मोक्षोपाय · अध्याय 5.89
प्राप्य संसृतिसीमान्तं दुःखाब्धेः पारम् आगतः ।
वीतहव्यश् शशामैवम् अपुनर्मनसे मुनिः ॥
तस्मिंस् तथोपशान्ते हि परां निर्वृतिम् आगते ।
पयःकण इवाम्भोधौ स्वे पदे परिणामिनि ॥
तथैव तिष्ठन् निस्स्पन्दस् स कायो म्लानिम् आययौ ।
अन्तर् विरसतां प्राप्य मार्गशीर्षान्तपर्णवत् ॥
तस्य देहद्रुमान्तस्स्थं त्यक्त्वा हृन्नीडम् आययुः ।
प्रोड्डीय प्राणविहगा यन्त्रोन्मुक्ताश्मवन् नभः ॥
भूतेष्व् एव प्रविष्टानि भूतानि सकलान्य् अलम् ।
मांसास्थियन्त्रं देहस् तु वनावनितले ऽवसत् ॥
चिदर्णवं प्रविष्टा चिद् धातवो धातुषु स्थिताः ।
स्वे स्वरूपे स्थितं सर्वं मुनाव् उपशमं गते ॥
एषा ते कथिता राम विचारशतशालिनी ।
विश्रान्तिर् वीतहव्यस्य प्रज्ञयैतां विवेचय ॥
एवम्प्रकारया युक्त्या स्वविचारणयेद्धया ।
तत्त्वम् आलोक्य तत्सारम् आतिष्ठोत्थाय राघव ॥
यद् एतद् अखिलं राम भवते वर्णितं मया ।
यद् इदं वर्णयाम्य् अन्यद् वर्णयिष्यामि यच् च वा ॥
त्रिकालदर्शिना नित्यं चिरं च किल जीवता ।
विचारितं च दृष्टं च मया तद् अखिलं स्वयम् ॥
तद् एताम् अमलां दृष्टिम् अवलम्ब्य महामते ।
ज्ञानम् आसादय परं ज्ञानान् मुक्तिर् हि लभ्यते ॥
ज्ञानान् निर्दुःखतोदेति ज्ञानाद् अज्ञानसङ्क्षयः ।
ज्ञानाद् एव परा सिद्धिर् नान्यस्माद् राम वस्तुतः ॥
ज्ञानेन सकलान् पाशान् विनिकृत्य समन्ततः ।
शातिताशेषचित्ताद्रिर् वीतहव्यो मुनीश्वरः ॥
वीतहव्यात्मिका संवित् सङ्कल्पजगतीति सा ।
अनुभूतवती विश्वम् इदम् एव च तज् जगत् ॥
वीतहव्यो मनोमात्रं मनो ऽहं त्वम् इमे ऽद्रयः ।
मनो जगद् इदं कृत्स्नम् अन्यतानन्यते ऽत्र के ॥
अधिगतपरमार्थः क्षीणरागादिदोषस् सकलमलविकारोपाधिभङ्गाद् अतीतः ।
चिरम् अनुसृतम् अन्यैस् स्वं स्वभावं विवेकी पदम् अमलम् अनन्तं प्राप्तवाञ् शान्तशोकः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0