मोक्षोपाय · अध्याय 6.107
निर्विकल्पसमाधानात् काष्ठकुड्योपमस् स्थितः ।
एवं शिखिध्वजो राम चूडालाम् अधुना शृणु ॥
शिखिध्वजं तं भर्तारं कुम्भवेषेन तेन सा ।
प्रबोध्यान्तर्धिम् आगत्य ततार तरसा नभः ॥
देवपुत्राकृतिं व्योम्नि जहौ मायाविनिर्मिताम् ।
विदग्धमुग्धम् आकारं स्त्रैणं जग्राह सुन्दरम् ॥
नभसा स्वपुरं प्राप्य विवेशान्तःपुरं क्षणात् ।
दृश्या बभूव लोकस्य नृपकर्म चकार सा ॥
वासरत्रितयेनापि पुनर् अम्बरम् एत्य सा ।
बभूव कुम्भो योगेन शिखिध्वजवनं ययौ ॥
तथा तत्रैव तं भूपम् अपश्यद् वनभूमिगा ।
निर्विकल्पसमाधिस्थं समुत्कीर्णम् इव द्रुमात् ॥
अहो नु खलु भो दिष्ट्या विश्रान्तो ऽयम् इहात्मनि ।
स्थितस् स्वस्थस् समश् शान्त इत्य् उवाच पुरः प्रभोः ॥
तद् एनं तावद् एतस्माद् बोधयामि परात् पदात् ।
इदानीम् एव किं देहत्यागम् एष करोति वै ॥
कञ्चित् कालं स्फुरित्वेह राज्येन विपिनेन वा ।
समम् एव गमिष्यावस् त्यक्तदेहाव् इमौ शमम् ॥
तद् यावद् एषो विचलं परिणामं न गच्छति ।
अनेनाभ्यासयोगेन तावद् आबोधयाम्य् अहम् ॥
इति सञ्चिन्त्य चूडाला सिंहनादं चकार सा ।
भूयो भूयः प्रभोर् अग्रे वनेचरभयप्रदम् ॥
न चचाल शिलेवाद्रौ यदा नादेन तेन सः ।
भूयो भूयः कृतेनापि तदा सा तं व्यचालयत् ॥
चालितः पातितो ऽप्य् एष यदा न बुबुधे नृपः ।
तदा सञ्चिन्तयाम् आस चूडाला कुम्भरूपिणी ॥
अहो परिणतस् साधुस् स्वपदे भगवान् अयम् ।
तद् एनं हि कया युक्त्या साम्प्रतं बोधयाम्य् अहम् ॥
अथ वैनं महात्मानं किमर्थं बोधयाम्य् अहम् ।
विदेहं बोधम् आसाद्य तिष्ठत्व् एष यथासुखम् ॥
अहम् अप्य् अङ्गनादेहम् इमं त्यक्त्वा परं पदम् ।
अपुनर्जननायैव गच्छामीह हि किं मम ॥
इति सञ्चिन्त्य देहं स्वं त्यक्तुम् अभ्युद्यता सती ।
पुनस् सञ्चिन्तयाम् आस चूडाला सा महासती ॥
आलोकयामि वै तावद् एनं देहं महीपतेः ।
यद्य् अस्य सत्त्वशेषो ऽस्ति बोधबीजं हृदन्तरे ॥
तत् कालेनैष भगवान् सम्प्रबोधम् उपैष्यति ।
मूलकोशरसालीनं पुष्पजालं मधाव् इव ॥
तदेह विहरञ् जीवन्मुक्त एको भवत्य् अयम् ।
मैको भवत्व् एष इति मन्ये गच्छामि नो शमम् ॥
इति सञ्चिन्त्य चूडाला स्पर्शेन नयनेन च ।
पतिम् आलोक्य साशङ्कम् उवाच वरवर्णिनी ॥
अस्त्य् एव सत्त्वशेषो ऽस्य हृदि सम्बोधकारणम् ।
कायो ऽयम् अगलद्रूपो नेमं देहं त्यजाम्य् अहम् ॥
भृशं संशान्तचित्तस्य काष्ठलोष्टसमस्थितेः ।
सत्त्वशेषः कथं ब्रह्मञ् ज्ञायते ध्यानशालिनः ॥
प्रबोधकारणं यस्य दुर्लक्ष्याणुवपुर् हृदि ।
विद्यते सत्त्वशेषो ऽन्तर् बीजे पुष्पफलं यथा ॥
चित्तस्पन्दविमुक्तस्य तस्यास्पन्दितसच्चितः ।
द्वित्वैकत्वविहीनस्य समस्याचलसंस्थितेः ॥
कायस् समसमाभोगो न ग्लायति न हृष्यति ।
नास्तम् एति न चोदेति समम् एवावतिष्ठते ॥
द्वित्वैकत्वादियुक्तस्य यस्य प्रस्पन्दते मनः ।
तस्य देहो ऽन्यताम् एति नास्पन्दस्य कदाचन ॥
चित्तस्पन्दो हि सर्वेषां कारणं जगतस् स्थितेः ।
राम भावविकाराणां कुसुमानां यथा मधुः ॥
यस्मिन् प्रस्पन्दते देहे चित्तं स हि मुहुर् मुहुः ।
हर्षग्लपनसम्मोहवशम् एति रघूद्वह ॥
चित्ते प्रशमम् आयाते कायो यस् सत्त्ववान् स्थितः ।
बाधते नाम्बरस्येव तस्य भावविकारभूः ॥
वीच्यादि न यथोदेति समाया जलसन्ततेः ।
तथा न दृश्यते दोषस् समायास् सत्त्वसंस्थितेः ॥
सत्त्वस्यानुपलम्भो ऽस्ति नान्यस् स्वोपशमाद् ऋते ।
यावद् भावि समं सत्त्वं कालाच् छाम्यति केवलम् ॥
देहे यस्मिंस् तु नो चित्तं नापि सत्त्वं च विद्यते ।
स तापहिमवद् राम पञ्चत्वेन विलीयते ॥
शिखिध्वजस्य देहो ऽसौ निश्चितं चेतसोज्झितः ।
सत्त्वांशेन च संयुक्तस् तेन न म्लानिभाजनम् ॥
तं तथाभूतम् आलोक्य भर्तुर् देहं वराङ्गना ।
अनुज्झितवती देहं चिन्तयाम् आस सत्वरम् ॥
चित्तत्त्वं सर्वगं शुद्धं प्रविश्याबोधयाम्य् अहम् ।
भविष्यद्बोधनं कान्तम् एष तत्र हि संस्थितः ॥
न बोधयामि यद्य् एनं चिरात् तद् बुध्यते स्वयम् ।
किम् इहैकावतिष्ठे ऽहम् इत्य् एनं बोधयाम्य् अहम् ॥
इति सञ्चिन्त्य चूडाला देहं कारणपञ्जरम् ।
सन्त्यज्य प्राप चित्तत्त्वे स्थितिम् आद्यन्तवर्जिते ॥
तत्र सा चेतनस्पन्दं कृत्वा सत्त्ववतः प्रभोः ।
स्वं विवेश पुनर् देहं खान् नीडम् इव पक्षिणी ॥
कुम्भाकृतिर् अथोत्थाय निविष्टा कुसुमस्थले ।
साम गातुं प्रवृत्ता सा भ्रमरीवृन्दसस्वना ॥
तं सामस्वनम् आकर्ण्य चित् सत्त्वगुणशालिनः ।
बुबुधे भूपतेर् देहे वसन्त इव पद्मिनी ॥
दृशं विकासयाम् आस तां तदार्क इवाब्जिनीम् ।
गृहीतसत्त्वसम्पत्तिश् शिखिध्वजमहीपतिः ॥
अपश्यत् कुम्भम् अग्रस्थं सामगायनतत्परम् ।
परेण वपुषा युक्तं सामवेदम् इवापरम् ॥
अहो बत वयं धन्याः पुनः प्राप्तो मुनेस् सुतः ।
इत्य् एवोदाहरन् राजा कुम्भाय कुसुमं ददौ ॥
दिष्ट्या स्थितास् स्मो भगवंस् तव चेतसि पावने ।
के नाम न महासत्त्वाः प्रसादेष्व् अङ्ग हि स्थिराः ॥
अस्मत्पवित्रीकरणम् एकम् आगमकारणम् ।
तव पापापहं ब्रूहि द्वितीयं कतरद् भवेत् ॥
यतः प्रभृति यातो ऽस्मि त्वत्सकाशाद् अरिन्दम ।
ततः प्रभृति चेतो मे त्वयैवेह समं स्थितम् ॥
न रमे स्वर्गरङ्गेषु देवोद्यानेषु चानघ ।
मेरुमन्दरकूटेषु कैलासकुहरेषु च ॥
त्वत्सङ्गम् एव वाञ्छामि सुभगाचारपेशलम् ।
अमृतस्यन्दसङ्काशं मधुमासम् इव द्रुमः ॥
तस्माद् एवेह तिष्ठामि समीपे तव साम्प्रतम् ।
अभीष्टं यद् यद् एवाङ्ग रम्याणां धुरि तत् स्थितम् ॥
त्वादृशो बन्धुर् आप्तश् च सुहृन् मित्रं सखा तथा ।
विश्वास्यश् चैव शिष्यश् च मन्ये जगति नास्ति मे ॥
अहो नु फलितं पुण्यपादपैर् नः कुलाचले ।
यद् भवान् अप्य् असङ्गो ऽपि वाञ्छत्य् अस्मत्समागमम् ॥
इदं वनम् इमे वृक्षा भृत्यो ऽयम् अहम् आदृतः ।
रोचते चेन् न ते स्वर्गस् तद् इह स्थीयतां प्रभो ॥
भवद्वितीर्णया योगयुक्त्या विश्रान्तवान् अहम् ।
यथा साधो तथा मन्ये स्वर्गे विश्रमणं कुतः ॥
ताम् एव स्वस्थितिं स्वच्छाम् अवलम्ब्य प्रकाशिनीम् ।
विहरेह यथाकामं स्वर्गे भूमितले ऽथ वा ॥
परे पदे महानन्दे कच्चिद् विश्रान्तवान् असि ।
इदं भेदमयं दुःखं कच्चित् सन्त्यक्तवान् असि ॥
कच्चिद् आपातरम्येभ्यस् सङ्कल्पेभ्यो रतिर् भृशम् ।
निर्मूलतां गता राजन्न् ओघतीरलतेव ते ॥
हेयादेयदशातीतं शान्तं समसमस्थिति ।
यथाप्राप्तेष्व् अनुद्वेगि कच्चित् तव मनस् स्थितम् ॥
त्वत्प्रसादेन भगवन् दृष्टा दृश्यातिगा गतिः ।
प्राप्तस् संसारसीमान्तो लब्धो लब्धव्यनिश्चयः ॥
चिरायातिचिरेणैव विश्रान्तास् स्मो निरामयाः ।
लब्धं लब्धव्यम् अखिलं तृप्तास् स्मश् चिरम् अक्षताः ॥
नोपदेष्टव्यम् अस्माकं किञ्चिद् अप्य् उपयुज्यते ।
सर्वत्रैवातितृप्तास् स्मस् संस्थितास् स्मो गतज्वरम् ॥
ज्ञातम् अज्ञातम् अप्राप्तं सम्प्राप्तं त्यक्तम् आश्रितम् ।
त्वत्त्वं परत्वं मत्त्वं मे खस्येवास्ति न किञ्चन ॥
निस्संसृतिर् विगतमोहभयाभिरामो नित्योदितस् समसमाशयसर्वसोम्यः ।
सर्वात्मकस् सकलसङ्कलनाविमुक्त आकाशकोशविशदश् शमम् आस्थितो ऽस्मि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0