भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.12

6.12.1

इति निश्चयवन्तस् ते महान्तो विगतैनसः ।
सत्यासत्यपदे शान्ते समे सुखम् अवस्थिताः ॥

6.12.2

इति पूर्णधियो धीरास् समनीरागचेतसः ।
न निन्दन्ति न नन्दन्ति जीवितं मरणं तथा ॥

6.12.3

इत्य् अलङ्घ्यचमत्कारा नारायणभुजा इव ।
रेजुर् अस्खलिताकारा अपरा इव मेरवः ॥

6.12.4

रेमिरे वनषण्डेषु द्वीपेषु नगरेषु च ।
देवोपवनमालासु स्वर्गेषु च सुरा इव ॥

6.12.5

भ्रेमुः कुसुमपूर्णासु दोलालीलाबिलासु च ।
विचित्रवनलेखासु मेरुशृङ्गशिलासु च ॥

6.12.6

चक्रुर् विजितशत्रूणि चामरच्छत्रवन्ति च ।
विचित्रार्थानि राज्यानि चित्राचारमयानि च ॥

6.12.7

अनुजग्मुर् इमां सर्वां नानारसविचेष्टिताम् ।
श्रुतिस्मृत्युदितारम्भाम् इतिकर्तव्यताम् इह ॥

6.12.8

विलेसू रमणीयेषु ललनालास्यहारिषु ।
विहाराहाररम्येषु भोगाभोगेषु भूषिताः ॥

6.12.9

विचेरुश् चारुचूतासु मन्दारवलितासु च ।
अप्सरोगीतपूर्णासु नन्दनोद्यानभूमिषु ॥

6.12.10

ऊषुर् आचारपूतेषु विश्रान्ताखिलजन्तुषु ।
यज्ञक्रियाकरालेषु गार्हस्थ्येषु यथाक्रमम् ॥

6.12.11

तेरुर् हतगजेन्द्रासु भ्रान्तभूरिशरासु च ।
भेरीभाङ्कारभीमासु सङ्ग्रामार्णववीचिषु ॥

6.12.12

तस्थुः पुरुषचिन्तासु हृतचित्तोद्धतासु च ।
संरम्भक्षोभरौद्रासु सर्वासु द्वन्द्वनीतिषु ॥

6.12.13

मनस् तेषां तु नीरागम् अनुपाधि गतभ्रमम् ।
असक्तम् उत्तमं शान्तं परं सत्त्वपदं गतम् ॥

6.12.14

न ममज्ज क्वचिद् अपि सङ्कटेषु महत्सु च ।
मुहुर् अप्य् उपयातेषु कुलशैलस् सरस्स्व् इव ॥

6.12.15

नोल्ललास विलासिन्या श्रिया परमकान्तया ।
परिपूर्णेन्दुलक्ष्म्येव जलराशी रघूद्वह ॥

6.12.16

न मम्लौ दुःखशोषेण ग्रीष्मेणेव वनस्थलम् ।
जहर्ष च न भोगौघैर् अवश्यायैर् इवौषधिः ॥

6.12.17

ते हि केवलम् अव्यग्राः कुर्वन्तः कार्यपञ्जरम् ।
इष्टानिष्टफलं राम नाभिलेषुर् न तत्यजुः ॥

6.12.18

नोदगुः कार्यसम्पत्ताव् आक्रान्ता नास्तम् आययुः ।
जहृषुर् न सुखप्राप्तौ मम्लुर् नैव च सङ्कटे ॥

6.12.19

मुमुहुर् न विमोहेषु ममज्जुर् न विपत्क्रमे ।
शुशुचुर् न शुचा शोके रुरुदुर् न भवान् इव ॥

6.12.20

प्रकृताचारसम्प्राप्तं कुर्वन्तः कर्म केवलम् ।
स्थिता विगतसंरम्भम् अपरा इव मेरवः ॥

6.12.21

तां त्वं दृष्टिम् अवष्टभ्य राघवाघविघातिनीम् ।
अनहङ्कृत्यलङ्कारो विहरेह यथासुखम् ॥

6.12.22

यथाभूताम् इमाम् एवं पश्यन् सर्गपरम्पराम् ।
मेरुस्थिरो ऽब्धिगम्भीरस् समास्स्व विगतभ्रमः ॥

6.12.23

चिन्मात्रं सर्वम् एवेदम् इत्थम् आभासतां गतम् ।
नेह सत्यम् असत्यं वा क्वचिद् अप्य् अस्ति किञ्चन ॥

6.12.24

महत्ताम् अलम् आलम्ब्य त्यक्त्वेदम् अवहेलया ।
असक्तबुद्धिस् सर्वत्र भव भव्य भवक्षयी ॥

6.12.25

किं रोदिषि घनोद्वेगं मूढवच् चानुशोचसि ।
भ्रमस्य् उद्भ्रान्तचित्तं च सोम्यावर्ते तृणं यथा ॥

6.12.26

अहो नु भगवन् नूनं सम्यग्रूपं विलक्षये ।
त्वत्प्रसादात् प्रबुद्धो ऽस्मि सूर्यासङ्गाद् इवाम्बुजम् ॥

6.12.27

भ्रान्तिर् अस्तङ्गता नूनं मिहिका शरदीव मे ।
संशान्ताखिलसन्देहः करिष्ये वचनं तव ॥

6.12.28

व्यपगतमदमोहो मानमात्सर्यमुक्तश् चिरतरम् उदितात्मा शान्तशोकश् चिरेण ।
पुनर् असुखम् अगच्छन् स्वच्छयैकान्तबुद्ध्या वदसि यद् असि साधो तत् करिष्ये विशङ्कम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc