भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.109

6.109.1

एवं स्थिते महाभाग कथम् उद्वेगम् ईदृशम् ।
लब्धवान् असि देवो ऽपि स्वर्गाद् अपि सुखास्पदात् ॥

6.109.2

शृणु कार्यम् इदं चित्रं मदीयं वसुधाधिप ।
कथयामि तवाशेषं स्वर्गे यद् वृत्तम् अद्य मे ॥

6.109.3

सुहृद्य् आवेदितं दुःखं परम् आयाति तानवम् ।
घनं जडं कृष्णम् अपि मुक्तवृष्टिर् इवाम्बुदः ॥

6.109.4

सुहृदा पृच्छता साधु चेतो याति प्रसन्नताम् ।
स्निह्यतोपगतेनाशु कतकेन जलं यथा ॥

6.109.5

अहं तावद् इतो यातो भवते पुष्पमञ्जरीम् ।
दत्त्वा गगनम् उल्लङ्घ्य सम्प्राप्तश् च त्रिविष्टपम् ॥

6.109.6

तत्र पित्रा सहेन्द्रस्य सभास्थाने यथाक्रमम् ।
स्थित्वोत्थाय तथोत्थानकाले पित्रा विसर्जितः ॥

6.109.7

इहागन्तुम् अहं स्वर्गं त्यक्त्वा सम्प्राप्तवान् नभः ।
दिवाकरहयैस् सार्धं वहाम्य् अनिलवर्त्मनि ॥

6.109.8

अथैकत्र गतो भानुर् एकेनान्येन वर्त्मना ।
आगच्छाम्य् अहम् आकाशसागरात् पतिताकृतिः ॥

6.109.9

अथाग्रे वारिपूर्णानां मेघानां मध्यवर्त्मना ।
अपश्यं मुनिम् आयान्तम् अहं दुर्वाससं जवात् ॥

6.109.10

पयोधरपटच्छन्नं विद्युद्वलयभूषितम् ।
अभिसारिकया तुल्यं धाराधौताङ्गसञ्चयम् ॥

6.109.11

स्थितं सुमेघच्छायायां श्यामायां वसुधातले ।
वेगेनाभिसरन्तं तं तपोलक्ष्मीम् इव प्रियाम् ॥

6.109.12

तस्य कृत्वा नमस्कारम् उक्तं च वहता मया ।
मुने नीलाब्दवस्त्रस् त्वम् अभिसारिकया समः ॥

6.109.13

इत्य् आकर्ण्य चुकोपासौ मयि मानद मानहा ।
विस्फार्य रक्ते नयने प्राह गम्भीरनिस्स्वनम् ॥

6.109.14

पौत्रो ऽस्मि पद्मजस्येति गर्वितस् त्वं किम् ईदृशः ।
भव्या हि नतिम् आयान्ति गुणैर् वृक्षाः फलैर् इव ॥

6.109.15

वेश्याभिसारिकारूपो भवान् इत्य् अशुभं वचः ।
मयि वक्षि दुराचार मूढ देवकुमारक ॥

6.109.16

स्तनकेशवती कान्ता हावभावविकारिणी ।
गच्छानेन दुरुक्तेन रात्रौ वेश्या भविष्यसि ॥

6.109.17

इति श्रुत्वाशुभं वाक्यम् उज्झितं जर्जरद्विजात् ।
विमृष्यामि मनाग् यावत् तावद् अन्तर्हितो मुनिः ॥

6.109.18

इत्य् उद्विग्नमनास् साधो सम्प्राप्तो ऽस्मि नभस्तलात् ।
एतत् ते कथितं सर्वं सम्पन्नो ऽस्मि निशाङ्गना ॥

6.109.19

अतिवाह्यं दिनान्तेषु स्त्रीत्वम् एतन् मया कथम् ।
योनिस्तनवता रात्रौ वक्तव्यं किं मया पितुः ॥

6.109.20

संसृतौ भवितव्यानाम् अहो नु विषमा गतिः ।
अहम् अप्य् अन्यवद् दैवाद् यूनाम् आमिषतां गतः ॥

6.109.21

कष्टं मदपहारेण कलहो जायते ऽधुना ।
दिवि देवकुमाराणां कामाकुलधियाम् इह ॥

6.109.22

गुरुदेवद्विजातीनां लज्जापरवशात्मना ।
कथम् अग्रे मया सम्यक् स्थातव्यं यामिनीस्त्रिया ॥

6.109.23

इत्य् उक्त्वा क्षणम् एकं स तूष्णीं स्थित्वा मुनेस् सुतः ।
धैर्यम् आलम्ब्य कुम्भो ऽत्र पुनर् आह रघूद्वह ॥

6.109.24

किम् अज्ञ इव शोचामि किं मम क्षतम् आत्मनः ।
यथागतम् अयं देहो मत्तो ऽन्यो ऽनुभविष्यति ॥

6.109.25

परिदेवनया को ऽर्थो देवपुत्र तवैतया ।
यद् आयाति तद् आयातु देहस्यात्मा न लिप्यते ॥

6.109.26

कानिचिद् यानि दुःखानि सुखानि विहितानि वा ।
तानि सर्वाणि देहस्य देहिनो न तु कानिचित् ॥

6.109.27

यदि त्वम् अपि कार्याणाम् अखेदार्हो ऽपि खिद्यसि ।
तद् अन्येषाम् उपायस् स्यात् क इवागमभूषण ॥

6.109.28

खेदे ऽखेदोचितं वाच्यम् इति किं च त्वम् उक्तवान् ।
इदानीं समताम् एत्य तिष्ठाखिन्नो यथास्थितः ॥

6.109.29

ताव् एवमादिभिर् वाक्यैर् अन्योऽन्याश्वासनं स्वयम् ।
कृत्वा स्थितौ वने स्निग्धौ सुहृदौ खेदिनौ मिथः ॥

6.109.30

अथार्कस् तस्य कुम्भस्य स्त्रीत्वम् उत्पादयन्न् इव ।
जगामास्तं जगद्दीपो दीपस् स्नेहक्षयाद् इव ॥

6.109.31

व्यवहारभरैस् सार्धं पद्मास् सङ्कोचम् आययुः ।
मार्गाश् च पथिकैस् सार्धं पान्थस्त्रीहृदयानि च ॥

6.109.32

दाशवद् विहगान् सर्वान् कुर्वद् एकत्र पुञ्जितान् ।
तारकारत्नजालाढ्यं भुवनं श्यामतां ययौ ॥

6.109.33

खं हसन्न् इव ताराढ्यं विकासं कुमुदाकरः ।
ययाव् उन्नादचक्राह्वं भ्रमद्भ्रमरपेटकः ॥

6.109.34

सुहृदौ ताव् अथोत्थाय सन्ध्याम् उद्यन्निशाकराम् ।
वन्दयित्वा तथा कृत्वा जप्यं गुल्मान्तरे स्थितौ ॥

6.109.35

ततः कुम्भश् शनैस् तत्र स्त्रैणम् अभ्याहरन् वपुः ।
शिखिध्वजं पुरस्संस्थं प्रोवाच गलदक्षरम् ॥

6.109.36

पतामीव स्फुरामीव द्रवामीवाङ्गयष्टिभिः ।
लज्जयेव च हे राजन् मन्ये स्त्रीत्वं व्रजाम्य् अहम् ॥

6.109.37

पश्येमे परिवर्धन्ते राजन् मम शिरोरुहाः ।
प्रस्फुरत्तारकामाला दिनान्ते तिमिरा इव ॥

6.109.38

पश्येमौ मम जायेते प्रोन्मुखाव् उरसि स्तनौ ।
कोरकाव् इव पद्मिन्या वसन्ते गगनोन्मुखौ ॥

6.109.39

आगुल्फम् एव लम्बानि सम्पद्यन्ते ऽम्बराणि मे ।
देहाद् एव सखे पश्य स्त्रिया इव शनैश् शनैः ॥

6.109.40

भूषणान्य् उरुरत्नानि माल्यानि विविधानि च ।
पश्येमान्य् अङ्ग जायन्ते स्वाङ्गेभ्यो वृक्षपुष्पवत् ॥

6.109.41

पश्यायं स्वयम् एवोद्यच्चन्द्रांशुभरसुन्दरः ।
मूर्ध्नि पट्टांशुको जातो नीहारो ऽद्राव् इवाङ्ग मे ॥

6.109.42

सर्वाणि कान्तालिङ्गानि जातानि मम मानद ।
हा धिक् कष्टं विषादो मे किं करोम्य् अङ्गनास्म्य् अहम् ॥

6.109.43

हा धिक् कष्टम् अहो साधो स्थित एवाहम् अङ्गना ।
संविदानुभवाम्य् अन्तर् नितम्बं जघनान्वितम् ॥

6.109.44

विपिने कुम्भ इत्य् उक्त्वा तूष्णीं खिन्नो बभूव ह ।
राजापि च तम् आलोक्य तथैवासीद् विषण्णधीः ॥

6.109.45

मुहूर्तमात्रेणोवाच शिखिध्वज इदं वचः ।
कष्टं सो ऽयं महासत्त्वस् सम्पन्नो वरवर्णिनी ॥

6.109.46

साधो विदितवेद्यस् त्वं जानासि नियतेर् गतिम् ।
अवश्यभाविन्य् अर्थे ऽस्मिन् मा खिन्नहृदयो भव ॥

6.109.47

आपतन्ति दशास् तात सुधियां देहमात्रके ।
न चेतस्य् अधियां त्व् एताश् चित्तं यान्ति सदेहकम् ॥

6.109.48

एवम् अस्त्व् अनुतिष्ठामि यामिनीस्त्रीत्वम् आत्मनः ।
न खेदम् अनुगच्छामि नियतिः केन लङ्घ्यते ॥

6.109.49

इति निर्णीय तौ खेदं तं नीत्वा तनुतां मिथः ।
एकतल्पे निशां तूष्णीं नीतवन्तौ चिरेण ताम् ॥

6.109.50

अथ प्रभाते तत् स्वैरं वपुर् उत्सृज्य यौवतम् ।
बभूव कुम्भः कुम्भाभकुचप्रोज्झितमूर्तिमान् ॥

6.109.51

इति सा राजमहिषी चूडाला वरवर्णिनी ।
कुम्भत्वम् आस्थिता भर्तुः पश्चात् स्त्रीत्वम् उपागता ॥

6.109.52

विजहार वनान्तेषु कुमारी धर्मिणी निशि ।
कुम्भरूपधरा चाह्नि भर्त्रा मित्रेण संयुता ॥

6.109.53

कैलासमन्दरसुमेरुमहेन्द्रसह्यसानुष्व् अविस्खलितयोगगमागमा सा ।
सार्धं प्रियेण सुहृदा विभुना यथेच्छं स्रग्दामहारवलिता विजहार नारी ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc