितेः ।
तत्त्वावभासकं स्वच्छं चिद्ब्रह्मास्मि न मे क्षयः ॥

6.11.86

अनारतगलत्स्वच्छचिद्धारावहनात्मकम् ।
आलोकस् समनोमौनं चिद्ब्रह्मास्म्य् अमृतं परम् ॥

6.11.87

अनारतगलद्रूपं नित्यं चानुभवामृतम् ।
अहर्निशं कचत्कान्ति चिद्ब्रह्माहम् अलेपकः ॥

6.11.88

सुषुप्तसदृशं शान्तम् आलोकविमलात्मकम् ।
सम्भोगान्तसमाभासं चिद्ब्रह्मास्मि विवासनः ॥

6.11.89

खण्डादिस्वादुसंवित्तिर् ईषद् यत्रानुतिष्ठति ।
चित्तादिष्व् अप्य् अबुद्धेषु तच् चिद्ब्रह्माहम् अच्युतः ॥

6.11.90

कान्तासंसक्तचित्तस्य चन्द्रे समुदिते सति ।
चन्द्रप्रत्ययसत्तात्म चिद्ब्रह्माहम् अनामयम् ॥

6.11.91

भूमिष्ठनरदृष्टीनां लग्नानां खे निशाकरे ।
या खस्था तन्तुवच् छक्तिस् तच् चिद्ब्रह्मास्मि निर्मलम् ॥

6.11.92

सुखदुःखादिकलनाविकलं निर्मनस् तथा ।
सत्यानुभवरूपात्म चिद्ब्रह्मात्मास्मि शाश्वतम् ॥

6.11.93

असंस्तुताध्वगालोके मनस्य् अन्यत्र संस्थिते ।
या प्रतीतिर् अनागस्का तच् चिद्ब्रह्मास्मि सर्वगः ॥

6.11.94

भूवार्यनिलबीजानां सम्बन्धे ऽङ्कुरकर्मसु ।
शक्तिर् उद्गमनी यान्तस् तच् चिद्ब्रह्माहम् आततम् ॥

6.11.95

खर्जूरनिम्बबिम्बानां स्वयम् आत्मनि तिष्ठताम् ।
यास्वादसत्ता लीनान्तस् तद् ब्रह्म चिद् अहं समम् ॥

6.11.96

खेदानन्दविमुक्तान्तस् संविन् निर्मननोदया ।
लाभालाभविधौ तुल्या चिद्ब्रह्मास्मि निरामयम् ॥

6.11.97

यावद् भूमेर् ध्रुवस् तावद् दृष्टिसूत्रं यद् आततम् ।
तन्मध्यसदृशं शान्तं निर्मलं चिद् अहं ततम् ॥

6.11.98

जाग्रत्य् अपि सुषुप्ते ऽपि स्वप्ने ऽपि सततोदितम् ।
तुर्यरूपम् अनाद्यन्तं चिद्ब्रह्माहम् अनामयः ॥

6.11.99

पुंसां क्षेत्रशतोत्थानाम् इक्षूणां स्वादुवत् स्थितः ।
सर्वेषाम् एकरूपो ऽन्तश् चिद्ब्रह्मास्मि समस् स्थितः ॥

6.11.100

सर्वगा प्रकृतौ सूक्ष्मरूपा भानोर् इव प्रभा ।
आलोककारिणी कान्ता चिद्ब्रह्मेदम् अहं ततम् ॥

6.11.101

सम्भोगानन्दलववद् अमृतास्वादशक्तिवत् ।
स्वानुभूत्येकमानो ऽन्तश् चिद्ब्रह्मास्मि सद् अव्ययः ॥

6.11.102

प्रोताङ्गम् अपि गुप्तस्थं देहे तन्तुर् बिसे यथा ।
छेदभेदे स्फुरद्रूपं चिद्ब्रह्माहम् अनामयः ॥

6.11.103

आक्रान्तभुवनाप्य् अभ्रमालेव स्पन्दशालिनी ।
दुर्लक्ष्याणुमयाकारा चिच्छक्तिर् अहम् आतता ॥

6.11.104

अनुभूतिमयान्तस्स्थस्नेहमात्रोपलक्षिता ।
क्षीरान्तर्घृतसत्तेव चिद् अहं क्षयवर्जिता ॥

6.11.105

कटकाङ्गदकेयूररचना तदतन्मयी ।
हेम्नीव संस्थिता देहे चिद् ब्रह्मात्मास्मि सर्वगम् ॥

6.11.106

पदार्थौघस्य शैलादेर् बहिर् अन्तश् च संस्थिता ।
सत्तासामान्यरूपेण या चित् साहम् अलेपकः ॥

6.11.107

सर्वासाम् अनुभूतीनाम् आदर्शो यो ह्य् अकृत्रिमः ।
अगम्यो मललेखानां तच् चित्तत्त्वम् अहं महत् ॥

6.11.108

सर्वसङ्कल्पफलदं सर्वतेजःप्रकाशकम् ।
सर्वोपादेयसीमान्तं चिदात्मानम् उपास्महे ॥

6.11.109

सर्वावयवविश्रान्तं समस्तावयवातिगम् ।
अनारतं कचद्रूपं चिदात्मानम् उपास्महे ॥

6.11.110

घटे पटे तटे कुड्ये स्वदमानं सदा तनौ ।
जाग्रत्य् अपि सुषुप्तस्थं चिदात्मानम् उपास्महे ॥

6.11.111

उष्णम् अग्नौ हिमे शीतं मृष्टम् अन्ने शितं क्षुरे ।
कृष्णं ध्वान्ते सितं चन्द्रे चिदात्मानम् उपास्महे ॥

6.11.112

मधुरादिषु माधुर्यं तीक्ष्णादिषु च तीक्ष्णताम् ।
गतं पदार्थशक्त्यर्थं चिदात्मानम् उपास्महे ॥

6.11.113

जाग्रत्स्वप्नसुषुप्तेषु तुर्ये तुर्यातिगे पदे ।
समं सदैव सर्वत्र चिदात्मानम् उपास्महे ॥

6.11.114

प्रशान्तसर्वसङ्कल्पं विगताखिलकौतुकम् ।
विरताशेषसंरम्भं चिदात्मानम् उपास्महे ॥

6.11.115

निष्कौतुकं निरालम्बं निरीहं सर्वम् एव च ।
निरंशं निरहङ्कारं चिदात्मानम् उपास्महे ॥

6.11.116

सर्वस्यान्ते स्थितं सर्वम् अप्य् अपारैकरूपिणम् ।
अपर्यन्तं चिदारम्भं चिदात्मानम् उपास्महे ॥

6.11.117

त्रैलोक्यदेहमुक्तानां तन्तुम् उत्तमम् आततम् ।
प्रसारसङ्कोचकरं चिदात्मानम् उपास्महे ॥

6.11.118

लीनम् अन्तर् बहिश् चोग्रं क्रोडीकृत्य जगत्खगम् ।
चित्रं बृहज्जालम् इव चिदात्मानम् उपास्महे ॥

6.11.119

सर्वं यत्रेदम् अस्त्य् एव नास्त्य् एव च मनाग् अपि ।
सदसद्भूतम् एकं तच् चिदात्मानम् उपास्महे ॥

6.11.120

परमं प्रत्ययं पूर्णम् आस्पदं सर्वसंविदाम् ।
सर्वाकारविहारस्थं चिदात्मानम् उपास्महे ॥

6.11.121

चर्ममर्मसिराबद्धदेहदुर्यन्त्रवाहकम् ।
अकलं सकलाधारं चिदात्मानम् उपास्महे ॥

6.11.122

निष्कलं षोडशकलं कलनाकारवर्जितम् ।
सर्वाकारं नकिञ्चिच् च चिदात्मानम् उपास्महे ॥

6.11.123

हृत्कण्ठतालुमध्यस्थं भ्रूनासापुटकोटिगम् ।
गमागमोत्कप्राणस्थं चिदात्मानम् उपास्महे ॥

6.11.124

हृत्पद्मकोटरान्तस्स्थं सर्वावयवकोशगम् ।
भुवनाडम्बरादर्शं चिदात्मानम् उपास्महे ॥

6.11.125

अशिरस्कहकारान्तम् आभास्वरम् अखण्डितम् ।
भूषणं सर्वभूतीनां चिदात्मानम् उपास्महे ॥

6.11.126

स्नेहाधारदशाशान्तिमुखवाताहतिभ्रमैः ।
युक्तं मुक्तं च चिद्दीपं बहिर् अन्तर् उपास्महे ॥

6.11.127

हृत्सरःपद्मिनीकन्दतन्तुं सर्वाङ्गरञ्जकम् ।
जनताजीवितोपायं चिदात्मानम् उपास्महे ॥

6.11.128

अक्षीरार्णवसम्भूतम् अशशाङ्काशयस्थितम् ।
अहार्यम् अमृतं सत्यं चिदात्मानम् उपास्महे ॥

6.11.129

शब्दरूपरसस्पर्शगन्धैर् आभासम् आगतम् ।
तेनैव रहितं शान्तं चिदात्मानम् उपास्महे ॥

6.11.130

महामहिम्ना सहितम् अहतं सर्वकर्तृभिः ।
कर्तृत्वेनाप्य् अकर्तारं चिदात्मानम् उपास्महे ॥

6.11.131

अखिलम् इदम् अहं ममैव सर्वं त्व् अहम् अपि नाहम् अथेतरच् च नाहम् ।
इति विदितवतो जगत् क्षतं मे स्थिरम् अथ वास्तु गतज्वरो भवामि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc