भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.9

5.9.1

इति सिद्धगणोद्गीता गीताश् श्रुत्वा महीपतिः ।
विषादम् आजगामाशु भीरू रणरवाद् इव ॥

5.9.2

जगाम परिवारं स्वम् आकर्षन् स्वगृहं प्रति ।
स्वतीरवृक्षानुसृतः प्रावृडोघ इवार्णवम् ॥

5.9.3

परिवारम् अशेषेण विसर्ज्यात्र स्वम् आलयम् ।
एक एवारुरोहाग्र्यं गृहम् अर्क इवाचलम् ॥

5.9.4

ततः प्रोड्डयनालोलखगपक्षतिचञ्चलाः ।
आलोकयंल् लोकगतीर् विललापेदम् आतुरः ॥

5.9.5

हा कष्टम् अतिकष्टासु लोकलोलदशास्व् अयम् ।
पाषाणेष्व् इव पाषाण आलुठामि बलाद् अलम् ॥

5.9.6

अपर्यन्तस्य कालस्य को ऽप्य् अंशो जीव्यते मया ।
तस्मिन् भावं निबध्नामि धिङ् माम् अधमचेतसम् ॥

5.9.7

कियन्मात्रम् इदं नाम राज्यम् आजीवितं मम ।
किम् एतेन विना दुःखं तिष्ठामि हतधीर् यथा ॥

5.9.8

आदाव् अन्ते ऽप्य् अनन्तो ऽहं मध्ये पेलवजीवितः ।
बालश् चित्रेन्दुनेवाहं किं मुधा धृतिमान् स्थितः ॥

5.9.9

प्रपञ्चरचितेनायम् इन्द्रजालेन जालिना ।
हा कष्टम् अभिमुह्यामि केनास्मि परिमोहितः ॥

5.9.10

यद् वस्तु यच् च वा रम्यं यद् उदारम् अकृत्रिमम् ।
किञ्चित् तद् इह नास्त्य् एव किंनिष्ठेयं धृतिर् मम ॥

5.9.11

दूरस्थम् अप्य् अदूरस्थं यन् मे मनसि वर्तते ।
इति निर्णीय बाह्ये ऽर्थे भावनां सन्त्यजाम्य् अहम् ॥

5.9.12

लोकाजवञ्जवीभावस् सलिलावर्तभङ्गुरः ।
दृष्टो ऽद्यापि हि दुःखाय केयम् आस्था सुखं प्रति ॥

5.9.13

प्रत्यब्दं प्रतिमासं च प्रत्यहं च प्रतिक्षणम् ।
सुखानि दुःखविद्धानि दुःखानि तु पुनः पुनः ॥

5.9.14

पुनः पुनः परामृष्टं दृष्टं पृष्टं निभालितम् ।
अतुच्छं न तद् अस्तीह सतां यत्रास्तु संस्थितिः ॥

5.9.15

अद्य ये महतां मूर्ध्नि ते दिनैर् निपतन्त्य् अधः ।
हतचित्त महत्तायां कैषा विश्वस्तता तव ॥

5.9.16

अरज्जुर् एव बद्धो ऽहम् अपङ्को ऽस्मि कलङ्कितः ।
पतितो ऽस्म्य् उपरिस्थो ऽपि हा ममात्मन् हता स्थितिः ॥

5.9.17

कस्माद् अकस्मान् मोहो ऽयम् आगतो धीमतो ऽपि मे ।
असितः पिहितालोको भास्कराग्रम् इवाम्बुदः ॥

5.9.18

क इमे मे महाभोगाः क इमे मम बन्धवः ।
बालो भूतभयेनेव शङ्के केनाहम् आकुलः ॥

5.9.19

स्वयम् एव निबध्नामि जरामरणकारिणीम् ।
किम् इमाम् अहम् अर्थेषु धृतिम् उद्वेगभारिणीम् ॥

5.9.20

यातु तिष्ठतु वा सम्पन् ममैनां प्रति को ग्रहः ।
बुद्बुदश्रीर् इवैषा हि मिथ्यैवेत्थम् उपस्थिता ॥

5.9.21

ते महाविभवा भोगास् ते सन्तस् स्निग्धबान्धवाः ।
सर्वं स्मृतिपथं प्राप्तं वर्तमाने ऽपि का धृतिः ॥

5.9.22

क्व धनानि महीपानां ब्रह्मणां क्व जगन्ति वा ।
प्राक्तनानि प्रयातानि केयं विश्वस्तता मम ॥

5.9.23

गलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि ।
मां जीवितनिबद्धाशं विहसिष्यन्ति साधवः ॥

5.9.24

कोटयो ब्रह्मणां याता गतास् सर्गपरम्पराः ।
प्रयाताः पांसुवद् भूपाः का धृतिर् मम जीविते ॥

5.9.25

संसाररात्रिदुस्स्वप्ने शून्ये देहमये भ्रमे ।
आस्थां चेद् अनुबध्नामि तन् माम् अस्तु धिग् अस्थितिम् ॥

5.9.26

अयं सो ऽहम् इति व्यर्थम् उत्थितासत्स्वरूपिणा ।
अहङ्कारपिशाचेन किम् अज्ञवद् अहं हतः ॥

5.9.27

हृतं हृतम् इदं कस्माद् आयुर् आयतयानया ।
पश्यन्न् अपि न पश्यामि सूक्ष्मया काललेखया ॥

5.9.28

पादपीठीकृतेशानाश् शार्ङ्गिक्रीडनकन्दुकाः ।
कालकापालिना ग्रस्ताः किम् आस्थे मयि वल्गसि ॥

5.9.29

अजस्रम् उपयान्त्य् एते यान्ति चाद्यापि वासराः ।
अविनष्टैकसद्वस्तुर् दृष्टो नाद्यापि वासरः ॥

5.9.30

सारसास् सरसीवैते सर्वस्मिञ् जनचेतसि ।
भोगा एव स्फुरन्त्य् अन्तर् नातुच्छपददृष्टयः ॥

5.9.31

कष्टात् कष्टतरं प्राप्तो दुःखाद् दुःखतरं गतः ।
अद्यापि न विरक्तो ऽस्मि हा धिङ् माम् अधमाशयम् ॥

5.9.32

येषु येषु दृढाबद्धा भावना दृढवस्तुषु ।
तानि तानि विनष्टानि दृष्टानि किम् इहोत्तमम् ॥

5.9.33

यन् मध्ये यच् च पर्यन्ते यद् आपाते मनोरमम् ।
सर्वम् एवापवित्रं तद् विनाशामेध्यदूषितम् ॥

5.9.34

येषु येषु पदार्थेषु धृतिं बध्नाति मानवः ।
तेषु तेष्व् एव तस्याशु दृष्टो दुःखोदयो भृशम् ॥

5.9.35

श्वश् श्वः पापीयसीम् एव श्वश् श्वः क्रूरतराम् अपि ।
श्वश् श्वः खेदकरीम् एति दशाम् इह जडो जनः ॥

5.9.36

अज्ञानोपहतो बाल्ये यौवने मदनाहतः ।
शेषे कलत्रचिन्तार्तः किं करोतु कदा जडः ॥

5.9.37

आगमापायविरसं दशावैषम्यदूषितम् ।
असारसारं संसारं किं न पश्यति मन्मतिः ॥

5.9.38

राजसूयाश्वमेधाद्यैर् इष्ट्वा यज्ञशतैर् अपि ।
महाकल्पात् कम् अप्य् अंशं स्वर्गं आप्नोति नाधिकम् ॥

5.9.39

को ऽसौ स्वर्गे ऽस्ति भूमौ वा पाताले वा प्रदेशकः ।
न यत्राभिद्रवन्त्य् एता दुर्भ्रमर्य इवापदः ॥

5.9.40

निजचेतोबिलव्यालाश् शरीरस्थलपल्लवाः ।
आधयो व्याधयश् चैते निवार्यन्ते कथं किल ॥

5.9.41

सत्ये ऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येष्व् अरम्यता ।
सुखेषु मूर्ध्नि दुःखानि किम् एकं संश्रयाम्य् अहम् ॥

5.9.42

जायन्ते च म्रियन्ते च प्राकृताः क्षुद्रजन्तवः ।
धरा तैर् एव नीरन्ध्रा दुर्लभास् साधुसाधवः ॥

5.9.43

नीलोत्पलालिनयनाः परमप्रेमभूषणाः ।
हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः ॥

5.9.44

येषां निमेषणोन्मेषैर् जगतां प्रलयोदयौ ।
तादृशाः पुरुषा याता मादृशां गणनैव का ॥

5.9.45

सन्ति रम्यतराद् रम्यास् सुस्थिराद् अपि च स्थिराः ।
चिन्तापर्यवसानेयं पदार्थश्रीः किम् ईदृशी ॥

5.9.46

सम्पदश् च विचित्रा यास् ताश् चेच् चित्तेन सम्मताः ।
तत् ता अपि महारम्भा मन्ये नूनं महापदः ॥

5.9.47

आपदो ऽपि विचित्रा यास् ताश् चेन् मनसि सम्मताः ।
तत् ता अपि महारम्भा मन्ये सकलसम्पदः ॥

5.9.48

मनोमात्रविवर्ते ऽस्मिञ् जगत्य् अब्बिन्दुभङ्गुरे ।
ममेदम् इत्य् अपूर्वैव कुतस् त्व् अक्षरमालिका ॥

5.9.49

काकतालीययोगेन सम्पन्नायां जगत्स्थितौ ।
धूर्तेन कल्पिता व्यर्थं हेयोपादेयभावनाः ॥

5.9.50

इयत्ताच्छिन्नरूपासु सुखनाम्नीषु दृष्टिषु ।
कास्व् एतास्व् अनुषक्तो ऽस्मि पतङ्गो ऽग्निशिखास्व् इव ॥

5.9.51

वरम् एकान्तदाहेषु लुठितं रौरवाग्निषु ।
न त्व् आलूनविशीर्णासु स्थितिस् संसारवृत्तिषु ॥

5.9.52

संसार एव दुःखानां सीमान्तः किल कथ्यते ।
तन्मध्यपतितेनेह सुखम् आसाद्यते कथम् ॥

5.9.53

अकृत्रिममहादुःखे संसारे ये व्यवस्थिताः ।
त एते ऽन्यानि दुःखानि जानते मधुराण्य् अलम् ॥

5.9.54

अहम् अप्य् आधिमान् कष्टं काष्ठलोष्टसमस्थितैः ।
अज्ञैर् एवागतस् साम्यम् अपरामृष्टवस्तुभिः ॥

5.9.55

सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ।
अस्य संसारवृक्षस्य मनोमूलमयो ऽङ्कुरः ॥

5.9.56

सङ्कल्पम् एव तं मन्ये सङ्कल्पोपशमेन तत् ।
शोषयामि यथा शोषम् एति संसारपादपः ॥

5.9.57

आकारमात्ररम्यासु मनोमर्कटवृत्तिषु ।
परिज्ञातास्व् इहाद्यैव न रमे नीरसास्व् अहम् ॥

5.9.58

आशापाशशतप्रोताः पातोत्पातोपतापदाः ।
संसारवृत्तयो भुक्ता इदानीं विरमाम्य् अहम् ॥

5.9.59

हा हतो ऽस्मि विनष्टो ऽस्मि मृतो ऽस्मीति पुनः पुनः ।
शोचिते गत एवाहम् इदानीं नानुरोदिमि ॥

5.9.60

प्रबुद्धो ऽस्मि प्रहृष्टो ऽस्मि दृष्टश् चौरो मयात्मनः ।
मनोनामा निहन्म्य् एनं मनसास्मि चिरं हतः ॥

5.9.61

एतावन्तम् इमं कालं मनोमुक्ताफलं मम ।
अविद्धम् आसीद् अधुना विद्धं तु गुणम् अर्हति ॥

5.9.62

मनस्तुषारकणको विवेकार्कातपेन मे ।
चिरनिर्वृतये नूनम् अचिराल् लयम् एष्यति ॥

5.9.63

विबुधैस् साधुभिस् सिद्धैर् अहं साधु प्रबोधितः ।
आत्मानम् अनुगच्छामि परमानन्दसाधनम् ॥

5.9.64

आत्मानं मणिम् एकान्ते लब्ध्वैवालोकयन् सुखम् ।
तिष्ठाम्य् अस्तमितान्येहश् शरदीवामलो ऽम्बुदः ॥

5.9.65

अयम् अहम् इदम् एव तन् ममेति स्फुरितम् अपास्य बलाद् असत्यम् अन्तः ।
रिपुम् अतिमलिनं मनो निहन्मि प्रशमम् उपैमि नमो ऽस्तु ते विवेक ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc