भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.10

5.10.1

इति चिन्तयतस् तस्य पुरस् सम्प्रविवेश ह ।
प्रतीहारः प्रगे भानोस् स्यन्दनाग्रम् इवारुणः ॥

5.10.2

देव दोस्स्तम्भविश्रान्तसमस्तवसुधाभर ।
सम्पादयोत्तिष्ठ दिनव्यापारं नृपतोचितम् ॥

5.10.3

एताः कुसुमकर्पूरकुङ्कुमाम्बुघटास् स्त्रियः ।
स्नानभूमौ स्थितास् सज्जा नद्यो मूर्तियुता इव ॥

5.10.4

एषा कमलकल्हारकाननभ्रान्तषट्पदा ।
कृता कमलिनी स्त्र्यर्थं रचितांशुकमण्डपा ॥

5.10.5

एताः कमलिनीतीरभुवश् छत्त्रैः प्रपूरिताः ।
सचामररथेभाश्वैस् स्नानावसरसेविनाम् ॥

5.10.6

समग्रसुमनःपूर्णै रत्नौषधिपरिप्लुतैः ।
सज्जीकृताः पटलकैर् देवार्चनभुवस् तव ॥

5.10.7

स्नातः पवित्रहस्तश् च परिजप्ताघमर्षणम् ।
त्वाम् एव प्रेक्षते देव दक्षिणार्हो द्विजव्रजः ॥

5.10.8

चलच्चामरहस्ताभिः पाल्यन्ते परमेश्वर ।
सज्जीकृतास् तु कान्ताभिश् शीता भोजनभूमयः ॥

5.10.9

शीघ्रम् उत्तिष्ठ भद्रं ते नियतं कार्यम् आचर ।
न कालम् अतिवर्तन्ते महान्तस् स्वेषु कर्मसु ॥

5.10.10

प्रतीहारपताव् इत्थम् उक्तवत्य् अथ पार्थिवः ।
तथैव चिन्तयाम् आस चित्रां संसारसंस्थितिम् ॥

5.10.11

कियन्मात्रम् इदं नाम राज्यं सुखम् इति स्थितम् ।
न प्रयोजनम् एतेन ममेह क्षणभङ्गिना ॥

5.10.12

सर्वम् एव परित्यज्य मिथ्याडम्बरसम्भ्रमम् ।
एकान्त एव तिष्ठामि संशान्त इव वारिधिः ॥

5.10.13

अलम् एभिर् असत्प्रायैर् मम भोगविजृम्भितैः ।
त्यक्त्वा सर्वाणि कर्माणि सुखं तिष्ठामि केवलः ॥

5.10.14

चित्त चातुर्यम् एतस्माद् भोगाभ्यासकुसम्भ्रमात् ।
त्यज जन्मजराजाड्यजालजम्बालशान्तये ॥

5.10.15

दशासु यासु यास्व् एव सम्भ्रमं चित्त पश्यसि ।
ताभ्य एवातिविरतं परमं सुखम् एष्यसि ॥

5.10.16

प्रवृत्तं सन् निवृत्तं सद् भूयो भूयश् चिरं चिरम् ।
भोगभूमिषु सर्वासु चित्त तृप्तिं न गच्छसि ॥

5.10.17

तस्मात् तवालम् अनया तुच्छया भोगचिन्तया ।
भवत्य् अकृत्रिमा तृप्तिर् येनाभिपत तत् ततम् ॥

5.10.18

इति सञ्चिन्त्य जनकस् तूष्णीम् एव बभूव ह ।
शान्तचापलचेतस्त्वाल् लिपिकर्मार्पितोपमः ॥

5.10.19

प्रतीहारो ऽपि नोवाच गौरवेण भयेन च ।
पुनर्वाक्यं महीपानां चित्तवृत्तिष्व् अशीलितम् ॥

5.10.20

तूष्णीम् अथ क्षणं स्थित्वा जनको जनजीवितम् ।
पुनस् सञ्चिन्तयाम् आस मनसा शमशालिना ॥

5.10.21

किम् उपादेयम् अस्तीह यत्नात् संसाधयामि यत् ।
कस्मिन् वस्तुनि बध्नामि धृतिं नाशविवर्जिते ॥

5.10.22

किं मे क्रियापरतया किं निष्क्रियतयापि वा ।
न तद् अस्ति विनाशेन वर्जितं यत् किलोदितम् ॥

5.10.23

क्रियावान् अक्रियो वास्तु कायो ऽयम् असदुत्थितः ।
सतस् स्थिरस्य शुद्धस्य चितः का नाम मे क्षतिः ॥

5.10.24

नाभिवाञ्छाम्य् असम्प्राप्तं सम्प्राप्तं न त्यजाम्य् अहम् ।
स्वस्थ आत्मनि तिष्ठामि यन् ममास्ति तद् अस्तु मे ॥

5.10.25

न ममेह कृतेनार्थो नाकृतेनेह कश्चन ।
क्रिययाक्रियया वापि यत् प्राप्यं सद् असत् सतः ॥

5.10.26

अकुर्वतः कुर्वतो वा युक्तायुक्ताः क्रिया मम ।
नाभिवाञ्छितम् अस्तीह यद् उपादेयतां गतम् ॥

5.10.27

तद् उत्थाय क्रमप्राप्तां कायो ऽयं प्रकृतां क्रियाम् ।
करोत्व् अस्पन्दिताङ्गस् तु किम् अयं साधयिष्यति ॥

5.10.28

स्थिते मनसि निष्कामे समे विगतरञ्जने ।
कायावयवजौ कार्यस्पन्दास्पन्दौ फले समौ ॥

5.10.29

कर्मजासु फलश्रीषु मनसः कर्तृभोक्तृते ।
तस्मिन् प्रशमम् आयाते कृतम् अप्य् अकृतं नृणाम् ॥

5.10.30

यो निश्चयो ऽन्तः पुरुषस्य रूढः क्रियास्व् असौ तन्मयताम् उपैति ।
अनामयं मे पदम् आगता धीर् अधीरताम् अन्तर् अलं त्यजामि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc