भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.104

6.104.1

एवं चैतन् महाबुद्धे यादृशं कारणं परम् ।
तादृशं कार्यम् एवेदं जगद् इत्य् एव वेद्म्य् अहम् ॥

6.104.2

यत्र कारणता तत्र कार्यं समुपपद्यते ।
यन् न कारणम् एवादौ तस्मात् कार्यं कुतो भवेत् ॥

6.104.3

नेहास्ति कारणं किञ्चिन् न च कार्यं कदाचन ।
विद्यमानम् इदं सर्वं शिवं शान्तम् अजं जगत् ॥

6.104.4

जायते कारणात् कार्यं यत् तत् कारणवद् भवेत् ।
यन् न जायत एवेह तस्मिन् सदृशता कुतः ॥

6.104.5

बीजम् एव न यस्यास्ति तत् कथं वद जायते ।
अप्रतर्क्यम् अनाख्यं च यन् न तस्येह बीजता ॥

6.104.6

देशकालवशात् सर्वा हेतुमत्यः प्रमोपमाः ।
अकर्तृ ब्रह्म विषयः प्रमाकारणयोः कथम् ॥

6.104.7

अकर्तृकर्मकरणे नास्ति कारणता शिवे ।
तस्माद् अकारणं नास्ति जगच्छब्दार्थवेदनम् ॥

6.104.8

ब्रह्मैव स्वं स्वरूपं सद् यत् स्थितं धारयत् ततम् ।
असम्यग्दर्शिविषयं तद् एव जगद् आचितम् ॥

6.104.9

चिन्मात्रम् अजरं शान्तं यद् एकं तत् प्रगीयते ।
तेनैवाजं जगद्ब्रह्म सच् छान्तं बुध्यते वपुः ॥

6.104.10

अस्य स्व एव यो भावश् चेतसः पृथिवीपते ।
स एव नाशः कथितश् चानुभूतश् च पण्डितैः ॥

6.104.11

चित्तं नाशस्वभावं त्वं विद्धि नाशात्मकं नृप ।
क्षणनाशाय सङ्कल्पश् चित्तशब्देन कथ्यते ॥

6.104.12

असङ्कल्पनमात्रेण सम्यग्ज्ञानोदयं विना ।
सङ्कल्पः क्षीयते सिद्ध्यै स्वयम् एवासदात्मकः ॥

6.104.13

नाम्नैवाङ्गीकृताभावं यद् अविद्येति कथ्यते ।
विद्यमानं कथं तत् स्याच् चित्तं तामरसेक्षण ॥

6.104.14

हस्ताव् उत्क्षिप्य यो ब्रूते शूद्रो ऽस्मीति भृशं गिरा ।
कथं स विप्रो भवति विप्रत्वं तस्य कीदृशम् ॥

6.104.15

विवृत्तधातुर् अत्युच्चैर् मृतो ऽस्मीति विरौति यः ।
मृतम् एवाङ्ग तं विद्धि जीवितं तस्य तु भ्रमः ॥

6.104.16

भ्रमाकृति यद् अस्तीह दृश्यते ऽलातचक्रवत् ।
मृगतृष्णाद्विचन्द्रादिबालवेतालकादिवत् ॥

6.104.17

तत् कथं किल नाम स्यात् सत्यं भ्रमभरात्मकम् ।
अज्ञानभ्रान्तिर् एवातश् चित्तम् इत्य् एव कथ्यते ॥

6.104.18

अज्ञानम् उच्यते चित्तम् असत् सद् इव संस्थितम् ।
मिथ्याभ्रमं निराकारं केशोण्डुकम् इवाम्बरे ॥

6.104.19

एवम् अज्ञानम् एवैतच् चित्तशब्देन कथ्यते ।
तन्नाशश् चेतसो नाशश् चित्तत्यागस् स एव च ॥

6.104.20

अज्ञानं कीदृशं देव कथं चैतद् विनश्यति ।
समासेनेति भगवन् वद मे वदतां वर ॥

6.104.21

यद् असंवेदनं सम्यग् वस्तुनो राजसत्तम ।
दृष्टादृष्टस्य कुम्भादेस् तद् अज्ञानम् इति स्मृतम् ॥

