भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.105

6.105.1

इति कुम्भवचो राजा भावयंस् तद् अकृत्रिमम् ।
स्व एवात्मपदे तस्मिन् क्षणं परिणतो ऽभवत् ॥

6.105.2

बभूवामीलितमनोलोचनश् शान्तवाग् अभीः ।
शिलातलाद् इवोत्कीर्णो निस्स्पन्दावयवाकृतिः ॥

6.105.3

ततो मुहूर्तमात्रेण प्रबुद्धं स्फारितेक्षणम् ।
तम् उवाच महाबाहो चूडाला कुम्भरूपिणी ॥

6.105.4

कच्चिद् अस्मिन् पदे स्फारे शुद्धे मृदुनि निर्मले ।
सुतल्पे निर्विकल्पानां सुखं विश्रान्तवान् असि ॥

6.105.5

कच्चिद् अन्तः प्रबुद्धो ऽसि कच्चिद् भ्रान्तिस् त्वयोज्झिता ।
कच्चिज् ज्ञेयं परिज्ञातं दृष्टं द्रष्टव्यम् एव वा ॥

6.105.6

भगवंस् त्वत्प्रसादेन महाविभवभूषिता ।
महती पदवी दृष्टा सर्वस्योर्ध्वे स्थिता मया ॥

6.105.7

सतां विदितवेद्यानाम् अहो बत महात्मनाम् ।
अपूर्वैकामृतमयस् सङ्गस् सारफलप्रदः ॥

6.105.8

जन्मनापि मया लब्धं यन् नाम न महामृतम् ।
तद् अद्य त्वत्समासङ्गात् क्षणेनासादितं स्वयम् ॥

6.105.9

अनन्तम् आद्यम् अमृतम् एतत् कमललोचन ।
कथं नासादितम् अभूद् एतद् आत्मपदं मया ॥

6.105.10

मनस्य् उपशमं याते त्यक्तभोगैषणे स्थिते ।
कषायपाके निर्वृत्ते सर्वेन्द्रियगणस्य च ॥

6.105.11

यान्ति चेतसि विश्रान्तिं विमला दैशिकोक्तयः ।
यथा सितांशुके शुद्धे बिन्दवः कुङ्कुमाम्भसः ॥

6.105.12

कषायाणाम् अनन्तानां सम्भृतानां शरीरके ।
स्ववासनास्वरूपाणाम् अद्य पाकस् तवोदितः ॥

6.105.13

देहान् मलानि सर्वाणि कालेन कमलेक्षण ।
साधो वृक्षात् फलानीव पाकेन विगलन्त्य् अधः ॥

6.105.14

वासनात्मसु यातेषु मलेषु विलयं सखे ।
यद् वक्ति गुरुर् अन्तस् तद् विशतीषुर् यथा बिले ॥

6.105.15

कषायपाके सम्पन्ने त्वं मयाद्य विबोधितः ।
तेनाद्यैव तवाज्ञानक्षयो जातो महामते ॥

6.105.16

अद्य पक्वकषायस् त्वम् अद्यैवाज्ञानसङ्क्षयी ।
अद्यैव सोपदेश्यस् त्वम् अद्यैवासि प्रबुद्धवान् ॥

6.105.17

शुभाशुभानां सर्वेषां कर्मणाम् अद्य सङ्क्षयः ।
सत्सङ्गव्यपदेशेन तव निष्पत्तिम् आगतः ॥

6.105.18

यावद् अस्य दिनस्यैष पूर्वो भागो महीपते ।
तावच् चेतो ह्य् अहम् इति तवाज्ञानं बभूव ह ॥

6.105.19

इदानीं मद्वचोबोधाच् चेतसि क्षयम् आगते ।
हृदयात् सम्परित्यक्ते सम्प्रबुद्धो ऽसि भूपते ॥

6.105.20

हृदि यावन् मनस्सत्ता तावद् अज्ञानसंस्थितिः ।
चित्ते चित्ततया त्यक्ते ज्ञानस्याभ्युदयो भवेत् ॥

6.105.21

द्वित्वैकत्वदृशौ चित्तं तद् एवाज्ञानम् उच्यते ।
एतयोर् यो लयो दृष्ट्योस् तज् ज्ञानं सा परा गतिः ॥

6.105.22

प्रबुद्धो ऽसि विमुक्तो ऽसि त्यक्तं चित्तं त्वया नृप ।
सद् एव सत्तयात्तं हि त्वया त्यक्तम् असत् पदम् ॥

6.105.23

वीतशोको निरायासो निस्सङ्गो नित्यम् आत्मवान् ।
महोदयो मुनिर् मौनी खरूपस् तिष्ठ निर्मलः ॥

6.105.24

एवं हि भगवञ् जन्तोर् मूर्खस्यैवास्ति चित्तभूः ।
न प्रबुद्धस्य तज्ज्ञस्य चित्तम् अस्ति किल प्रभो ॥

6.105.25

जीवन्मुक्तास् त एते हि विहरन्ति कथं वद ।
अविद्यमानमनसो युष्मदाद्यास् तथा नराः ॥

6.105.26

इति मे कथयाशेषम् अन्यैश् च वचनांशुभिः ।
हार्दं तमो मे निपुणम् एवम्प्रायैः प्रमार्जय ॥

6.105.27

यथा वदसि धर्मज्ञ तत् तथैव हि नान्यथा ।
चित्तं हि जीवन्मुक्तानां नास्त्य् अङ्कुर इवाश्मनाम् ॥

6.105.28

पुनर्जननयोग्या या वासना घनवासना ।
सा प्रोक्ता चित्तशब्देन न सा तज्ज्ञस्य विद्यते ॥

6.105.29

यया वासनया तज्ज्ञा विहरन्तीह कर्मसु ।
तां त्वं सत्त्वाभिधां विद्धि पुनर्जननवर्जिताम् ॥

6.105.30

जीवन्मुक्ता महात्मानस् सत्त्वस्थास् संयतेन्द्रियाः ।
विहरन्ति गतासङ्गं न चित्तस्थाः कदाचन ॥

6.105.31

मूढं चित्तं चित्तम् आहुः प्रबुद्धं सत्त्वम् उच्यते ।
अप्रबुद्धा हि चित्तस्थास् सत्त्वस्था हि महाधियः ॥

6.105.32

भूयः प्रजायते चित्तं सत्त्वं भूयो न जायते ।
अप्रबुद्धस्य बन्धो ऽस्ति न प्रबुद्धस्य भूपते ॥

6.105.33

सत्त्ववान् असि सञ्जातो महात्यागी स्थितो भवान् ।
अशेषेण त्वया त्यक्तं चित्तम् अद्येति वेद्म्य् अहम् ॥

6.105.34

समस्तवासनामुक्तो राजन् राजेव राजसे ।
आकाशसाम्यम् आयातं मन्ये तव मुने मनः ॥

6.105.35

शमं प्राप्तो ऽसि परमं शुद्धस् समसमस्थितिः ।
मन्दराहननोन्मुक्तो यथा क्षीरमहार्णवः ॥

6.105.36

परित्यक्ता त्वया राज्याद् वासना तपसस् तथा ।
काननाच् च शरीराच् च शुभाशुभफलाद् अपि ॥

6.105.37

निरीहो विगतासङ्गस् त्यक्तचित्तो विवासनः ।
सम्पन्नस् त्वं महाबाहो महात्यागिपदं गतः ॥

6.105.38

अयं स हि महात्यागस् सर्वं यत्र समुज्झितम् ।
स्वर्गापवर्गचित्तादि तपोदानफलाद्य् अपि ॥

6.105.39

प्रबुद्धयेद्धया साधो धिया परमबोधया ।
तपो नाम कियन्मात्रदुःखक्षयकरं भवेत् ॥

6.105.40

क्षयातिशयनिर्मुक्तं यत् सुखं समतामयम् ।
तत् सत् तद् वस्तु तत् किञ्चिन् न तु स्वर्गादि भङ्गुरम् ॥

6.105.41

भावाभावतुलारूढस् स्थिताधिव्याधिवेधितः ।
स्वर्गो नाम किमानन्दस् सो ऽपि सन्देहम् आस्थितः ॥

6.105.42

अप्राप्तस्वार्थसंसिद्धेः क्रियाकाण्डश् शुभो भवेत् ।
येन नासादितं हेम रीतिं किं स परित्यजेत् ॥

6.105.43

चूडालादिसमासङ्गाद् भवेज् ज्ञत्वं सुखेन ते ।
तत् किमर्थम् अनर्थे ऽस्मिन् निमग्नस् त्वं तपोमये ॥

