मोक्षोपाय · अध्याय 5.93
एतानि तानि प्रोक्तानि त्वया बीजानि मानद ।
कतमस्य प्रयोगेण शीघ्रं तत् प्राप्यते पदम् ॥
एतेषां दुःखबीजानां प्रोक्तं यद् यन् मयोत्तरम् ।
तस्य तस्य प्रयोगेण शीघ्रम् आसाद्यते पदम् ॥
सत्तासामान्यकोटिस्थे झगित्य् एव पदे यदि ।
पौरुषेण प्रयत्नेन बलात् सन्त्यज्य वासनाः ॥
स्थितिं बध्नासि तत्त्वज्ञ क्षणम् अप्य् अक्षयात्मिकाम् ।
क्षणे ऽस्मिन्न् एव तत् साधु पदम् आसादयस्य् अलम् ॥
सत्तासामान्यरूपे वा करोषि स्थितिम् अङ्ग चेत् ।
तत् किञ्चिदधिकेनेह यत्नेनाप्नोषि तत् पदम् ॥
संवित्तत्त्वे कृतज्ञानो यदि तिष्ठसि वानघ ।
तद् यत्नेनाधिकेनोच्चैर् आसादयसि तत् पदम् ॥
संवेद्ये केवले ध्यानं न सम्भवति राघव ।
सर्वत्र सम्भवाद् अस्यास् संवित्तेर् एव सर्वदा ॥
यच् चिन्तयसि यद् यासि यत् तिष्ठसि करोषि वा ।
तत्र तत्र स्थिता संवित् संविद् एव तद् एव वा ॥
वासनासम्परित्यागे यदि यत्नं करोषि वा ।
तत् ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात् ॥
पूर्वेभ्यस् तु प्रयत्नेभ्यो विषमो ऽयं हि संस्मृतः ।
दुस्साधो वासनात्यागस् सुमेरून्मूलनाद् अपि ॥
यावद् विलीनं न मनो न तावद् वासनाक्षयः ॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।
मिथः कारणतां गत्वा दुस्साधानि स्थितान्य् अतः ॥
तस्माद् राघव यत्नेन पौरुषेण विवेकिना ।
भोगेच्छां दूरतस् त्यक्त्वा त्रयम् एतत् समाश्रयेत् ॥
सर्व एते समं यावन् न स्वभ्यस्ता मुहुर् मुहुः ।
तावन् न पदसम्प्राप्तिर् भवत्य् अपि समाशतैः ॥
वासनाक्षयविज्ञानमनोनाशा महामतेः ।
समकालं चिराभ्यस्ता भवन्ति फलदा मुनेः ॥
एकैकशो निषेव्यन्ते यद्य् एते चिरम् अप्य् अलम् ।
तन् न सिद्धिं प्रयच्छन्ति मन्त्राश् शकलिता इव ॥
चिरकालोपचरिता अप्य् एते सुधियो ऽपि च ।
एकशः परम् अभ्येतुं न शक्तास् सैनिका इव ॥
समम् उद्योगम् आनीतास् सन्त एते हि धीमता ।
सम्सारारिं निकृन्तन्ति मूलाद् अपि भटा इव ॥
वासनाक्षयविज्ञानमनोनाशाः प्रयत्नतः ।
समं सेव्यास् तव चिरं तेन तात न तप्यसे ॥
त्रिभिर् एभिश् चिराभ्यस्तैर् हृदयग्रन्थयो दृढाः ।
निश्शेषम् एव त्रुट्यन्ति बिसच्छेदाद् गुणा इव ॥
जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः ।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥
गच्छञ् शृण्वन् स्पृशञ् जिघ्रंस् तिष्ठञ् जाग्रत् स्वपन् सदा ।
श्रेयसे परमायास्य त्रयस्याभ्यासवान् भव ॥
वासनासम्परित्यागसमं प्राणनिरोधनं ।
विदुस् तत्त्वविदस् तस्मात् तद् अप्य् एवं समाहरेत् ॥
वासनासम्परित्यागाच् चित्तं गच्छत्य् अचित्तताम् ।
प्राणस्पन्दनिरोधाच् च यथेच्छसि तथा कुरु ॥
प्राणायामदृढाभ्यासैर् युक्त्या च गुरुदत्तया ।
आसनासनयोगेन प्राणस्पन्दो निरुध्यते ॥
सम्यग्ज्ञानविलासेन जगद्वस्तुष्व् अनास्थया ।
यथाभूतार्थदर्शित्वाद् वासना न प्रवर्तते ॥
अदाव् अन्ते च वस्तूनाम् अविसंवादि यत् स्थिरम् ।
रूपं तद्दर्शनं ज्ञानं क्षीयते तेन वासना ॥
निस्सङ्गं व्यवहारित्वाद् भवभावनवर्जनात् ।
शरीरे नाशदर्शित्वाद् वासना न प्रवर्तते ॥
संशान्ते पवनस्पन्दे यथा पांसुर् नभस्तले ।
वासनाविभवे नष्टे न चित्तं सम्प्रवर्तते ॥
यः प्राणपवनस्पन्दश् चित्तस्पन्दस् स एव हि ।
तस्माज् जगन्ति जायन्ते पांसवो ऽवकराद् इव ॥
प्राणस्पन्दजयो यत्नः कर्तव्यो धीमतोच्चकैः ।
उपविश्योपविश्यैकचित्तकेन मुहुर् मुहुः ॥
अथ वैनं क्रमं त्यक्त्वा चित्ताक्रमणम् एव चेत् ।
रोचते ते तद् आप्नोषि कालेन बहुना पदम् ॥
न शक्यते मनो जेतुं विना युक्तिम् अनिन्दित ।
अङ्कुशेन विना मत्तं यथा दुष्टमतङ्गजम् ॥
अध्यात्मविद्याधिगमस् साधुसङ्गम एव च ।
वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् ॥
एतास् ता युक्तयः पुष्टास् सन्ति चित्तजये किल ।
याभिस् तज् जीयते क्षिप्रं धाराभिर् इव भूरजः ॥
सतीषु युक्तिष्व् एतासु हठान् नियमयन्ति ये ।
चेतस् ते दीपम् उत्सृज्य विनिघ्नन्ति तमो ऽञ्जनैः ॥
विमूढाः कर्तुम् उद्युक्ता ये हठाच् चेतसो जयम् ।
ते निबध्नन्ति नागेन्द्रम् उन्मत्तं बिसतन्तुभिः ॥
चिरं चित्तस्य मादूरं संस्थितं स्वशरीरकम् ।
शोधयन्ति समुत्सृज्य युक्तिं ये तान् हतान् विदुः ॥
भयाद् भयम् उपायान्ति क्लेशात् क्लेशं व्रजन्ति ते ।
निर्वृतिं नाधिगच्छन्ति दुर्भगा इव जन्तवः ॥
कालं तीर्थतपोदानयज्ञदेवार्चनभ्रमैः ।
चिरम् आधिशतोपेताः क्षपयन्ति मृगा इव ॥
भ्रमन्ति गिरिकूटेषु फलपल्लवभोजिनः ।
मुग्धमुग्धधियो भीता वराका हरिणा इव ॥
मतिर् आलूनशीर्णाङ्गी तदीया पेलवाङ्गिका ।
न क्वचिद् याति विश्वासं मृगी ग्रामगता यथा ॥
कल्लोलवलितं चेतस् तेषां जडजवाहृतम् ।
प्रोह्यते प्रपतद् दूरं तृणं गिरिनदीष्व् इव ॥
आत्मतत्त्वं विधिवशात् कदाचित् किञ्चिद् एव ते ।
दुःखदोषदशादिग्धा विदन्ति न विदन्ति वा ॥
आगमापायिनो नित्या नरकस्वर्गमानुषैः ।
पातोत्पातकराकारा नीयन्ते कन्दुका इव ॥
ततो गच्छन्ति नरकं ततस् स्वर्गम् इहैव वा ।
आवृत्तिभिर् विवर्तन्ते सरितीव तरङ्गकाः ॥
तस्माद् एताः परित्यज्य दुर्दृष्टी रघुनन्दन ।
शुद्धां संविदम् आश्रित्य वीतरागस् स्थिरो भव ॥
ज्ञानवान् एव सुखभाग् ज्ञानवान् एव जीवति ।
ज्ञानवान् एव बलवांस् तस्माज् ज्ञानमयो भव ॥
संवेद्यवर्जितम् अनुत्तमम् आद्यम् एकं संवित्पदं विकलनं कलयन् महात्मन् ।
हृद्य् एव तिष्ठ कलनारहितः क्रियां तु कुर्वन्न् अकर्तृपदम् एष्य् असमोदितश्रीः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0