6.104.22

असंवेदनम् अज्ञानं ज्ञानं संवेदनं भवेत् ।
अज्ञानस्य त्व् असंवित्तेर् ज्ञानात् संवेदनात् क्षयः ॥

6.104.23

जलज्ञानं मुधाभ्रान्तिस् साधो मरुमरीचिषु ।
नैतज् जलम् इति ज्ञानात् संवित्तिः प्रविलीयते ॥

6.104.24

इदं चित्तम् इति प्रौढं यद् अज्ञानम् अलं हृदि ।
नास्ति चित्तम् इति ज्ञानात् तत् समूलं विनश्यति ॥

6.104.25

यथा रज्ज्वां भुजङ्गत्वम् अज्ञानभ्रमसम्भवम् ।
न सर्पो ऽयम् इति ज्ञानाद् धृदि रूढात् प्रणश्यति ॥

6.104.26

चित्तं मनो ऽहम् इत्य् अन्तर् यावद् अज्ञानसम्भवः ।
तावच् चित्तं मनो माया भवत्य् एव न संशयः ॥

6.104.27

चित्तं नास्त्य् अहम् इत्य् अन्तर् यावज् ज्ञानोदयो भवेत् ।
तावच् चित्तं मनो माया नास्त्य् एवात्र न संशयः ॥

6.104.28

मिथ्यायक्षभ्रमो यावत् तावद् यक्षो हि दृश्यते ।
मिथ्यायक्षभ्रमे शान्ते कुतो यक्षस्य सम्भवः ॥

6.104.29

न चित्तम् अस्ति नो चैत्तम् अहङ्कारादिसंयुतम् ।
किञ्चिद् एव जगत्य् अस्मिन् संविद् एकास्ति निर्मला ॥

6.104.30

तया सङ्कल्पचित्तादि कृतम् आसीद् विमूढया ।
यद् यत् सङ्कल्प्य तत् सर्वं परित्यक्तं प्रबुद्धया ॥

6.104.31

सङ्कल्पेन यद् आयाति तत् सङ्कल्पेन गच्छति ।
पवनेन महाबाहो ज्वालाजालम् इवानले ॥

6.104.32

आत्मतत्त्वैकघनया तत् तया ब्रह्मसत्तया ।
जगत् सर्वम् अभिव्याप्तं समुद्र इव वारिणा ॥

6.104.33

नाहम् अस्मि न चान्यो ऽस्ति न त्वं नैते न चित्तकम् ।
नेन्द्रियाणि न चाकाशम् आत्मैवैको ऽस्ति निर्मलः ॥

6.104.34

घटाद्याकाररूपेण स एवायं विलोक्यते ।
इदं चित्तम् अयं चाहम् इति केव कुकल्पना ॥

6.104.35

न जायते न म्रियते किञ्चिद् अस्मिञ् जगत्त्रये ।
केवलं विलसत्य् आत्मा सदसद्भावनात्मना ॥

6.104.36

सर्वम् आत्मा परं ब्रह्म सकृत् प्रकटम् आततम् ।
द्वित्वैकत्वे न विद्येते निर्भ्रान्तिर् भव सत्यतः ॥

6.104.37

सर्वेन्द्रियगुणाकारस् सन्न् एवासि सखे नभः ।
न दह्यसे महाबुद्धे न च क्वचन लिप्यसे ॥

6.104.38

न ते विनश्यति सखे न च किञ्चिद् विवर्धते ।
निर्मलाकाशरूपस्य चैकस्यानन्तरूपिणः ॥

6.104.39

इच्छानिच्छात्मिके शक्ती ये तवापि त्वम् एव ते ।
न ह्य् अंशुव्यतिरेकेण शशाङ्क उपलभ्यते ॥

6.104.40

त्वम् अजरम् अपरं परस्वभावं सकृद् अमलं सततं सद् एकरूपम् ।
विगलितकलनं कलाख्यलीलं समुदितम् आद्यम् अजं तद् आत्मतत्त्वम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc