भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.100

6.100.1

इति ब्रह्मणि विश्रान्तिम् अवाप्य स शिखिध्वजः ।
मुहूर्तम् आसीत् संशान्तमना निर्वाणदीपवत् ॥

6.100.2

निर्विकल्पसमाधानपरिणत्यास्तम् ईयिवान् ।
स्वलीलयेति कुम्भेन स झगित्य् एव बोधितः ॥

6.100.3

राजन्न् अज्ञाननिद्रातः प्रबुद्धो ऽसि शिवस् स्थितः ।
कार्यं नास्तमयेनेतो न चानस्तमयेन ते ॥

6.100.4

सकृद् एव विभातात्मा तिष्ठानिष्ठपदात्मकः ।
कलाकलननिर्मुक्तो जीवन्मुक्तो ऽङ्ग साम्प्रतम् ॥

6.100.5

कुम्भेन बोधितस् त्व् एवं स बभूव प्रबोधवान् ।
विनिर्गतो रराजोच्चैर् महामोहसमुद्गकात् ॥

6.100.6

विश्रान्तधीः क्षणेनैव पश्यन् दृश्यस्य वस्तुनः ।
असत्ताम् एव मुक्तात्मा लीलया समुवाच ह ॥

6.100.7

ज्ञातप्रायम् अपीदं तु यत् पृच्छामि तद् उच्यताम् ।
भूयो निपुणबोधाय मम मानद मोहहन् ॥

6.100.8

शिवे शान्ते निराभासे परे ऽनुल्लङ्घितात्मनि ।
द्रष्टृदर्शनदृश्याख्यो विश्वात्मा प्रत्ययः कुतः ॥

6.100.9

साधु पृष्टं महाराज राजसे बोधभास्वता ।
एतद् एव हि ते शिष्टं ज्ञतायास् तद् इदं शृणु ॥

6.100.10

यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
सर्वं सर्वप्रकाराढ्यं कल्पान्ते तत् प्रणश्यति ॥

6.100.11

ततस् स्तिमितगम्भीरं न तेजो न तमस् ततम् ।
महाकल्पविलासान्ते सत् सारम् अवशिष्यते ॥

6.100.12

चिन्मात्रम् अमलं कान्तम् आभातम् अमलं नभः ।
समस्तकलनोन्मुक्तं युक्तं परमया श्रिया ॥

6.100.13

यद् एकोदितम् अत्यच्छं शान्तम् आततम् उज्ज्वलं ।
परमात्मात्मकं तेजस् स्तिमितं ज्ञप्तिमात्रकम् ॥

6.100.14

अप्रतर्क्यम् अविज्ञेयं समं शिवम् अनिङ्गनम् ।
ब्रह्म निर्वाणम् आपूर्णम् आघूर्णद् इव सम्पदा ॥

6.100.15

अणीयसाम् अणीयस् तत् स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि ॥

6.100.16

ईदृशं तत् परं सूक्ष्मं तस्याग्रे यद् इदं नभः ।
अणोः पार्श्वे महामेरुर् इव स्थूलात्म लक्ष्यते ॥

6.100.17

ईदृशं तत् परं स्थूलं तस्याग्रे यद् इदं जगत् ।
परमाणुवद् आभाति क्वचिद् एव न भाति वा ॥

6.100.18

ईदृशं तद् गरिष्ठं च जगद्राज्यं यद् अक्षतम् ।
बुद्ध्वैतद् अमलं शान्तं जरत्तृणलवायते ॥

6.100.19

ईदृशं तत् परं श्रेयस् तस्मिन् सति यद् ईश्वरे ।
जगत्पदार्थसार्थश्रीस् स्वसत्तोदेति वेदनात् ॥

6.100.20

तत् सारम् एकम् एवेह विद्यते भूपते ततम् ।
एकम् एकान्तबुद्ध्यात्तं नैकम् अप्य् अद्वितावशात् ॥

6.100.21

तस्माद् द्वितीया कलना काचिन् नाम न विद्यते ।
आत्मतत्त्वम् अलं भातं तद् एवापूर्णम् अक्षतम् ॥

6.100.22

संस्थितं सर्वदा सर्वं सर्वाकारम् इवोदितम् ।
अवाच्यत्वाद् अलभ्यत्वात् तन् न कार्यं न कारणम् ॥

6.100.23

प्रत्यक्षादेर् अगम्यत्वात् किम् अप्य् एकम् तद् उत्तमम् ।
सर्वं सर्वात्मकं सूक्ष्मम् अच्छानुभवमात्रकम् ॥

6.100.24

तस्यानाख्यस्य रूपस्य निर्गतस्य प्रमादृशः ।
सतो वाप्य् असतो वापि कथं कारणता भवेत् ॥

6.100.25

यद् वै न कस्यचिद् बीजम् अनाख्यत्वान् न कारणम् ।
न किञ्चिज् जायते तस्मात् प्रमाणातिगतात्मनः ॥

6.100.26

अकर्तृकर्मकरणम् सत्यं चिद्घनम् अक्षतम् ।
आत्मरूपम् अनाभासं स्वसंवेदनलक्षणम् ॥

6.100.27

तस्मान् न जायते किञ्चित् परस्माद् ब्रह्मणो मुने ।
कथं किल वदाव्यक्ते स्याज् जन्यजनकक्रमः ॥

6.100.28

न किञ्चिज् जायते शान्ते न च किञ्चित् प्रलीयते ।
स्वसत्तया स्थितं ब्रह्म न बीजं न च कारणम् ॥

6.100.29

शुद्धानुभवमात्रं तत् तस्माद् अन्यन् न विद्यते ।
किञ्चिज् जगदहन्तादि तद् एवानन्तम् अस्ति हि ॥

6.100.30

शिवे जगदहन्तादि मुने नास्तीति वेद्म्य् अहम् ।
सर्गवेदनम् आभाति कथम् एतद् वदाशु मे ॥

6.100.31

चित्सारं तद् अनाद्यन्तं तत् स्वसंविदि तिष्ठति ।
तत् तद्भवनम् अत्यच्छं तत्तामात्रं जगद् विदुः ॥

6.100.32

चित्स्वात्मकचनं नाम यद् असम्भवचेत्यदृक् ।
तद् अहंवेदनं विद्धि विराडात्म जगत् स्थितम् ॥

6.100.33

वातस्य वातस्पन्दस्य यथा भेदो न विद्यते ।
शून्यत्वखत्वोपमयोश् चिन्मात्राहन्त्वयोस् तथा ॥

6.100.34

जले ऽस्ति देशकालात्ते यथोर्म्यादि सकारणम् ।
परे ऽस्त्य् अदेशकालात्ते तथा जगद् अकारणम् ॥

6.100.35

जलादौ यत् तरङ्गादि तत् सकारणम् अस्त्व् इह ।
परे जगदहन्तादि नाकारणम् अवैम्य् अहम् ॥

6.100.36

इदानीं भवता ज्ञातम् एतत् सत्यं महीपते ।
इदं जगदहन्तादि नेह किञ्चन विद्यते ॥

6.100.37

जगच्छब्दार्थरहितं जगद् अस्ति शिवात्मकम् ।
व्योम्न्य् एव निर्मितं शान्तं व्योम्नस् सूक्ष्मतरेण वा ॥

6.100.38

यथा नभसि शून्यत्वं तथेदं ब्रह्मणि स्थितम् ।
सदसद्वस्तुरूपेण न वा रूपेण केनचित् ॥

6.100.39

एवंरूपं जगद् इदं सम्यग्ज्ञानाच् छिवं भवेत् ।
सम्यग्ज्ञानप्रभावेण विषम् अप्य् अमृतं भवेत् ॥

6.100.40

असम्यग्ज्ञानम् अखिलं जगद् दुःखप्रदं परम् ।
विषबुद्ध्यामृतम् अपि भुक्तं विषरसायते ॥

6.100.41

ईश्वरत्वाद् यथा वेत्ति यद् यद् एष चिदीश्वरः ।
तत् तथैवाशु भवति तादृग्रूपतया शिवम् ॥

6.100.42

यथा ज्वालाभ्रमाला वा विचित्राकारविभ्रमैः ।
तिष्ठत्य् अनन्यरूपैव ब्रह्मसत्ता तथैव हि ॥

6.100.43

यत् परं चित्स्वरूपेण स्थितम् आत्मनि मन्थरम् ।
तत् तेनेदम् अहन्तादि जगदाद्य् एव लक्ष्यते ॥

6.100.44

केवलं परम् एवेत्थं परमं भासते शिवम् ।
कुतो जगदहन्तादि प्रश्न एवेह नोचितः ॥

6.100.45

यद् वस्तु विद्यमानं सत् प्रश्नस् तत्र विराजते ।
प्रेक्षितं यत् तु नास्त्य् एव प्रेक्षाप्रश्नेन तत्र किम् ॥

6.100.46

सन्निवेशं विना सत्ता यथा हेम्नो न विद्यते ।
तथा जगदहम्भावं विना नेशस्य संस्थितिः ॥

6.100.47

अकारणत्वान् नास्तीदं ब्रह्मैवेत्थं विजृम्भते ।
अजृम्भमाणम् एवाहंजगत्त्वेनेह संस्थितम् ॥

6.100.48

यन्मया एव तेनैव मिथस् सम्प्रेरिताशयम् ।
चमत्कुर्वन्त्य् अमी भावाः पञ्चेषु मिथुनौघवत् ॥

6.100.49

चिन्मात्र एव चिन्मात्रं चिन्मात्रेणैव चीयते ।
नानात्मनेवानानैव स्वात्मनात्माप्य् अनात्मवत् ॥

6.100.50

पूर्णात् पूर्णम् उद्धरन्ति पूर्णात् पूर्णानि चक्रिरे ।
भवन्ति पूर्णात् पूर्णानि पूर्णम् एवावतिष्ठते ॥

6.100.51

चिन्मात्रम् एव कचति यच् चिन्मात्रतयात्मनि ।
अकचत् त्व् एव तन् नाम कचितं सर्गवेदनम् ॥

6.100.52

अहं चिता चिद् एवासौ भवतीव स्वयं स्वतः ।
अभवन्त्य् एव रूपं स्वम् अत्यजन्ती निरामयम् ॥

6.100.53

चितो रूपम् अनाद्यन्तं मनोरूपम् अनन्तकम् ।
सम्राट्छरीरम् आभासि भवतीव स्वयम्भुवः ॥

6.100.54

पश्यत्य् अथासद् एवेदं स्वरूपत्वात् सद् एव वा ।
भावनाद् घनताम् एति दृश्यं भवति च क्रमात् ॥

6.100.55

शान्तं जगत्प्रसररूपतया स्वभावशब्दार्थमुक्तम् इदम् अव्यपदेश्यम् एकम् ।
वस्तुस्थितं निजचमत्करणावलोकरूपं जगत्त्वरहितानुभवात्मतत्त्वम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc