मोक्षोपाय · अध्याय 5.92
परमाकाशकोशाद्रिरूढं लोकान्तरद्रुमम् ।
तारकापुष्पशबलं देवासुरविहङ्गमम् ॥
विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् ।
सर्वर्तुरम्यं चन्द्रार्कगणरम्यं कचत्तटम् ॥
सप्ताब्धिवापीवलितं सरिच्छतनिरन्तरम् ।
चतुर्दशविधानन्तभूतजातोपजीवितम् ॥
जगत्काननम् आक्रम्य स्थितायाः कृतजालकम् ।
ब्रह्मन् संसृतिमृद्वीकालताया वितताकृतेः ॥
जरामरणपर्यायदुःखदुःखफलावलेः ।
प्ररूढमूलमालाया मोहसेकजलाञ्जलेः ॥
किं बीजम् अथ बीजस्य तस्य किं बीजम् उच्यते ।
अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत् ॥
सर्वम् एतत् समासेन पुनर् बोधाभिवृद्धये ।
सिद्धये ज्ञानसारस्य वद मे वदतां वर ॥
अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् ।
संसृतिव्रततेर् बीजं शरीरं विद्धि राघव ॥
शाखाप्रतानगहना फलपल्लवलासिनी ।
तेनेयं भवति स्फीता शरदीव वसुन्धरा ॥
भावाभावदशाकोशं दुःखरत्नसमुद्गकम् ।
बीजम् अस्य शरीरस्य चित्तम् आशावशानुगम् ॥
चित्ताद् इदम् उदेत्य् उच्चैस् सच् चासच् चाङ्गजालकम् ।
तथा चैतत् स्वयं स्वप्नसम्भ्रमेष्व् अनुभूयते ॥
यथा गन्धर्वसङ्कल्पात् पुरम् एवं हि चेतसः ।
सवातायनम् आकारभासुरं जायते वपुः ॥
यद् इदं किञ्चिद् आभोगि जागतं दृश्यतां गतम् ।
रूपं तच् चेतसस् स्फारं घटादित्वं मृदो यथा ॥
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥
यदा प्रस्पन्दते प्राणो नाडीसंस्पर्शनोद्यतः ।
तदा संवेदनमयं चित्तम् आशु प्रजायते ॥
यदा न स्पन्दते प्राणस् सिरासरणिकोटरे ।
असंवित्तिवशात् तेन चित्तम् अन्तर् न जायते ॥
प्राणस्पन्दनम् एवेदं चित्तद्वारेण दृश्यते ।
जगत्ताम् आगतं व्योम्नि नीलत्वादीव दृग्दृशा ॥
प्राणप्रस्पन्दनं पुंस्ता तच्छान्तिश् शान्तिर् उच्यते ।
प्राणप्रस्पन्दनात् संविद् वाति वीटेव चोदिता ॥
संवित् स्फुरति देहेषु प्राणस्पन्दप्रबोधिता ।
चक्रावर्तैर् अङ्गनेषु वीटेव करताडिता ॥
सती सर्वगता संवित् प्राणस्पन्देन बोध्यते ।
सूक्ष्मात् सूक्ष्मतराकारा गन्धलेखेव वायुना ॥
संवित्संरोधनं श्रेयः परमं विद्धि राघव ।
कारणं समतायास् तत् क्षोभस् तत्र न विद्यते ॥
संवित् समुदितैवाशु याति संवेद्यम् आदरात् ।
संवेदनाद् अनन्तानि ततो दुःखानि चेतसः ॥
सुप्ता पुनर् अबोधाय संवित् सन्तिष्ठते यदा ।
लब्धं भवति लब्धव्यं तदा तद् अमलं पदम् ॥
तस्मात् प्राणपरिस्पन्दैर् वासनाचोदनैस् तथा ।
नो चेत् संविदम् उच्छूनां करोषि तद् अजो भवान् ॥
संविदुच्छूनता चित्तं विद्धि तेनेदम् आततम् ।
अनर्थजालम् आलूनविशीर्णजनजीवकम् ॥
योगिनश् चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् ।
प्राणायामैस् तथा ध्यानैः प्रयोगैर् युक्तिकल्पितैः ॥
चित्तोपशान्तिफलदं परमं साम्यकारणम् ।
सुभगं संविदस् स्वास्थ्यं प्राणसंरोधनं विदुः ॥
ज्ञानवद्भिः प्रकटिताम् अनुभूतां च राघव ।
चित्तस्योत्पत्तिम् अपरां वासनात इमां शृणु ॥
दृढभावनया त्यक्तपूर्वापरविचारणम् ।
यद् आदानं पदार्थस्य वासना सा प्रकीर्तिता ॥
भावितं तीव्रसंवेगाद् आत्मना यत् तद् एव सः ।
भवत्य् आशु महाबाहो विगतेतरसंस्मृतिः ॥
तादृग्रूपो हि पुरुषो वासनाविवशीकृतः ।
यत् पश्यति तद् एतत् तत् सद्वस्त्व् इति विमुह्यति ॥
वासनावेशवैवश्यात् स्वरूपं प्रजहाति तम् ।
भ्रमं पश्यति दुर्दृष्टिस् सर्वं मदवशाद् इव ॥
असम्यग्ज्ञानवान् एव भवत्य् आधिपरिप्लुतः ।
अन्तस्स्थया वासनया विषूच्येव वशीकृतः ॥
असम्यग्दर्शनं यत् स्याद् यद् अनात्मात्मभावनम् ।
यद् अवस्तुनि वस्तुत्वं तच् चित्तं विद्धि राघव ॥
दृढाभ्यासपदार्थैकभावनाद् अतिचञ्चलम् ।
चित्तं सञ्जायते जन्मजरामरणकारणम् ॥
यदा न वास्यते किञ्चिद् धेयोपादेयरूपि यत् ।
स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥
अवासनत्वात् सततं यदा न मनुते मनः ।
अमनस्ता तदोदेति परमोपशमप्रदा ॥
यदा किञ्चिन् न संवित्तौ स्फुरत्य् अभ्रम् इवाम्बरे ।
तदा पद्म इवाकाशे चित्तम् अन्तर् न जायते ॥
यदा न भाव्यते भावः क्वचिज् जगति वस्तुनि ।
तदा हृदम्बरे शून्ये चित्तरक्षो न जायते ॥
एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव ।
यद् भावनं वस्तुनो ऽन्ता रागेण च रसेन च ॥
न काञ्चित् कलनायोग्यां दृशं भावयतस् स्वतः ।
आकाशकोशस्वच्छस्य कुतश् चित्तोदयो भवेत् ॥
यद् अभावनम् आस्थाया यद् अभावस्य भावनम् ।
यद् यथावस्तुदर्शित्वं तद् अचित्तत्वम् उच्यते ॥
सर्वम् अन्तः परित्यज्य शीतलाशयवर्ति यत् ।
वृत्तिस्थम् अपि तच् चित्तम् असद्रूपम् उदाहृतम् ॥
वासनायां रसादानाद् रागो यस्य न विद्यते ।
तस्य चित्तम् अचित्तत्वं गतं सत्त्वं तद् उच्यते ॥
न वासना घना यस्य पुनर्जननकारिणी ।
जीवन्मुक्तस् स सत्त्वस्थश् चक्रभ्रमवद् आस्थितः ॥
भृष्टबीजोपमा येषां पुनर्जननवर्जिता ।
वासना रसनिर्हीना जीवन्मुक्ता हि ते स्मृताः ॥
सत्त्वरूपपरिप्राप्तचित्तास् ते ज्ञानपारगाः ।
अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥
द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने ।
एकस्मिंश् च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥
मिथः कारणम् एते हि बीजे जन्मनि चेतसः ।
जलाङ्गीकरणे राम जलाशयघनाव् इव ॥
बीजाङ्कुरवद् एते हि स्थिते च तिलतैलवत् ।
अविनाभाविनी नित्यं कालापेक्षक्रमे तथा ॥
सार्धम् उत्पादयेते तु चित्तकं संविदात्मकम् ।
यथा घ्राणेन्द्रियानन्दम् आमोदपवनाव् उभौ ॥
चित्तस्योत्पादके सार्धं तथैते वा समे तदा ।
आमोदपुष्पवत् तैलतिलवच् च व्यवस्थिते ॥
वासनावशतः प्राणस्पन्दस् तेन च वासना ।
जायते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ॥
वासनोत्प्लूयमानत्वात् संवित् प्रक्षोभकर्मणा ।
प्राणस्पन्दं बोधयति तेन चित्तं प्रजायते ॥
प्राणस् स्पन्दनधर्मित्वात् स्पन्दते स्पृष्टहृद्गुहः ।
संविदं बोधयंस् तेन चित्तबालः प्रजायते ॥
एवं हि वासनाप्राणस्पन्दौ चित्तस्य कारणम् ।
तयोर् एकक्षये नाशो द्वयोश् चित्तस्य चानघ ॥
सुखदुःखमहास्कन्धं शरीरकमहाफलम् ।
कार्यपल्लविताकारं वृत्तिव्रततिवेष्टितम् ॥
तृष्णाकृष्णाहिवलितं रागरोगबकालयम् ।
अज्ञानमूलं सुदृढं लीनेन्द्रियविहङ्गमम् ॥
वासनाक्षयनामैतं चित्तवृक्षं क्षणेन हि ।
प्रपातयति वातौघः कालपक्वं फलं यथा ॥
पाण्डुरीकृतसर्वाशं स्थगिताखिलदर्शनम् ।
विलोलजलदाकारम् अज्ञानावकरोत्थितम् ॥
तृष्णातृणलवप्राप्तं स्तम्भाकृतिशरीरकम् ।
स्फुरत्तनुतनुक्षुब्धं लुब्धम् उत्प्लवनं प्रति ॥
अन्तस्स्थितमहालोकम् अपश्यत् प्रविलीयते ।
पवनस्पन्दरोधाच् च राम चित्तरजः क्षणात् ॥
वासनाप्राणपवनस्पन्दयोर् अनयोस् तयोः ।
संवेद्यं बीजम् इत्य् उक्तं स्फुरतस् तौ यतस् ततः ॥
हृदि संवेद्यगर्धेन प्राणस्पन्दो ऽथ वासना ।
उदेति तस्मात् संवेद्यं कथितं बीजम् एतयोः ॥
संवेद्यसम्परित्यागात् प्राणस्पन्दनवासने ।
समूलं नश्यतः क्षिप्रं मूलच्छेदाद् इव द्रुमौ ॥
संविदं विद्धि संवेद्यबीजं वीर तया विना ।
न सम्भवति संवेद्यं तैलहीनस् तिलो यथा ॥
न बहिर् नान्तरे किञ्चित् संवेद्यं विद्यते पृथक् ।
संवित् स्फुरन्ती सङ्कल्प्य संवेद्यं स्फुरति स्वतः ॥
स्वप्ने यथात्ममरणं तथा देशान्तरस्थितिः ।
स्वचमत्कारयोगेन संवेद्यं संविदस् तथा ॥
संवेदनं स्वसङ्कल्पात् संविदो यत् प्रवर्तते ।
जगज्जालकतां याति तद् इदं रघुनन्दन ॥
यथा बालस्य वेतालस् स्वसङ्कल्पोद्भवो भवेत् ।
पुरुषत्वं यथा स्थाणोस् संवेद्यं संविदस् तथा ॥
एतन् मिथ्या विदुर् ज्ञानं सम्यग्ज्ञानाद् विलीयते ।
रज्ज्वाम् इव भुजङ्गत्वं द्वीन्दुत्वं स्वीक्षिताद् इव ॥
शुद्धैव संवित् त्रिजगत् संवेद्यं नान्यद् अस्त्य् अलम् ।
इत्य् अन्तर् निश्चयो रूढस् सम्यग्ज्ञानं विदुर् बुधाः ॥
पूर्वं दृष्टम् अदृष्टं वा यद् अस्याः प्रतिभासते ।
संविदस् तत् प्रयत्नेन मार्जनीयं विजानता ॥
तदमार्जनमात्रं हि महासंसारतां गतम् ।
तत्प्रमार्जनमात्रं तु मोक्ष इत्य् अभिधीयते ॥
संवेदनम् अनन्ताय दुःखाय जननात्मने ।
असंवित्तिर् अजाड्यस्था सुखायाजननात्मने ॥
अजडो गलितानन्दस् त्यक्तसंवेदनो भव ।
असंवेद्यः प्रबुद्धात्मा यस् त्वं स त्वं रघूद्वह ॥
अजडश् चाप्य् असंवित्तिः कीदृशो भवति प्रभो ।
असंवित्तौ च जाड्यं तत् कथं वा विनिवार्यते ॥
यस् सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित् ।
जीवो न विन्दते किञ्चिद् असंविद् अजडो हि सः ॥
संविद्वस्तुदशालम्बस् स यस्येह न विद्यते ।
सो ऽसंविद् अजडः प्रोक्तः कुर्वन् कार्यशतान्य् अपि ॥
संवेद्येन हृदाकाशो मनाग् अपि न लिप्यते ।
यस्यासाव् अजडो ऽसंविज् जीवन्मुक्तश् च कथ्यते ॥
यदा न भाव्यते किञ्चिन् निर्वासनतयात्मनि ।
बालमूकादिविज्ञानम् इव च स्थीयते स्थिरम् ॥
तदा जाड्यविनिर्मुक्तम् असंवेदनम् आततम् ।
आश्रितं भवति प्राज्ञ यस्माद् भूयो न लिप्यते ॥
समस्तवासनात्यागान् निर्विकल्पसमाधितः ।
नीलत्वम् इव खात् स्फार आनन्दस् सम्प्रवर्तते ॥
योगिनस् तत्र लीनस्य निस्संवेदनसंविदः ।
तन्मयत्वाद् अनाद्यन्तं तद् अप्य् अन्तर् विलीयते ॥
गच्छंस् तिष्ठन् स्पृशञ् जिघ्रन्न् अपि तेन स उच्यते ।
अजडो गलितानन्दस् त्यक्तसंवेदनस् सुखी ॥
एतां दृष्टिम् अवष्टभ्य कष्टया नष्टचेष्टया ।
तर दुःखाम्बुधेः पारम् अपारगुणसागरः ॥
यथा बीजाद् बृहद्वृक्षो व्योम व्याप्नोति कालतः ।
तथैवेदं स्वसङ्कल्पात् संवेद्यं संविदुत्थितम् ॥
यदा सङ्कल्प्य सङ्कल्पं संवित् संविन्दते वपुः ।
तदास्य जन्मजालस्य सैव गच्छति बीजताम् ॥
जनयित्वात्मनात्मानं मोहयित्वा पुनः पुनः ।
स्वयं मोक्षं नयत्य् अन्ते संवित् सर्वत्र राघव ॥
यद् एव भावयत्य् एषा तद् एव भवति क्षणात् ।
नटवद् भूमिकां त्यक्त्वा स्वम् आयाति चिराद् वपुः ॥
देवो नागो ऽसुरो यक्षो रक्षः पुङ्किन्नरो गजः ।
आत्मैवास्या विलासिन्या जगन्नट्याः प्रनृत्यति ॥
बद्ध्वात्मानं रुदित्वा च कोशकारः क्रिमिर् यथा ।
चिरात् केवलताम् एति स्वयं संवित् स्वभावतः ॥
जगज्जलधिजालानां संविज् जलम् अलं तथा ।
यथैवापूर्य दिक्चक्रं स्फुरत्य् अद्र्यादितां गता ॥
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः ।
इत्य् अस्या वीचयः प्रोक्तास् संवित्सलिलसन्ततेः ॥
संविन्मात्रं जगत् सर्वं द्वितीया नास्ति कल्पना ।
इत्य् एव सम्यग्ज्ञानेन संविद् गच्छति नान्यताम् ॥
यदा न विन्दते किञ्चित् स्पन्दते न न चोपति ।
स्वात्मन्य् एव स्थितिं याति संविन् नालिप्यते तदा ॥
अथास्यास् संविदो राम सन्मात्रं बीजम् उच्यते ।
सत्त्वमात्राद् उदेत्य् एषा प्राकाश्यम् इव तेजसः ॥
द्वे रूपे तत्र सत्ताया एकं नानाकृति स्थितम् ।
द्वितीयम् एकरूपं तु विभागो ऽयं तयोश् शृणु ॥
घटता पटता तत्ता त्वत्ता मत्तेति कथ्यते ।
सत्तारूपं विभागेन यत् तु नानाकृति स्थितम् ॥
विभागं तु परित्यज्य सत्तैकात्मतया ततम् ।
सामान्येनैव सत्ताया रूपम् एकम् उदाहृतम् ॥
विशेषं सम्परित्यज्य सन्मात्रं यद् अलेपकम् ।
एकरूपं महारूपं सत्तायास् तत् परं विदुः ॥
रूपं नानाकृतित्वेन सत्ताया न कदाचन ।
असंवेद्यं सम्भवति तस्माद् एतद् अवस्तुकम् ॥
एकरूपं तु यद् रूपं सत्ताया विमलात्मकम् ।
न कदाचन तद् याति नाशं नापि च विस्मृतिम् ॥
कालसत्ता कलासत्ता वस्तुसत्तेयम् इत्य् अपि ।
विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ॥
कालसत्ता खसत्ता च प्रोन्मुक्तकलना सती ।
यद्य् अप्य् उत्तमसद्रूपा तथाप्य् एषा न वास्तवी ॥
विभागकलना यत्र विभिन्नमतदायिनी ।
नानाताकारणं दृष्टा तत् कथं पावनं भवेत् ॥
सत्तासामान्यम् एवैकं भावयन् केवलं वपुः ।
परिपूर्णः परानन्दी तिष्ठाभरितदिग्भरः ॥
सत्तासामान्यमात्रस्य या कोटिः कोविदेश्वर ।
सैवास्य बीजतां याता तत एष प्रवर्तते ॥
सत्तासामान्यपर्यन्तं यत् तत् कलनयोज्झितम् ।
पदम् आद्यम् अनाद्यन्तं तस्य बीजं न विद्यते ॥
संविल् लयं याति तत्र निर्विकारं च तिष्ठति ।
भूयो नावर्तते दुःखे तत्र लब्धवती पदम् ॥
तद् धेतुस् सर्वहेतूनां तस्य हेतुर् न विद्यते ।
स सारस् सर्वसाराणां तस्मात् सारो न विद्यते ॥
तस्मिंश् चिद्दर्पणे स्फारे समग्रा वस्तुदृष्टयः ।
इमास् ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥
सर्वे भावा इमे तत्र स्वदन्ते स्वादधारिणि ।
षड्रसा इव जिह्वायां प्रकटत्वं प्रयान्ति च ॥
तत् खाद् अच्छतरस्यापि चिदाकाशस्य वै पदम् ।
सर्वेषां स्वादजातानाम् अलम् आस्वादनं च तत् ॥
जायते वर्तते चैव वर्धते दृश्यते तथा ।
सन्तिष्ठते विगलति तत्राङ्ग जगतां गणः ॥
तत् तद् गुरु गरिष्ठानां तत् तल् लघु लघीयसाम् ।
तत् तत् स्थूलं स्थविष्ठानाम् अणीयस् तद् अणीयसाम् ॥
दविष्ठानां दविष्ठं तद् अन्तिकानां तद् अन्तिकम् ।
कनिष्ठानां कनिष्ठं तज् ज्येष्ठं तज् ज्यायसाम् अपि ॥
तेजसाम् अपि तत् तेजस् तमसाम् अपि तत् तमः ।
वस्तूनाम् अपि तद् वस्तु दृशाम् अप्य् अङ्ग दृक् परा ॥
तत् तत् किञ्चिन् नकिञ्चिच् च तत् तद् अस्ति च नास्ति च ।
तत् तद् दृश्यं अदृश्यं च तत् तद् अस्मि न चास्मि च ॥
राम सर्वप्रयत्नेन तस्मिन् परमपावने ।
पदे स्थितिम् उपायासि यथा कुरु तथानघ ॥
तद् अमलम् अजरं तद् आत्मतत्त्वं तदवगताव् उपशान्तिम् एति चेतः ।
अवगतविततैकतत्स्वरूपो भव भवमुक्त सदोदितश् चिराय ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0