6.105.44

आश्रमादिविकल्पांशसाध्यस्यास्य कुकर्मणः ।
आद्यन्तौ पश्य सुमते मध्य एव रमस्व मा ॥

6.105.45

यत एते समायाता यस्मिन् परिणमन्ति च ।
तपोरूपा विकल्पांशास् तत्र बद्धपदो भव ॥

6.105.46

चिद्व्योम्नो नभसो ऽप्य् अच्छात् सर्वे भावास् समुत्थिताः ।
तत्रैव च लयं यान्ति तत्रैवास्स्व रमस्व च ॥

6.105.47

इदं कार्यम् इदं नेति सङ्कल्पा ब्रह्मबिन्दवः ।
बिन्दूञ् शिखिध्वज त्यक्त्वा पूर्णमेघं समाश्रय ॥

6.105.48

इष्टं मे प्रार्थयस्वेति यथैव प्रार्थ्यते सखी ।
स्त्रिया तथैव न कथं दयितः प्रार्थ्यते स्वयम् ॥

6.105.49

सङ्कल्परचितान् एतान् भावान् आपातभासुरान् ।
न गृह्णन्ति महात्मानः प्राज्ञा जलरवीन् इव ॥

6.105.50

स्वर्गमोक्षादिफलदं यत् किञ्चित् समम् एव तत् ।
त्यक्त्वा समसमाभासो यो ऽस्य् असाव् एव वै भव ॥

6.105.51

सन्तं सत्त्वेन नाशेन नश्यन्तं विगतस्पृहः ।
पदार्थौघम् इमं गृह्णंस् तिष्ठास्पन्दितचित्तभूः ॥

6.105.52

अपरिस्पन्दचित्तस्य संसृतिर् नेह बाधते ।
पौरुषप्रभवा साधो विपन् नीतिमतो यथा ॥

6.105.53

यानि यानीह दुःखानि प्रस्फुरन्ति जगत्त्रये ।
चेतश्चापलजान्य् एव तानि तानि महीपते ॥

6.105.54

स्थिरं शान्तं गतस्पन्दं यस्य चित्तम् अचापलम् ।
स विभुस् स महानन्दी साम्राज्यस्य स भाजनम् ॥

6.105.55

अथ चेतसि तत्त्वज्ञ स्पन्दास्पन्दौ तद् एकताम् ।
नीत्वा तिष्ठ यथाकामम् ऐक्यम् आगत्य शाश्वतम् ॥

6.105.56

कथम् ऐक्यविधिं यातस् स्पन्दास्पन्दाव् इमौ विभो ।
सर्वसंशयविच्छेदकारिन्न् एतद् वदाशु मे ॥

6.105.57

एकं वस्तु जगत् सर्वं चिन्मात्रं वार् इवाम्बुधिः ।
तद् एव स्पन्दते नो वा शुद्धं वारीव वीचिभिः ॥

6.105.58

ब्रह्म चिन्मात्रम् अमलं सत्यम् इत्यादिनामभिः ।
यद् गीतं तद् इदं मूढः पश्यत्य् अङ्ग जगत्तया ॥

6.105.59

निस्स्पन्द एव सर्वस्मिन् सर्गे तस्माद् धि संसृतिः ।
परिस्पन्दो हि वीच्यादिस् तद् अस्पन्दं समं परम् ॥

6.105.60

चितस् स एव चेत् स्पन्दस् तथास्पन्दश् च भावितः ।
एकरूपतया नाम तत् तद् अप्य् अचलं शिवम् ॥

6.105.61

सर्गश् चित्स्पन्दमात्रात्मा सम्यग्दृष्टो विलीयते ।
उदेत्य् असम्यग्दृष्टात्मा रज्ज्वां सर्पभ्रमो यथा ॥

6.105.62

सस्पन्दा चिच् चिदभिधा निस्स्पन्दा त्व् इयम् आतता ।
तुर्यातीतपदारूढा वाचा वक्तुं न पार्यते ॥

6.105.63

शास्त्रसज्जनसम्पर्कसन्तताभ्यासयोगतः ।
कालेनामलतां याते चेतसीन्दाव् इवोदिते ॥

6.105.64

एतत् केवलम् आभातं स्वानुभूतिगिराततम् ।
कथ्यते स्वानुभूतेस् तु स्वयं स्वं रूपम् आत्मना ॥

6.105.65

प्राप्तो ऽसि भावं स्वम् अनादिमध्यम् अत्रैव तिष्ठेष्टपदे निविष्टः ।
नीरूपनिर्भेदमहाचिदात्मा जातो ऽसि साधो खलु वीतशोकः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc