मोक्षोपाय · अध्याय 6.101
न विज्ञानमयो ऽर्थो ऽस्ति न बाह्यो नापि शून्यता ।
वेदनामात्रसारत्वाद् यथावित् सो ऽर्थ उच्यते ॥
द्रवत्वं सलिलस्येव विदो वित्त्वम् अकारणम् ।
खात्म नित्यम् अनन्तं तद् यथास्थितम् अवस्थितम् ॥
प्रतियोगिव्यवच्छेदाभावतस् स्वत्वभावयोः ।
असत्ता तेन न परे सत्त्वभावव्यवस्थितिः ॥
यदि कारणतापत्तियोग्यं शान्तं परं भवेत् ।
अनिङ्गनम् अनाभासम् अप्रतर्क्यं कथं भवेत् ॥
अतो न कारणं नैव बीजं ब्रह्म कदाचन ।
कार्यस्य कस्यचिन् नाम तेन सर्गो न विद्यते ॥
न चान्यथोपपत्तिर् हि सर्गस्यास्योपपद्यते ।
चिन्मात्रकाद् ऋते तस्माज् जडस् सर्गो न विद्यते ॥
यद् इदं दृश्यते किञ्चित् तच् चिद्घनम् अवेधितम् ।
असम्भवज्जगच्छब्दशब्दार्थरसरञ्जनम् ॥
कार्यं न कारणाभावात् पदार्थ उपपद्यते ।
द्वित्वैक्याद्यात्मकं व्योमपुष्पवत् स्वानुभूतितः ॥
वस्तु नाशैकनिष्ठत्वान् न चाजम् उपपद्यते ।
उपलम्भे ध्रुवो नाशो जन्म नष्टस्य च ध्रुवम् ॥
अथ वैनं सदा सन्तं नित्यं नष्टं च वेत्सि वा ।
पदार्थौघं तद् एषो ऽर्थ एकरूपो ऽत्र किं व्यथा ॥
उपलम्भस् तु यश् चायं सा चित्तत्त्वचमत्कृतिः ।
चित्तत्त्वमात्रसत्तास्ति द्वित्वम् ऐक्यं च नास्त्य् अलम् ॥
अतः पदार्थसत्ताया अभावे सति भूपते ।
असम्भवे भावनस्य नाहन्ताभावनास्ति ते ॥
अहम्भावासम्भवतश् चित्तम् अन्यत् किम् उच्यते ।
इति चित्तम् अहंरूपं नास्त्य् अतो भव विन्नभः ॥
निर्वासनश् शान्तमना मौनी परनभोमयः ।
सदेहो वा विदेहो वा भव स्थायी चलो ऽथ वा ॥
सर्वत्वाच् छुद्धविद्दृष्टेः पदार्थाभावसिद्धितः ।
भावनाभावतश् चित्ते नास्त्य् एवाहम् अतश् शिवम् ॥
सर्वं ब्रह्मेति वेदार्थभावनाद् अनुभूतितः ।
चेतितार्थैकसत्यत्वाच् चित्तं नाम न विद्यते ॥
तेनासि निर्मलम् अकारणम् आदिमुक्तं तद् ब्रह्म शाश्वतम् अशेषम् अनेकम् एकम् ।
शून्यं विनामयम् असत् सद् अनादिमध्यं सर्वं न किञ्चिद् अपि चास्स्व यथास्थितं सत् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0