मोक्षोपाय · अध्याय 6.106
इति ते कथितं सर्वं शिखिध्वज महीपते ।
यथेदम् उत्थितं सर्वं यथा च प्रविलीयते ॥
एतच् छ्रुत्वा च बुद्ध्वा च मत्वा च मुनिनायक ।
यथेच्छसि तथा तिष्ठ दृष्टस्पष्टपदः पदे ॥
स्वर्गं गच्छाम्य् अहं तत्र काले ऽस्मिन् नारदो मुनिः ।
ब्रह्मलोकात् समायातो भवत्य् अमरसंसदम् ॥
न मां पश्यति चेत् तत्र तत् कोपम् उपगच्छति ।
नोद्वेजनीया भव्येन गुरवो हि कदाचन ॥
त्यक्तसङ्कल्पलेखेन न किञ्चिद् अभिवाञ्छता ।
त्वयात्मन्य् एव वस्तव्यं दृष्टिर् एषैव पावनी ॥
इति यावत् प्रतिवचः पुष्पहस्तश् शिखिध्वजः ।
प्रणामाय ददात्य् एष तावद् अन्तर्धिम् आययौ ॥
प्रतिभासगतं वस्तु यथैवाग्रे न दृश्यते ।
न दृष्टवांस् तथा कुम्भम् अग्रे राजा शिखिध्वजः ॥
गते कुम्भे महीपालः परं विस्मयम् आययौ ।
तद् एव चिन्तयंश् चित्रं चित्रार्पित इवाभवत् ॥
इति सञ्चिन्तयाम् आस चित्रं विलसितं विधेः ।
यत् कुम्भव्यपदेशेन बोधितो ऽस्मि चिराद् अयम् ॥
क्व नारदसुतः कुम्भः क्वाहं नाम शिखिध्वजः ।
केवलं कालयुक्त्यैवम् अहं सम्प्रतिबोधितः ॥
अहो नु सम्यक् कथितं देवपुत्रेण युक्तिमत् ।
अहो नु सम्प्रबुद्धो ऽस्मि मोहनिद्राकुलश् चिरात् ॥
क्वाहम् आसं विनिर्मग्नः क्रियाजालकुकर्दमे ।
इदं कार्यम् इदं नेति मिथ्याविभ्रमम् आचरन् ॥
अहो नु शीतला शुद्धा शान्तेयं पदवी निजा ।
रसायनद्रवाकारा सत्त्वं शीतयतीव मे ॥
शाम्यामि परिनिर्वामि सुखम् आसे च केवलम् ।
चिन्मात्रम् अपि नेच्छामि संस्थितो ऽस्मि यथास्थितम् ॥
एवं सञ्चिन्तयन् राजा एवंनिर्वासनाशयः ।
शैलाद् इव समुत्कीर्णो मौनम् एवाथ तस्थिवान् ॥
तस्मिन्न् एव ततो मौनी निस्सङ्कल्पे निरामये ।
प्रतिष्ठां निश्चलां प्राप्य स तस्थौ गिरिशृङ्गवत् ॥
स तत्र संशान्तभयो महात्मा चिरेण विश्रान्तिम् इतस् समात्मा ।
चिरेण सम्प्राप्तनिजामलात्मा योगेन सुष्वाप तदा चिदात्मा ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0