भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.103

6.103.1

नष्टो मोहस् स्मृतिर् लब्धा त्वत्प्रसादान् मया मुने ।
स्थितो ऽस्मि गतसन्देहो विश्रान्तमतिर् आत्मवान् ॥

6.103.2

ज्ञातज्ञेयो महामौनी तीर्णमायामहार्णवः ।
शान्तो ऽहम् अनहंरूपो ज्ञस् स्थितो ऽस्मि निरामयः ॥

6.103.3

अहो नु सुचिरं कालं प्रभ्रान्तो ऽहम् अवान्तरे ।
स्थानम् अव्ययम् अक्षुब्धम् अधुना प्राप्तवान् अहम् ॥

6.103.4

एवं स्थिते मुने नास्ति साहन्तादिजगत्त्रयम् ।
मूर्खबुद्धम् इदं भाति यत् तद् ब्रह्मेति वेद्म्य् अहम् ॥

6.103.5

जगद् एव न यत्रास्ति तत्राहन्त्वविभासनम् ।
संसाराम्बरसम्भारः क्व कुतः कीदृशः कथम् ॥

6.103.6

यथास्थितव्यवहृतिर् मौनी शान्तमना मुनिः ।
सोम्यार्णवोदरावर्तपरिस्पन्दवद् आस्स्व भोः ॥

6.103.7

ब्रह्मरूपतया शान्तम् इदम् अस्ति यथास्थितम् ।
अहं जगद् इदं चेति शब्दार्थात्म नभो ऽमलम् ॥

6.103.8

इदम् आद्यन्तरहितं सर्गसंहारनामकम् ।
चिच्चमत्कृतिमात्रात्म नभः कचकचायते ॥

6.103.9

सन्निवेशदृशश् शान्तौ यद् अस्ति कनकं यथा ।
जगदाद्यर्थसंशान्तौ ब्रह्मेदं विद्यते तथा ॥

6.103.10

यथा स्वयम्भूस् सङ्कल्पस् स्वयंनाशस् तथैव हि ।
एतौ स्ववेदनायत्तौ बन्धमोक्षौ व्यवस्थितौ ॥

6.103.11

अहम् इत्य् एव सङ्कल्पो बन्धायातिविनाशिने ।
नाहम् इत्य् एव सङ्कल्पो मोक्षाय विमलात्मने ॥

6.103.12

यद् बन्धमोक्षसङ्कल्पशब्दार्थानां सदासताम् ।
स्वरूपवेदनं तत् सत् केवलत्वं च कथ्यते ॥

6.103.13

अनहंवेदनं सिद्धिर् अहंवेदनम् आपदे ।
सो ऽहम् एवानहम् इति शुद्धबोधो भवात्मवान् ॥

6.103.14

असङ्कल्पनमात्रेण सम्यग्ज्ञानोदयात्मना ।
सङ्कल्पः क्षीयते सिद्ध्यै स्वयम् एवासदात्मकः ॥

6.103.15

अप्रतर्क्यस्वरूपे हि नास्ति कारणता शिवे ।
कारणाभावतः कार्यं पदार्थो ऽपि न विद्यते ॥

6.103.16

पदार्थाभावसंसिद्धौ वेदनं नोपपद्यते ।
कारणाभावतो नित्यम् अहम्भावस्य नोदयः ॥

6.103.17

अहम्भावानुदयतस् संसारः कस्य कीदृशः ।
संसाराभावतस् सर्वं परम् एवावशिष्यते ॥

6.103.18

यच् चेदं भासते तत् सत् परम् एवात्मनि स्थितम् ।
परं परे परापूर्णं समम् एव विजृम्भते ॥

6.103.19

तेन निस्तिमितं सर्वं शैलोत्कीर्णम् इवाचलम् ।
विद्धि रश्मिमयाकारम् इव ब्रह्म जगत् स्थितम् ॥

6.103.20

पुरसङ्कल्पके नष्टे सङ्कल्पनगरस्य यत् ।
रूपं तद् विद्धि जगतः खाद् अच्छं सदसन्मयम् ॥

6.103.21

छायापुरुषवत् स्पन्दि शान्तं निर्मननं जगत् ।
जगच्छब्दार्थरहितं यः पश्यति स पश्यति ॥

6.103.22

रूपालोकमनस्कारा नीरसा गतभावनाः ।
सम्यग्ज्ञानवतो यस्य निर्वाणं तं विदुर् बुधाः ॥

6.103.23

यथास्ति वातो निस्स्पन्दो यथास्ति खम् अनीलिम ।
यथा हेमासन्निवेशम् अस्ति ब्रह्माजगत् तथा ॥

6.103.24

नीरसा असदाभासा जगत्प्रत्ययकारिणः ।
रूपालोकमनस्कारास् सन्तीमे ब्रह्मरूपिणः ॥

6.103.25

ऊर्मिशब्दार्थरहितं यादृग् अम्बु बहूर्म्य् अपि ।
सर्गशब्दार्थरहितं तादृग् ब्रह्मापि सर्गवत् ॥

6.103.26

सर्ग एव परं ब्रह्म परं ब्रह्मैव सर्गदृक् ।
सर्गशब्दार्थरहितो वाक्यार्थस् त्व् एष शाश्वतः ॥

6.103.27

ब्रह्मशब्दार्थसम्पत्तौ सर्गशब्दार्थधीः कुतः ।
सर्गशब्दार्थसम्पत्तौ ब्रह्मशब्दार्थधीः कुतः ॥

6.103.28

समस्तशब्दशब्दार्थभावनाभावनोदये ।
शुद्धं किम् अपि चिद्व्योम ब्रह्मशब्देन कथ्यते ॥

6.103.29

सम्यग्दर्शनसंसिद्धाव् उभयोर् अप्य् अवेदने ।
यच् छिष्टम् अजरं शान्तं ततो वाग् विनिवर्तते ॥

6.103.30

संशान्तसर्वात्मकवेदनौघम् अस्तीदम् एकात्मकम् अच्छरूपम् ।
यथास्थितं सर्वजगत् खरूपं पाषाणरूपं च परं ज्ञरूपम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc