मोक्षोपाय · अध्याय 5.91
यदा ह्य् अस्तङ्गतप्रायं जातं चित्तं विचारतः ।
तदास्य वीतहव्यस्य जाता मैत्र्यादयो गुणाः ॥
विवेकाभ्युदयाच् चित्तस्वरूपे ऽन्तर्हिते मुने ।
मैत्र्यादयो गुणा जाता इत्य् उक्तं किं त्वया प्रभो ॥
ब्रह्मन्न् अस्तङ्गते चित्ते कस्य मैत्र्यादयो गुणाः ।
क्व वा परिस्फुरन्तीति वद मे वदतां वर ॥
द्विविधश् चित्तनाशो ऽस्ति सरूपो ऽरूप एव च ।
जीवन्मुक्तस् सरूपस् स्याद् अरूपो ऽदेहमुक्तजः ॥
चित्तसत्तेह दुःखाय चित्तनाशस् सुखाय च ।
चित्तसत्तां क्षयं नीत्वा चित्तनाशम् उपार्जयेत् ॥
तामसैर् वासनाजालैर् व्याप्तं यज् जन्मकारणम् ।
विद्यमानं मनो विद्धि तद् दुःखायैव केवलम् ॥
प्राकृतं गुणसम्भारं ममेति बहु मन्यते ।
यत् तु चित्तम् अतत्त्वज्ञं दुःखि तज् जीव उच्यते ॥
विद्यमानं मनो यावत् तावद् दुःखम् अनन्तकम् ।
मनस्य् अस्तङ्गते जन्तोस् संसारो ऽन्तम् उपागतः ॥
दुःखि मूढम् अवष्टब्धम् अस्मीत्य् एव विनिश्चयम् ।
विद्यमानं मनो विद्धि दुःखवृक्षनवाङ्कुरम् ॥
नष्टं कस्य मनो ब्रह्मन् नष्टं वा कीदृशं भवेत् ।
कीदृशश् चास्य नाशस् स्यात् स्यात् सत्ता चास्य कीदृशी ॥
चेतसः कथिता सत्ता मया रघुकुलोद्वह ।
अस्य नाशम् इदानीं त्वं शृणु प्रश्नविदां वर ॥
सुखदुःखदशा धीरं साम्यान् न प्रोद्धरन्ति यम् ।
निश्श्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ॥
अयं सो ऽहम् अयं नाहम् इति चिन्ता नरोत्तमम् ।
खर्वीकरोति यं नान्तश् चित्तं तस्य मृतं विदुः ॥
एष साधो मनोनाशो नष्टं चेदृङ् मनो भवेत् ।
चित्तनाशदशा चैषा जीवन्मुक्तस्य विद्यते ॥
मनस्तां मूढतां विद्धि यदा नश्यति सानघ ।
चित्तनाशाभिधानं हि तदा सत्त्वम् उदेत्य् अलम् ॥
तस्य सत्त्वविलासस्य चित्तनाशस्य राघव ।
जीवन्मुक्तस्वभावस्य कैश्चिच् चित्त्वाभिधा कृता ॥
मैत्र्यादिभिर् गुणैर् युक्तं भवत्य् उत्तमवासनम् ।
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तं मनो ऽनघ ॥
व्याप्तं वासनया यत् स्याद् भूयोजननमुक्तया ।
जीवन्मुक्तमनो ऽसक्तं राम तत् सत्त्वम् उच्यते ॥
सम्प्रत्य् एवानुभूतत्वात् सत्त्वाप्त्या तत्त्वसंयुतः ।
सरूपो ऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ॥
मैत्री दयाथ मुदिता शशाङ्क इव दीप्तयः ।
जीवन्मुक्तमनोनाशे सर्वथा सर्वदा स्थिताः ॥
जीवन्मुक्तमनोनाशे सत्त्वनाम्नि हिमाचले ।
वसन्त इव मञ्जर्यस् स्फुरन्ति गुणसम्पदः ॥
अरूपस् तु मनोनाशो यो मयोक्तो रघूद्वह ।
विदेहमुक्ताव् एवासौ विद्यते निष्कलात्मकः ॥
समग्राग्र्यगुणाधारम् अपि सत्त्वं प्रलीयते ।
विदेहमुक्तौ विमले पदे परमपावने ॥
विदेहमुक्तविषये तस्मिन् सत्त्वक्षयात्मके ।
चित्तनाशे विरूपाख्ये न किञ्चिद् अपि विद्यते ॥
न गुणा नागुणास् तत्र न श्रीर् नाश्रीर् न लोलता ।
न चोदयो नास्तमयो न हर्षामर्षसंविदः ॥
न तेजो न तमः किञ्चिन् न सन्ध्यादिनरात्रयः ।
न दिशो दश नाकाशं नार्थो नानर्थरूपता ॥
न वासना न रचना नेहानीहे न रञ्जना ।
न सत्ता नापि वासत्ता न मध्यं वापि तत् पदम् ॥
अतमस्तेजसा व्योम्ना वितारेन्द्वर्कवार्मुचा ।
तत् समं शरदच्छेन विसन्ध्येनारजस्त्विषा ॥
ये हि पारं गता बुद्धेस् संसाराडम्बरस्य च ।
तेषां तद् आस्पदं स्फारं पवनानाम् इवाम्बरम् ॥
संशान्तदुःखम् अजडात्मकम् एकसुप्तम् आनन्दमन्थरम् अपेतरजस्तमोऽर्कम् ।
आकाशकोशतनवो ऽतनवो महान्तस् तस्मिन् पदे गलितचित्तलवा वसन्ति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0