मोक्षोपाय · अध्याय 5.90
वीतहव्यवद् आत्मानं नीत्वा विदितवेद्यताम् ।
वीतरागभयद्वेषस् तिष्ठ राघव कर्मसु ॥
त्रिंशद्वर्षसहस्राणि विजहार यथा मुनिः ।
वीतहव्यो वीतशोकस् तथा विहर राघव ॥
अन्ये राजन्यमुनयो ज्ञातज्ञेया महाधियः ।
यथावसन् स्वराज्येषु तथावस महामते ॥
सुखदुःखक्रमैर् आत्मा न कदाचन गृह्यते ।
सर्वगो ऽपि महाबाहो किं मुधा परिशोचसि ॥
बहवो विदितात्मानो विहरन्तीह भूतले ।
न केचन वशं याता दुःखस्याङ्ग भवान् इव ॥
स्वस्थो भव भवोदारस् समो भव सुखी भव ।
सर्वगस् त्वं त्वम् आत्मैव तव नास्ति पुनर्भवः ॥
हर्षामर्षविकाराणां जीवन्मुक्ता भवादृशः ।
न केचन वशं यान्ति मृगेन्द्राश् शाखिनाम् इव ॥
अनेनैव प्रसङ्गेन संशयो ऽयं ममोदितः ।
शरत्काल इवाम्भोदं तं मे त्वं तनुतां नय ॥
जीवन्मुक्तशरीराणां कथम् आत्मविदां वर ।
शक्तयो नेह दृश्यन्ते आकाशगमनादिकाः ॥
आकाशगमनादीनि यान्य् एतानि रघूद्वह ।
कर्माणि ताः पदार्थानां सहजाः खलु शक्तयः ॥
यद् विचित्रं क्रियाजालं दर्श्यते गोप्यते पुनः ।
राम वस्तुस्वभावो ऽसौ न तद् आत्मविदां मतम् ॥
अनात्मविद् अमुक्तो ऽपि नभोविहरणादिकम् ।
द्रव्यकर्मक्रियाकालशक्त्याप्नोत्य् एव राघव ॥
नात्मज्ञस्यैष विषय आत्मज्ञो ह्य् आत्मवान् स्वयम् ।
आत्मनात्मनि सन्तृप्तो नाविद्याम् अनुधावति ॥
ये केचन जगद्भावास् तान् अविद्याकृतान् विदुः ।
कथं तेषु किलात्मज्ञस् त्यक्ताविद्यो निमज्जति ॥
अविद्याम् अपि ये युक्त्या साधयन्ति सुखात्मिकाम् ।
ते ह्य् अविद्याकृता एव न त्व् आत्मज्ञास् तथाक्रमाः ॥
तत्त्वज्ञो वाप्य् अतत्त्वज्ञो यः कालद्रव्यकर्मभिः ।
यथाक्रमं प्रयतते तस्येन्द्रत्वादि सिध्यति ॥
आत्मज्ञस् त्व् इह सर्वस्माद् अतीतो विगतैषणः ।
आत्मन्य् एव हि सन्तुष्टो न करोति न चेहते ॥
न तस्यार्थो नभोगत्या न सिद्ध्या न च भोगकैः ।
न प्रभावेण नो मानैर् नाशामरणजीवितैः ॥
नित्यतृप्तः प्रशान्तात्मा वीतरागो विवासनः ।
आकाशसदृशाकारस् तज्ज्ञ आत्मनि तिष्ठति ॥
अशङ्कितोपयातेन दुःखेन च सुखेन च ।
तृप्यत्य् अपगतासङ्गो जीवेन मरणेन च ॥
समुद्रसरिदापातक्रमसम्प्राप्तवस्तुना ।
समेन विषमेणापि तिष्ठत्य् आत्मानम् अर्चयन् ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः ॥
यस् तु वा भावितात्मापि सिद्धिजालानि वाञ्छति ।
स सिद्धिसाधकैर् द्रव्यैस् तानि साधयति क्रमात् ॥
सिध्यतीत्थम् इदं युक्त्यैवेत्य् अयं नियतेः क्रमः ।
त्र्यक्षादिभिस् सुरवरैर् व्यर्थीकर्तुम् न शक्यते ॥
स्वभाव एष वस्तूनां स्वतस् सिद्धो हि नान्यतः ।
नियतिं न जहात्य् एव शशाङ्क इव शीतताम् ॥
सर्वज्ञो ऽपि समर्थो ऽपि माधवो ऽपि हरो ऽपि वा ।
अन्यथा नियतिं कर्तुं न शक्तः कश्चिद् एव हि ॥
द्रव्यकालक्रियामन्त्रप्रयोगानां स्वभावजाः ।
एतास् ताश् शक्तयो राम यद् व्योमगमनादिकम् ॥
यथा विषाणि निघ्नन्ति मदयन्ति मधूनि च ।
वमयन्ति च भुक्तानि मदनानि फलानि च ॥
तथा स्वभाववशतो द्रव्यकालक्रियाक्रमाः ।
नियतं साधयन्त्य् आशु प्रयोगं युक्तियोगजाः ॥
एतस्मात् समतीतस्य युक्त्या युक्तस्य राघव ।
आत्मज्ञानस्य नास्त्य् एव कर्तृता नाप्य् अकर्तृता ॥
द्रव्यमन्त्रक्रियाकालयुक्तयस् साधुसिद्धिदाः ।
परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥
यस्येच्छा विद्यते काचित् स सिद्धिं साधयत्य् अलम् ।
आत्मज्ञानस्य पूर्णत्वान् नेच्छा सम्भवति क्वचित् ॥
सर्वेच्छाजालसंशान्ताव् आत्मलाभोदयो हि यः ।
तद्विरुद्धा कथं तस्माद् इच्छा सञ्जायते ऽनघ ॥
या योदेति च यस्येच्छा स तया यतते तथा ।
यथा कालं तद् आप्नोति ज्ञो वाप्य् अज्ञतरो ऽपि वा ॥
वीतहव्येन यतितं नाजातेच्छेन किञ्चन ।
जातेच्छेनाशु यतितं प्रोत्थितो ऽसौ यथावनेः ॥
एवं कालक्रियाद्रव्यकर्मयुक्तिस्वभावजाः ।
यथेष्टम् एव सिध्यन्ति सिद्धयस् स्वाः क्रमार्जिताः ॥
याः फलावलयो येन सम्प्राप्तास् सिद्धिनामिकाः ।
तास् तेनाधिगता राम निजात् प्रयतनद्रुमात् ॥
महतां नित्यतृप्तानां तज्ज्ञानां भावितात्मनाम् ।
ईप्सितान्तं प्रयातानां नोपकुर्वन्ति सिद्धयः ॥
अयं मे संशयो ब्रह्मन् वीतहव्यस्य सा तनुः ।
क्रव्यादैर् न कथं भुक्ता कथं क्लिन्ना न भूतले ॥
तदैव वीतहव्यो ऽसौ कथं च न गतः प्रभो ।
विदेहमुक्ततां शीघ्रं यथावद् इति मे वद ॥
या संविद् वलिता साधो वासनामलतन्तुना ।
सुखदुःखदशादाहभागिनी भवतीह सा ॥
निर्मुक्तवासना शुद्धसंविन्मात्रमयी तु या ।
तनुस् तिष्ठति तच्छेदे शक्ता नेह हि केचन ॥
शृणु युक्त्या यया योगितनुश् छेदादिभिर् भ्रमैः ।
नाक्रम्यते महाबाहो बहुवर्षशतैर् अपि ॥
चेतः पदार्थे पतति यस्मिन् यस्मिन् यदा यदा ।
तन्मयं तद् भवत्य् आशु तस्मिंस् तस्मिंस् तदा तदा ॥
तथा दृष्टारि हि मनो विकारम् उपगच्छति ।
दृष्टमित्रं च हृद्यत्वं स्वयम् एवाभिपद्यते ॥
रागद्वेषविहीने तु पथिके पादपे गिरौ ।
भवत्य् अरागविद्वेषं स्वयम् इत्य् अनुभूयते ॥
मृष्टे लौल्यम् उपादत्ते दुर्भोज्ये याति नस्पृहाम् ।
वैरस्यं याति कटुनि स्वयम् इत्य् अनुभूयते ॥
समसंविद्विलासाढ्ये यद् यदा योगिदेहके ।
हिंस्रं चेतः पतत्य् आशु समताम् एति तत् तदा ॥
समं सद्भावमुक्तत्वाच् छेदादौ न प्रवर्तते ।
पान्थो व्यर्थं पथि ग्रामे यथा ग्रामीणकर्मणि ॥
योगिदेहसमीपात् तु गत्वा प्राप्नोति हिंस्रताम् ।
यद् यद् भवति तत्राशु तथारूपं न संशयः ॥
इति हिंस्रैर् मृगव्याघ्रसिंहकीटसरीसृपैः ।
न च्छिन्ना वीतहव्यस्य तनुर् भूतलशायिनी ॥
सर्वत्र विद्यते संवित् काष्ठलोष्टोपलादिके ।
सत्तासामान्यरूपेण संस्थिता बालमूकवत् ॥
पोप्लूयमाना तरला केवलं परिदृश्यते ।
तन्वी पुर्यष्टकेष्व् एव प्रतिबिम्बं जलेष्व् इव ॥
तेन भूजलवाय्वग्निसंवित्त्या समरूपया ।
न विकारं तनुर् नीता वीतहव्यस्य राघव ॥
अन्यच् च शृणु हे राम स्पन्दो नाशस्य कारणम् ।
विकारस्य च चित्तोत्थो वातजो वा जगत्स्थितौ ॥
प्राणानां प्राणता स्पन्दात् तच्छान्तौ ते दृषत्समाः ।
यतस् स्थिता धारणया तेनानष्टास्य सा तनुः ॥
सबाह्याभ्यन्तरं स्पन्दश् चेतसो वातजो ऽथ वा ।
न यस्य विद्यते तस्य दूरस्थौ विकृतिक्षयौ ॥
सबाह्याभ्यन्तरं शान्ते स्पन्दे तत्त्वविदां वर ।
धातवस् संस्थितिं देहे न त्यजन्ति कदाचन ॥
संशान्ते देहगेहस्थे प्रस्पन्दे चित्तवातयोः ।
धातवो मैरवं स्थैर्यं यान्ति संस्तम्भितात्मकाः ॥
तथा च दृश्यते लोके स्पन्दशान्तौ दृढा स्थितिः ।
दारूणाम् इव धीराणां सर्वाङ्गानाम् अचोपताम् ॥
इति वर्षसहस्राणि देहा जगति योगिनाम् ।
न क्लिद्यन्ति न भिद्यन्ते ऽभग्नवज्रलवा इव ॥
तदैव वीतहव्यो ऽसौ शृणु किं नोपशान्तवान् ।
देहम् उत्सृज्य तत्त्वज्ञो ज्ञातज्ञेयतया परः ॥
ये हि विज्ञातविज्ञेया वीतरागा महाधियः ।
विच्छिन्नग्रन्थयस् सर्वे ते स्वतन्त्रास् तनौ स्थिताः ॥
एवं वापि च कर्माणि प्राक्तनान्य् ऐहिकानि वा ।
वासना वा न तेषां तच् चेतो नियमयन्त्य् अलम् ॥
तेन तत्त्वविदां तात काकतालीयवन् मनः ।
यद् यद् भावयति क्षिप्रं तत् तद् आशु करोत्य् अलम् ॥
काकतालीययोगेन वीतहव्यस्य संविदा ।
साम्प्रतं जीवितं बुद्धं तद् एवाशु स्थिरीकृतम् ॥
यदा तु तस्य प्रतिभा विदेहोन्मुखतां गता ।
तदा विदेहमुक्तो ऽभूद् असौ स्वातन्त्र्यसंस्थितिः ॥
विगतवासनम् आशु विपाशताम् उपगतं मन आत्मतयोदितम् ।
यद् अभिवाञ्छति तद् भवति क्षणात् सकलशक्तिमयो हि महेश्वरः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0