मोक्षोपाय · अध्याय 5.94
मनाग् अपि विचारेण चेतसस् स्वस्य निग्रहः ।
मनाग् अपि कृतो येन तेनाप्तं जन्मनः फलम् ॥
विचारकणिका येषां हृदि स्फुरति पेलवा ।
एषैवाभ्यासयोगेन प्रयाति शतशाखताम् ॥
किञ्चित्प्रौढविचारं तु नरं वैराग्यपूर्वकम् ।
संश्रयन्ति गुणा गौरास् सरः पूर्णम् इवाण्डजाः ॥
सम्यग्विचारिणं प्राज्ञं यथाभूतावलोकिनम् ।
आसादयन्त्य् अपि स्फारा नाविद्याविभवा भृशम् ॥
किं कुर्वन्तीह विषया मानस्यो वृत्तयस् तथा ।
आधयो व्याधयो वापि सम्यग्दर्शनसन्मतेः ॥
क्वोन्नमत्पवनापूरास् तडित्पिङ्गलपाटलाः ।
पुष्करावर्तजलदा गृहीता जालमुष्टिभिः ॥
क्व नभोमध्यसंस्थेन्दुर् मुग्धे मणिसमुद्गके ।
मुग्धयाङ्गनया बद्धो मुग्धेन्दीवरशङ्कया ॥
क्व कटप्रोच्छलद्भृङ्गपटलोत्पलशेखराः ।
मुग्धस्त्रीश्वासमधुरैर् मषकैर् मथिता गजाः ॥
क्वेभमुक्ताफलोल्लासनिरणन्नखपञ्जराः ।
सिंहास् समरसंरब्धा हरिणैः प्रविदारिताः ॥
क्व विषोल्लासनिश्श्वासदग्धोन्नतवनद्रुमाः ।
क्षुद्वन्तो ऽजगराः क्षुब्धा निगीर्णा बालदर्दुरैः ॥
क्व प्राप्तभूमिको धीरो ज्ञातज्ञेयो विवेकवान् ।
आक्रान्तः किल विक्रान्तो विषयेन्द्रियदस्युभिः ॥
विचारधियम् अप्रौढां हरन्ति विषयारयः ।
प्रचण्डपवना मृद्वीं क्षतवृन्तां लताम् इव ॥
न विवेकबलप्रौढां भङ्क्तुं शक्ता दुराधयः ।
कल्पक्षोभसहं धीरं शैलं मन्दानिला इव ॥
अगृहीतमहीपीठं विचारकुसुमद्रुमम् ।
चिन्तावात्या विधुन्वन्ति न स्थिरस्थितिसुस्थितम् ॥
गच्छतस् तिष्ठतो वापि जाग्रतस् स्वपतो ऽपि वा ।
न विचारपरं चेतो यस्यासौ मृत उच्यते ॥
किम् इदं स्याज् जगत् किं स्याद् अहम् इत्य् अनिशं शनैः ।
विचारयाध्यात्मदृशा स्वयं वा सज्जनैस् सह ॥
अन्धकारपरेणाशु विचारेण परं पदम् ।
दृश्यते विमलं रत्नं प्रदीपेनेव भास्वता ॥
ज्ञानेन सर्वदुःखानां विनाश उपजायते ।
कृतालोकविलासेन तमसाम् इव भास्वता ॥
ज्ञाने प्रकटतां याते ज्ञेयं स्वयम् उदेत्य् अलम् ।
रवाव् अभ्युदिते भूमाव् आलोक इव निर्मलः ॥
येन शास्त्रविचारेण ब्रह्मतत्त्वं विबुध्यते ।
तज् ज्ञानम् उच्यते ज्ञेयाद् अभिन्नम् इव संस्थितम् ॥
विचारो ऽध्यात्मविद्यानां ज्ञानम् अङ्ग विदुर् बुधाः ।
ज्ञेयम् अस्यान्तर् एवास्ति माधुर्यं पयसो यथा ॥
सम्यग्ज्ञानसमालोकः पुमाञ् ज्ञेयमयस् स्वयम् ।
भवत्य् आपीतमैरेयो मदानन्दमयो यथा ॥
सदसद्रूपम् अमलं ज्ञेयं ब्रह्म परं विदुः ।
ज्ञानाधिगममात्रेण तत् स्वयं सम्प्रसीदति ॥
ज्ञानवान् उदितानन्दो न क्वचित् परिमज्जति ।
जीवन्मुक्तो गतासङ्गं सम्राडात्मैव तिष्ठति ॥
ज्ञानवान् हृद्यशब्देषु वीणावंशरवादिषु ।
कामिन्याः कामगीतेषु सम्भोगमणितेषु च ॥
वसन्तमदमत्तानां षट्पदानां स्वनेषु च ।
प्रावृट्प्रसरपुष्टेषु जलदस्तनितेषु च ॥
उत्ताण्डवशिखण्डेषु केकाकलरवेषु च ।
रणिताम्भोजषण्डेषु सारसक्वणितेषु च ॥
कर्तर्यादिकरान्तेषु गम्भीरमुरजेषु च ।
ततावनद्धसुषिरचित्रवाद्यस्वनेषु च ॥
केषुचिन् न निबध्नाति रूक्षेषु मधुरेषु च ।
रणितेषु रतिं राम पद्मेष्व् इव निशाकरः ॥
ज्ञानवान् बालकदलीस्तम्भपल्लवपाणिषु ।
चन्दनागुरुमन्दारलतास्तबकसद्मसु ॥
कौशेयहारकुन्देन्दुकमलोत्पलभूमिषु ।
द्रवत्काञ्चनकान्तेषु नितम्बस्तनबाहुषु ॥
ऊरुष्व् अनङ्गसदनहेमतोरणशोभिषु ।
सुरगन्धर्वकन्याङ्गलतानन्दनकेलिषु ॥
केषुचिन् न निबध्नाति स्वायत्तेष्व् अप्य् असक्तधीः ।
राम स्पर्शरतिं धीरो हंसो मरुमहीष्व् इव ॥
ज्ञानवान् पिण्डखर्जूरकदम्बपनसादिषु ।
मृद्वीकेक्ष्वारुकाक्षोटबिसजम्बीरजातिषु ॥
मदिरामधुमैरेयमार्द्वीकासवभूतिषु ।
दधिक्षीरघृतामिक्षानवनीतौदनेषु च ॥
षड्रसेषु विचित्रेषु लेह्यपेयविलासिषु ।
फलेष्व् अन्नेषु मूलेषु शाकेष्व् अप्य् आमिषेषु च ॥
केषुचिन् न निबध्नाति तृप्तमूर्तिर् असक्तधीः ।
आस्वादनरतिं विप्रश् श्वशरीरपलेष्व् इव ॥
ज्ञानवान् यमचन्द्रेन्द्ररुद्रविष्ण्वब्जजादिषु ।
मेरुमन्दरकैलाससह्यदर्दुरसानुषु ॥
कौशेयदलजालेषु चन्द्रबिम्बफलादिषु ।
कल्पपादपकुञ्जेषु देवीदोलाविलासिषु ॥
रत्नकाञ्चनकुड्येषु मणिमुक्तामयेषु च ।
तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च ॥
केषुचिद् दर्शनं श्रीमान् नाभिवाञ्छत्य् असक्तधीः ।
परिपूर्णमना मौनी मानी शत्रुष्व् इवाबलः ॥
ज्ञानवान् कुन्दमन्दारकल्हारकुमुदादिषु ।
कमलोत्पलपुन्नागकेतकागुरुजातिषु ॥
कदम्बचूतजम्बीरकिंशुकाशोकशाखिषु ।
जपातिमुक्तसौवीरनिम्बपाटलदामसु ॥
चन्दनागुरुकर्पूररजोमृगमदेषु च ।
कश्मीरजलवङ्गैलाकक्कोलतगरादिषु ॥
केषुचिन् न निबध्नाति सौगन्ध्यरतिम् एकधीः ।
समबुद्धिर् अविक्षोभी मध्वामोदेष्व् इव द्विजः ॥
अब्धौ गुलुगुलारावे प्रतिश्रुत्कस्वने गिरौ ।
निनदे च मृगेन्द्राणां न क्षुभ्यति मनाग् अपि ॥
मत्तमातङ्गबृंहासु वेतालवलनासु च ।
पिशाचयक्षक्ष्वेडासु न मनाग् अपि कम्पते ॥
अशनिस्वनघोषेण नगास्फोटरवेण च ।
ऐरावणनिनादेन साम्यध्यानान् न कम्पते ॥
वहत्क्रकचकाषेण शितासिदलनेन च ।
शिलाशनिनिपातेन कम्पते न स्वरूपतः ॥
नानन्दम् एत्य् उपवने न खेदम् अधिगच्छति ।
न खेदम् एति मरुषु नानन्दम् अधिगच्छति ॥
पूताङ्गारसमानल्पसैकतेष्व् अरिबन्धुषु ।
पुष्पप्रकरसञ्छन्नमृदुशाद्वलभूमिषु ॥
क्षुरधारासु तीक्ष्णासु शय्यासु च नवोत्पलैः ।
उन्नताचलदेशेषु कूपकोशतलेषु च ॥
शिलास्व् अर्कांशुतप्तासु मृद्वीषु ललनासु च ।
सम्पत्स्व् आपत्सु चोग्रासु मरणेषूत्सवेषु च ॥
विहरन्न् अपि नोद्वेगं नानन्दम् अधिगच्छति ।
अन्तर्मुक्तं मनो नित्यं समं कृत्वैव तिष्ठति ॥
अयश्शङ्कुचिताङ्गासु नरकारण्यभूमिषु ।
परस्परेरितानन्तकुन्ततोमरवृष्टिषु ॥
न बिभेति न चादत्ते वैवश्यं न च दीनताम् ।
समस् स्वस्थमना मौनी धीरस् तिष्ठति शैलवत् ॥
अपवित्रं च पथ्यं च विषपङ्कगराद्य् अपि ।
भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत् ॥
निम्बप्रतिविषाकल्कक्षीरेक्षुसलिलान्धसाम् ।
असक्तबुद्धिस् तत्त्वज्ञो भवत्य् आस्वादने समः ॥
मैरेयमदिराक्षीररक्तमेदोवसासवैः ।
तुषास्थितृणकेशान्नैर् न हृष्यति न कुप्यति ॥
जीवितस्यापि हन्तारं दातारं चैकरूपया ।
दृशा प्रसादमाधुर्यशालिन्या परिपश्यति ॥
स्थिरास्थिरशरीरेषु रम्यारम्येषु वस्तुषु ।
न हृष्यति ग्लायति वा सदा समतयेद्धया ॥
त्यक्तास्थत्वाद् अनादेयरूपत्वाज् जगतस् स्थितेः ।
नूनं विदितवेद्यत्वान् नीरागत्वात् स्वचेतसः ॥
न कस्यचिन् न कस्याञ्चिद् अक्षस्य विषयस्थितौ ।
ददाति प्रसरं साधुर् आधिप्रोज्झितया धिया ॥
अतत्त्वज्ञम् अविश्रान्तम् अलब्धात्मानम् अस्थिरम् ।
निगिरन्तीन्द्रियाण्य् आशु हरिणा इव पल्लवम् ॥
उह्यमानं भवाम्भोधौ वासनावीचिवेल्लितम् ।
निगिरन्तीन्द्रियग्राहा हाहाक्रन्दपरायणम् ॥
विचारतो लब्धपदं विश्रान्तधियम् आत्मनि ।
न हरन्ति विकल्पौघा जलौघा इव पर्वतम् ॥
सर्वसङ्कल्पसीमान्ते विश्रान्तानां परे पदे ।
तेषां लब्धस्वरूपाणां मेरुर् एव तृणायते ॥
जगज् जरत्तृणलवो विषं चामृतम् एव च ।
क्षणः कल्पसहस्रं च समता ततचेतसाम् ॥
संविन्मात्रं जगद् इति मत्वा मुदितबुद्धयः ।
संविन्मयत्वाद् अन्तस्स्थजगत्का विहरन्त्य् अमी ॥
संविन्मात्रपरिस्पन्दे जागते वस्तुपञ्जरे ।
किं हेयं किम् उपादेयम् इह तत्त्वविदो मुनेः ॥
संविद् एवेदम् अखिलं भ्रान्तिम् अन्यां त्यजानघ ।
संविन्मयवपुस् स्फारः किं जहासि किम् ईहसे ॥
यद् एतज् जायते भूमेर् भविष्यत् पेलवाङ्कुरः ।
तत् संविद् एव प्रथते तथा न त्व् अङ्कुरो ऽस्ति सः ॥
आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तस्य या ।
कञ्चित् काललवं दृष्टा सत्तासौ संविदो भ्रमः ॥
इति मत्वा धियं त्यक्त्वा भावाभावानुपातिनीम् ।
निस्सङ्गसंविद्भारूपो भव भावान्तम् आगतः ॥
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि ।
कर्म कुर्वन्न् अकुर्वन् वा निस्सङ्गस् सन् न लिप्यसे ॥
गतसङ्गेन मनसा कुर्वन्न् अपि न लिप्यसे ।
सुखदुःखैर् महाबाहो मनोरथदशास्व् इव ॥
गतसङ्गमतिः कर्म कुर्वन्न् अप्य् अङ्गयष्टिभिः ।
न लिप्यते सुखैर् दुःखैर् मनोरथकलास्व् इव ॥
गतसङ्गमना दृष्ट्या पश्यन्न् अपि न पश्यति ।
एतद् अन्यस्थचित्तत्वाद् बालेनाप्य् अनुभूयते ॥
गतसङ्गं मनो जन्तोः पश्यंश् चापि न पश्यति ।
न शृणोत्य् अपि शृण्वंश् च न स्पृशत्य् अपि संस्पृशन् ॥
न जिघ्रत्य् अपि जिघ्रंश् च नोन्मिषंश् चोन्मिषत्य् अपि ।
पदार्थे न पतत्य् एव बलात् पातितम् अप्य् अलम् ॥
देशान्तरस्थचेतोभिर् एतद् आत्मगृहस्थितैः ।
अप्रौढमतिभिस् साधु मुर्खैर् अप्य् अनुभूयते ॥
सङ्गः कारणम् अर्थानां सङ्गस् संसारकारणम् ।
सङ्गः कारणम् आशानां सङ्गः कारणम् आपदाम् ॥
सङ्गत्यागं विदुर् मोक्षं सङ्गत्यागाद् अजन्मता ।
सङ्गं सन्त्यज्य भावानां जीवन्मुक्तो भवानघ ॥
सर्वसंशयनीहारशरन्मारुत हे मुने ।
सङ्गः किम् उच्यते ब्रूहि समासेन मम प्रभो ॥
भावाभावे पदार्थानां हर्षामर्षविकारदा ।
मलिना वासना यैषा स सङ्ग इति कथ्यते ॥
जीवन्मुक्तशरीराणाम् अपुनर्जन्मकारिणी ।
मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ॥
ताम् असङ्गाभिधां विद्धि यावद्देहं च भाविनीम् ।
तया यत् क्रियते कर्म तद् बन्धायैव केवलम् ॥
एवंरूपं परित्यज्य सङ्गं स्वाङ्गविकारदम् ।
यदि तिष्ठसि निर्व्यग्रं कुर्वन्न् अपि तद् अस्य् असि ॥
हर्षामर्षविकाराभ्यां यदि गच्छसि नान्यताम् ।
वीतरागभयक्रोधस् तद् असङ्गो ऽसि राघव ॥
असङ्गताम् अनायासां जीवन्मुक्तस्थितिं स्थिराम् ।
अवलम्ब्य समस् स्वस्थो वीतरागो भवानघ ॥
जीवन्मुक्तमतिर् मौनी निगृहीतेन्द्रियग्रहः ।
अमानमदमात्सर्य आर्यस् तिष्ठति विज्वरः ॥
सदा समग्रे ऽपि हि वस्तुजाते समाशयो ऽप्य् अन्तर् अदीनसत्त्वः ।
व्यापारमात्रात् सहजात् क्रमस्थान् न किञ्चिद् अप्य् अन्यद् असौ करोति ॥
यद् एव किञ्चित् प्रकृतक्रमस्थं कर्तव्यम् आत्मीयम् असौ तद् एव ।
संसङ्गसम्बन्धविहीनयैव कुर्वन्न् अखेदो रमते धियान्तः ॥
अप्य् आपदं प्राप्य सुसम्पदं वा महामतिस् स्वं प्रकृतं स्वभावम् ।
जहाति नो मन्दरवेल्लितो ऽपि शौक्ल्यं यथा क्षीरमहाम्बुराशिः ॥
सम्प्राप्य साम्राज्यम् अथापदं वा सरीसृपत्वं सुरनाथतां वा ।
तिष्ठत्य् अखेदोदयम् अस्तहर्षं क्षयोदयेष्व् इन्दुर् इवैकरूपः ॥
निरस्तसंरम्भम् अपास्तभेदं प्रशान्तनानाफलफल्गुचेष्टः ।
विचारयात्मानम् अदीनसत्त्वो यथा भवस्य् उत्तमकार्यनिष्ठः ॥
तथोदितप्रसरविलासशुद्धया गतज्वरं पदम् अवलोकयामलम् ।
धियेद्धया पुनर् इह जन्मबन्धनैर् न बध्यसे समधिगतात्मदृग् यथा ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0