मोक्षोपाय · अध्याय 6.108
इत्य् अध्यात्मविचित्राभिः कथाभिस् तौ परस्परम् ।
आसतां वेद्यवेत्तारौ मुहूर्तत्रितयं वने ॥
तत उत्थाय कस्मिंश्चित् स्नातौ सरससारसे ।
सरोवरे वने चैव विहृतौ नन्दनोपमे ॥
तेनाचारेण ताभिश् च कथाभिस् तौ वनेचरौ ।
नीतवन्तौ दिनान्य् अष्टौ तासु काननवीथिषु ॥
अथ कुम्भ उवाचान्यद् वनं यावो गिराव् इति ।
तद् ओम् इति नृपो मत्वा ताव् उभौ प्रविचेरतुः ॥
वनान्य् अनेकरूपाणि जङ्गलानि तटानि च ।
सरांसि गुल्मजालानि शृङ्गाणि गहनानि च ॥
नदीर् देशांस् तथा ग्रामान् नगराणि पुराणि च ।
मरून् घोरान् गिरीन् कुञ्जांस् तीर्थान्य् आयतनानि च ॥
समम् एव समस्नेहौ समवेषौ स्थिताव् उभौ ।
समसत्तौ समोत्साहौ सस्नतुस् तस्थतुस् तथा ॥
आनर्चतुः पितॄन् देवान् बुभुजाते च राघव ।
समं तल्पे च शिश्याते समबुद्धी बभूवतुः ॥
तमालवनषण्डेषु मन्दारगहनेषु च ।
दम्पती स्निग्धहृदयौ सुहृदौ तौ विरेजतुः ॥
इदं ग्राह्यम् इदं नेति विकल्पकलना मनः ।
न जहार तयो राम वात्येव विबुधाचलम् ॥
विचेरतुस् तौ सुहृदौ क्वचिद् धूलिविधूसरौ ।
क्वचिच् चन्दनदिग्धाङ्गौ क्वचिद् भस्मानुरञ्जितौ ॥
क्वचिद् दिव्याम्बरधरौ चीराम्बरधरौ क्वचित् ।
क्वचित् पल्लवसञ्छन्नौ क्वचित् कुसुममण्डितौ ॥
दिनैः कतिपयैर् एव गतचित्ततया तया ।
सत्त्वोदात्ततया चैव राजा कुम्भवद् आबभौ ॥
अथ तं सुरगर्भाभं चूडाला सा शिखिध्वजम् ।
दृष्ट्वा शोभाम् उपगतं चिन्तयाम् आस मानिनी ॥
अयं पतिर् अनिन्द्यात्मा तथेमा वनभूमयः ।
इयं स्थितिर् अनायासा यो न कामी स वञ्चितः ॥
जीवन्मुक्तधियां भोगे यथाप्राप्तम् अतिष्ठताम् ।
एकग्रहात्मिका तुच्छा मूढतैवोदिता भवेत् ॥
निजः पतिर् अनिन्द्यात्मा निराधित्वं नवं वयः ।
गृहाणि पुष्पजालानि सा हता या न कामिनी ॥
वनपुष्पलतागेहे स्वायत्ते भर्तरि प्रिये ।
रमते या न निर्दुःखा सा हतैव दुरङ्गना ॥
वश्यं विवाहितं कान्तं पतिम् आसाद्य निर्जने ।
स्त्री सती या न रमते तां धिग् अस्तु दुरङ्गनाम् ॥
समुज्झता यथाप्राप्तम् अपि वेद्यविदा सता ।
अनिन्द्यं स्वम् उदारार्थं किं तज्ज्ञेन कृतं भवेत् ॥
तत् कञ्चिद् रचयाम्य् आशु प्रपञ्चं प्रज्ञया नवम् ।
येनायं भूपतिर् भर्ता रमते मयि मानदः ॥
इति सञ्चिन्त्य चूडाला कुम्भवेषधरा पतिम् ।
प्राह काननगुल्मस्था कोकिलं कोकिला यथा ॥
चैत्रमासस्य शुक्ले ऽयं प्रतिपद्दिवसस् सुहृत् ।
अद्यास्थानं महारम्भं स्वर्गे भवति वै हरेः ॥
सन्निधानं मया तत्र कर्तव्यं पितुर् अग्रतः ।
यथास्थिता हि नियतिर् न सन्त्याज्या कदाचन ॥
प्रतिपालयितव्यं मे त्वयेहाद्य वनावनौ ।
क्रीडता ध्यानपुष्पाभ्यां समुद्वेगम् अगच्छता ॥
आगच्छामि दिनान्ते ऽद्य निर्विकल्पं नभस्तलात् ।
स्वर्गाद् अतितराम् एव त्वत्सङ्गो मम तुष्टये ॥
इत्य् उक्त्वा मञ्जरीं कुम्भो ददौ मित्राय कौसुमीम् ।
