भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.110

6.110.1

ततः कतिपयेष्व् एव दिवसेषु गतेषु सा ।
इदं प्रोवाच भर्तारं कुम्भरूपधरा सती ॥

6.110.2

राजन् राजीवपत्त्राक्ष ममेदं वचनं शृणु ।
निशायां प्रत्यहं तावत् स्थित एवाहम् अङ्गना ॥

6.110.3

तद् इच्छाम्य् अङ्गनाधर्मं निपुणीकर्तुम् ईदृशम् ।
भर्त्रे कस्मैचिद् आत्मानं विवाहेन ददाम्य् अहम् ॥

6.110.4

तद् भवान् एव मे भर्ता रोचते भुवनत्रये ।
गृहाण मां विवाहेन भार्यात्वे निशि सर्वदा ॥

6.110.5

अयत्नोपनतं साधो प्रियेण सुहृदा सह ।
स्त्रीसुखं भोक्तुम् इच्छामि मा मे विघ्नकरो भव ॥

6.110.6

क्रमप्रवृत्तम् आ सृष्टेस् सुखसाध्यं मनोरमम् ।
प्रकृतं कुर्वतः कार्यं दोषः क इव जायते ॥

6.110.7

इच्छानिच्छादृशोर् ऐक्यात् समत्वात् सर्ववस्तुषु ।
वयं न सेच्छा नानिच्छाः कुर्वस् तेनैतद् ईप्सितम् ॥

6.110.8

कृतेनानेन कार्येण न शुभं नाशुभं सखे ।
पश्यामि तन् महाबुद्धे यथेच्छसि तथा कुरु ॥

6.110.9

समतां सम्प्रयातेन चेतसेदं जगत्त्रयम् ।
खरूपम् एव पश्यामि यथेच्छसि तथाचर ॥

6.110.10

यद्य् एवं तन् महीपाल लग्नम् अद्यैव शोभनम् ।
राकेयं श्रावणस्यास्य ह्यस् सर्वं गणितं मया ॥

6.110.11

रात्राव् अद्योदिते चन्द्रे परिपूर्णकलामले ।
जन्यत्रं नौ महाबाहो द्वयोर् एव भविष्यति ॥

6.110.12

महेन्द्राद्रिशिरश्शृङ्गसानाव् अस्मिन् मनोरमे ।
रत्नदीपप्रकाशाढ्यमणिमन्दिरमण्डिते ॥

6.110.13

पुष्पभारानतोत्तुङ्गवृक्षजन्यविराजिते ।
वनपुष्पलतालास्यनारीनृत्तमनोहरे ॥

6.110.14

निशि व्योमगतास् तारा भर्त्रा पूर्णेन्दुना सह ।
आवयोः परिपश्यन्तु कर्णान्तागतलोचनाः ॥

6.110.15

उत्तिष्ठात्मविवाहार्थं कुर्वः काननकोटरात् ।
राजंश् चन्दनपुष्पादिसम्भारं रत्नसंयुतम् ॥

6.110.16

इत्य् उक्त्वा कुम्भ उत्थाय सह तेन महीभृता ।
कुसुमावचयं चक्रे तथा रत्नादिसञ्चयम् ॥

6.110.17

ततो मुहूर्तमात्रेण रत्नसानौ समे शुभे ।
समालम्भनपुष्पाढ्यास् ताभ्यां वै राशयः कृताः ॥

6.110.18

हाराम्बरमणीन्द्रादिराशयस् ते विरेजिरे ।
सौभाग्यस्येव कामेन कोशाः कालेन सम्भृताः ॥

6.110.19

तथा जन्यत्रसम्भारं कृत्वा काञ्चनकन्दरे ।
ययतुस् तौ महामित्रे स्नातुं मन्दाकिनीं नदीम् ॥

6.110.20

तत्रैनं स्नपयाम् आस महाराजम् अथादरात् ।
गजकुम्भोपमस्कन्धं कुम्भो मङ्गलपूर्वकम् ॥

6.110.21

भविष्यद्वनितारूपां भविष्यत्पतितां गतः ।
चूडालां स्नपयाम् आस कुम्भरूपधरां प्रियाम् ॥

6.110.22

पूजयाम् आसतुस् स्नातौ तत्र देवान् पितॄन् मुनीन् ।
यथा क्रियाफले ऽनिच्छौ क्रियात्यागे तथैव तौ ॥

6.110.23

नित्यं ज्ञानरसातृप्तौ व्यवस्थार्थं जगत्स्थितेः ।
चक्राते भोजनं भव्यौ ताव् अन्योऽन्यसमीरितौ ॥

6.110.24

कल्पवृक्षदुगूलानि परिधाय सितानि तौ ।
फलानि भुक्त्वा जन्यत्रस्थानम् आययतुः क्रमात् ॥

6.110.25

एतावतात्र कालेन तयोर् जन्यत्रसोत्कयोः ।
प्रियं कर्तुम् इवास्ताद्रौ झगित्य् एवाविशद् रविः ॥

6.110.26

अथ सन्ध्याक्रमे वृत्ते कृते जप्याघमर्षणे ।
विवाहदर्शनायेव ताराजाले खम् आगते ॥

6.110.27

मिथुनैकसखी यामा कुमुदोत्करहासिनी ।
प्रालेयजालप्रकरं विकिरन्ती समाययौ ॥

6.110.28

रत्नदीपान् बहून् सम्यक् कुम्भस् सानाव् अयोजयत् ।
ज्योतींषीन्द्वर्कयुक्तानि पद्मोद्भव इवाम्बरात् ॥

6.110.29

भूषयाम् आस राजानं स्त्रीत्वं गच्छन् निशामुखे ।
चन्दनागुरुकर्पूरपूरैर् मृगजकुङ्कुमैः ॥

6.110.30

हारकेयूरकटकैस् तथा कल्पलतांशुकैः ।
स्रग्दामैर् अवतंसैश् च माल्यैश् च विविधोम्भितैः ॥

6.110.31

तथा कल्पलतागुच्छैर् मन्दारैः पारिजातकैः ।
सन्तानैर् बहुरत्नैश् च मौलिना चेन्दुरूपिणा ॥

6.110.32

एतावताथ कालेन वधूत्वं कुम्भ आययौ ।
घनस्तनतटाक्रान्तो बभूवाशु विलासवान् ॥

6.110.33

इदं सञ्चिन्तयाम् आस सम्पन्नो ऽयम् अहं वधूः ।
कामायात्मा मयादेयः कार्यं कालोचितं किल ॥

6.110.34

इयम् अस्मि वधूः कान्ता भर्तायं मे पुरस् स्थितः ।
गृहाण काम माम् एहि कालो ऽयं तव हृच्छय ॥

6.110.35

इति सञ्चिन्त्य भर्तारम् अग्रस्थम् अभिमण्डितम् ।
उदयन्तम् इवादित्यं रतिः कामम् इवाह सा ॥

6.110.36

अहं मदनिका नाम भार्यास्मि तव मानद ।
पतये ते प्रणामो ऽयं सस्नेहं क्रियते मया ॥

6.110.37

इत्य् उक्त्वा सानवद्याङ्गी लज्जावनमितानना ।
लोलालकेन शिरसा प्रणनाम नयात् पतिम् ॥

6.110.38

उवाचेदं च हे नाथ त्वं मां भूषय भूषणैः ।
क्रमेणाग्निं च सञ्ज्वाल्य मत्पाणिग्रहणं कुरु ॥

6.110.39

राजसे ऽतितरां नाथ मां करोषि स्मरातुराम् ।
रतेर् विवाहे मदनम् अभिभूयाधितिष्ठसि ॥

6.110.40

इन्दोर् इवांशुजालानि राजन् माल्यानि भान्ति ते ।
मेरुगङ्गाप्रवाहाभां धत्ते हारस् तवोरसि ॥

6.110.41

मन्दारकुसुमप्रोतैः कुन्तलैर् नृप राजसे ।
कनकाब्जम् इवालोलैर् भृङ्गैः केसरधूसरैः ॥

6.110.42

रत्नांशुजालैः कुसुमैश् श्रिया स्थैर्येण तेजसा ।
उन्नत्या च विभो मेरुम् अभिभूयावतिष्ठसे ॥

6.110.43

एवमादि वदन्तौ तौ भविष्यन्नवदम्पती ।
प्रच्छन्नपूर्वदाम्पत्यौ मिथस् तुष्टौ बभूवतुः ॥

6.110.44

महाराज्ञीं मदनिकां महाराजश् शिखिध्वजः ।
काञ्चनामलपर्यङ्के नियोज्याभूषयत् स्वयम् ॥

6.110.45

अवतंसैस् तथा माल्यैर् मणिमुक्ताविभूषणैः ।
वस्त्रैर् विलेपनैः पुष्पैर् उचितस्थानयोजितैः ॥

6.110.46

सा बभौ भूषिता तन्वी मदनी मददायिनी ।
गिरिजेव विवाहोत्का कामकान्तेव कामिनी ॥

6.110.47

महाराजो महाराज्ञीं भूषयित्वेदम् आह ताम् ।
राजसे मृगशावाक्षि लक्ष्मीर् इव नवोत्थिता ॥

6.110.48

शक्रेण सह यच् छच्या यल् लक्ष्म्या हरिणा सह ।
यद् गौर्याश् शम्भुना सार्धं तत् ते भवतु मङ्गलम् ॥

6.110.49

पद्मकन्दाङ्कुररदा लोलनीलोत्पलेक्षणा ।
आमोदसुभगाकारा त्वं स्थिता पद्मिनीसमा ॥

6.110.50

सुरक्तपल्लवकरा स्तबकस्तनधारिणी ।
त्वम् एव फलदा मन्ये कामकल्पतरोर् लता ॥

6.110.51

हिमशीतावदाताङ्गी ज्योत्स्नाप्रसरहासिनी ।
पूर्णेन्दुश्रीर् इवोद्युक्ता दृष्टैवाह्लादयस्य् अलम् ॥

