मोक्षोपाय · अध्याय 5.8
अस्त्य् अस्तमितसर्वापद् उद्यत्सम्पद् उदारधीः ।
विदेहानां महीपालो जनको नाम वीर्यवान् ॥
कल्पवृक्षो ऽर्थिसार्थानां मित्राब्जानां दिवाकरः ।
माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः ॥
द्विजकैरवशीतांशुर् द्विषत्तिमिरभास्करः ।
सौजन्यरत्नजलधिर् भुवं विष्णुर् इवास्थितः ॥
प्रफुल्तबाललतिके मञ्जरीपुञ्जपिञ्जरे ।
स कदाचिन् मधौ मत्तकोकिलोल्लासलासिनि ॥
ययौ कुसुमिताभोगं सविलासलताङ्गनम् ।
लीलयोपवनं कान्तं नन्दनं वासवो यथा ॥
तस्मिन् वरवने हृद्ये केसरामोदिमारुते ।
दूरस्थानुचरश् चारुकुञ्जेषु विचचार ह ॥
अथ शुश्राव कस्मिंश्चित् तमालवनगुल्मके ।
सिद्धानाम् अप्रदृश्यानां स्वप्रसङ्गाद् उदाहृताः ॥
विरक्तमनसां नित्यं शैलकन्दरचारिणाम् ।
इमाः कमलपत्त्राक्ष गीता गीतात्मभावनाः ॥
द्रष्टृदृश्यसमायोगात् प्रत्ययानन्दनिश्चयः ।
यस् तं स्वम् आत्मतत्त्वोत्थं निष्ष्यन्दं समुपास्महे ॥
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
दर्शनप्रथमाभासम् आत्मानं समुपास्महे ॥
निर्भासनं निर्मननम् आभासमननोपमम् ।
अभावभावनाभोगं सदात्मानम् उपास्महे ॥
द्वयोर् मध्यगतं नित्यम् अस्ति नास्तीति पक्षयोः ।
प्रकाशनं प्रकाशानाम् आत्मानं समुपास्महे ॥
अशिरस्कहकाराभम् अशेषाकारसंस्थितम् ।
अजस्रम् उच्चरन्तं तं स्वम् आत्मानम् उपास्महे ॥
सन्त्यज्य हृद्गुहेशानं देवम् अन्यं प्रयान्ति ये ।
ते रत्नम् अभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥
सर्वाशाः किल सन्त्यज्य फलम् एतद् अवाप्यते ।
येनाशाविषवल्लीनां मूलमाला विलूयते ॥
बुद्ध्वाप्य् अत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः ।
बध्नाति भावनां भूयो नरो नासौ स गर्दभः ॥
उत्थितानुत्थितान् एतान् इन्द्रियाहीन् पुनः पुनः ।
हन्याद् विवेकवज्रेण वज्रेणेव हरिर् गिरीन् ॥
उपशमसुखम् आवहेत् पवित्रं शमवशतश् शमम् एति साधुचेतः ।
प्रशमितमनसस् स्वके स्वरूपे भवति सुखे स्थितिर् उत्तमा चिराय ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0