प्रीतये स्वाम् इव प्रीतिं कान्तां नन्दनवृक्षजाम् ॥
आगन्तव्यं त्वया शीघ्रम् एवं वदति भूपतौ ।
पुप्लुवे च वनाद् व्योम शरन्मुग्धपयोदवत् ॥
पुष्पजालं जहौ व्योम व्रजन् कुसुमदामजम् ।
विसारि वनवातेन हिमं हैम इवाम्बुदः ॥
शिखिध्वजो व्रजन्तं तं ददर्शादर्शनं गतम् ।
उन्निद्रो ऽब्दं यथा बर्ही सत्प्रीतिर् हि सुदुस्त्यजा ॥
शिखिध्वजदृशाम् अन्ते व्योम्नि कुम्भवपुर् जहौ ।
सानावर्तेव वारिश्रीर् मुग्धा स्वं रूपम् आययौ ॥
प्राप मञ्जरिताकारकल्पवृक्षोपमं पुरम् ।
स्फुरत्पताकम् आत्मीयं स्वर्गरम्यं दिवः पथा ॥
अन्तःपुरम् अदृश्यैव विवेश ललनाकुलम् ।
मधुमासमहालक्ष्मीर् लसल्लतम् इव द्रुमम् ॥
राजकार्याण्य् अशेषाणि तत्र सम्पाद्य सत्वरम् ।
शिखिध्वजवनं गन्तुं पुनर् आपुप्लुवे नभः ॥
उल्लङ्घ्य गगनाध्वानं समं दिनकरांशुभिः ।
शिखिध्वजवनं शैले ददर्श गगने स्थिता ॥
तं दृष्ट्वा कुम्भरूपं तत् पुनर् जग्राह सत्वरम् ।
शिखिध्वजस्य पुरतः पपात च खपुष्पवत् ॥
तत्र म्लानद्युति मुखं चकाराखिन्नमानसम् ।
इन्दुं सनीहारम् इव यामा खिन्नम् इवाम्बुजम् ॥
तं दृष्ट्वा तादृगाकारं समुत्तस्थौ शिखिध्वजः ।
बभूव खिन्नचेताश् च समुवाचेदम् आदृतः ॥
देवपुत्र नमस् ते ऽस्तु विमना इव लक्ष्यसे ।
कुम्भस् त्वं त्यज संरम्भम् इदम् आसनम् आस्यताम् ॥
सन्तो विदितवेद्या ये ते हि हर्षविषादजाम् ।
नाश्रयन्ति स्थितिं स्वस्थाः पद्मा इव जलार्द्रताम् ॥
तेन स्मोपविशेत्य् उक्ते कुम्भ आहासने विशन् ।
गिरा विषण्णया शीर्णवंशस्वनसमानया ॥
यावद्देहम् अवस्थासु समचित्ततयैव ये ।
कर्मेन्द्रियैर् न तिष्ठन्ति न ते तत्त्वधियश् शठाः ॥
ये ह्य् अतत्त्वविदो मूढा राजन् बालतयैव ते ।
अवस्थाभ्यः पलायन्ते गृहीताभ्यस् स्वभावतः ॥
यावत्तिलं यथा तैलं यावद्देहं दशा तथा ।
यो न देहदशाम् एति स च्छिनत्त्य् असिनाम्बरम् ॥
एष देहदशादुःखपरिहारो ह्य् अनुत्तमः ।
यत् साम्यं चेतसो योगान् न तु कर्मेन्द्रियस्थितेः ॥
यावद्देहं यथाचारं दशास्व् अङ्ग विजानता ।
कर्मेन्द्रियैर् हि स्थातव्यं न तु बुद्धीन्द्रियैः क्वचित् ॥
परमेष्ठिप्रभृतयस् सर्व एवोदिताशयाः ।
देहावस्थासु तिष्ठन्ति नियतेर् एष निश्चयः ॥
अज्ञतत्त्वज्ञभूतादि दृश्यजातम् इदं हि यत् ।
तत् सर्वम् एव नियतिं धावत्य् अम्बु यथाम्बुधिम् ॥
तज्ज्ञा बुद्ध्यादिसाम्येन पाण्यादिचलनेन च ।
नियतिं यापयन्तीमां यावद्देहम् अखण्डिताः ॥
अज्ञास् तु सर्वक्षोभेण सुखदुःखदशाहताः ।
नियतिं यापयन्त्य् अङ्ग देहलक्षैर् विखण्डिताः ॥
इत्थं सुखेषु ननु दुःखदशासु चेत्थं स्थातव्यम् इत्य् अधिगतं यद् इहाङ्ग जीवैः ।
तज्ज्ञाज्ञभूतनिचयस् स्फुरितस् तद् एव दुर्लङ्घ्य एष नियतो नियतेर् विलासः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0