6.110.52

तद् उत्तिष्ठ वरारोहे वेदीं वैवाहिकीं स्वयम् ।
रत्नपुष्पलताजालै रचयावो यथाक्रमम् ॥

6.110.53

इत्य् उक्त्वा दम्पती कान्तौ रचयाम् आसतुस् तदा ।
वेदीम् आत्मविवाहाय महेन्द्रमणिकन्दरे ॥

6.110.54

मुक्ताजालैस् सझाङ्कारैः पुष्पोत्तंसैस् सषट्पदैः ।
रत्नमाल्यैस् सटाङ्कारैर् वैजयन्तीपटैश् चलैः ॥

6.110.55

कल्पवृक्षलतासूत्रैः कल्पस्तबकमण्डलैः ।
कल्पपादपपट्टैश् च कल्पद्रुमफलोत्करैः ॥

6.110.56

देवदारुलताजालैः काण्डप्रतिसराङ्कितैः ।
मुक्ताकुसुमलाजानां प्रकरैस् तारकोपमैः ॥

6.110.57

चतुर्दिक्कं चतुर्भिश् च नारिकेलमहाफलैः ।
पूर्णकुम्भतया गाङ्गवारिपूरैः प्रकल्पितैः ॥

6.110.58

ज्वलयाम् आसतुस् तस्यां मध्ये चन्दनदारुभिः ।
ज्वलनं ज्वलितज्वालं दक्षिणस्थप्रदक्षिणम् ॥

6.110.59

पूर्वाभिमुखम् अग्नेस् ताव् अग्रे पल्लवविष्टरे ।
नियोज्य दम्पती कान्तौ तयोर् विविशतुस् स्वयम् ॥

6.110.60

स हुत्वा तिललाजादि पावकाय शिखिध्वजः ।
उत्थायोत्थाप्य कान्तां च पाणिभ्यां स्वयम् आददे ॥

6.110.61

अन्योऽन्यं शोभमानौ ताव् अन्याव् इव नवौ शिवौ ।
चक्रतुर् दम्पती तस्य पावकस्य प्रदक्षिणम् ॥

6.110.62

स्वदायं ज्ञानसर्वस्वं हृदयं प्रेम चाचलम् ।
ददतुस् तौ मिथो मान्यौ स्मितकान्तमुखश्रियौ ॥

6.110.63

प्रदक्षिणत्रयं कृत्वा लाजान् सन्त्यज्य वह्नये ।
मद्भार्याम् अम्बराद् दृष्ट्वा करौ तत्यजतुः क्रमात् ॥

6.110.64

स्मयमानमुखौ कान्तौ चन्द्राव् इव नवोदितौ ।
पूर्वोपरचिते पुष्पतल्पे विविशतुर् नवे ॥

6.110.65

एतस्मिन्न् अन्तरे चन्द्रश् चतुर्भागं नभस्तलात् ।
शनैर् आक्रमयाम् आस शोभां द्रष्टुम् इवैतयोः ॥

6.110.66

तस्मिन् सानौ लताच्छिद्रैर् द्रष्टुं दृष्टीर् इवाभितः ।
लोलैस् सञ्चारयाम् आस करान् इन्दुर् वराङ्गने ॥

6.110.67

तैस् तैस् तत्र कथालापैर् इन्दाव् अभ्युदिते तथा ।
ताव् आसां चक्रतुः कान्तौ दम्पती तु मुहूर्तकम् ॥

6.110.68

अथोत्थाय ज्वलद्रत्नदीपां काञ्चनकन्दराम् ।
स्वयं पूर्वोपरचितां गुप्तां विविशतुः प्रियौ ॥

6.110.69

नवं ददृशतुस् तत्र तल्पं कुसुमकल्पितम् ।
परितो व्याप्तम् उत्फुल्लैर् हेमपङ्कजराशिभिः ॥

6.110.70

मन्दारादिभिर् अन्यैश् च पुष्पैर् म्लानिविवर्जितैः ।
उच्चकैः पुंप्रमाणेन निर्मितं कुसुमैस् समैः ॥

6.110.71

दीर्घेन्दुबिम्बप्रतिमं तुषारस्थलशीतलम् ।
क्षीरोदजलधाराभं ज्योत्स्नासम्पिण्डपाण्डुरम् ॥

6.110.72

प्रतिबिम्बम् अनन्तस्य रत्नभित्ताव् इव स्थितम् ।
सुगन्धम् उन्नतं कान्तं विशरारुतयोज्झितम् ॥

6.110.73

मिथुनं पुष्पराशौ तत् पपात धवलामले ।
तस्मिन् समसमाभोगे क्षीरोदे मन्दरो यथा ॥

6.110.74

तैस् तैस् ततः प्रणतिपेशलवाग्विलासैस् तत्कालकार्यसुभगैः प्रणयोपचारैः ।
सत्कान्तयोर् नवनवेन तयोस् सुखेन दीर्घा मुहूर्त इव सा रजनी जगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc