मोक्षोपाय · अध्याय 5.88
एवं कलितवान् अन्तः प्रशान्तमननैषणः ।
शनैर् उच्चारयंश् चारु प्रणवप्राप्तिभूमिकः ॥
सबाह्याभ्यन्तरान् सर्वान् सूक्ष्मान् स्थूलतरान् अपि ।
त्रैलोक्यकल्पितांस् त्यक्त्वा सङ्कल्पान् कल्पकल्पितान् ॥
तिष्ठन्न् अक्षुभिताकारश् चिन्तामणिर् इवात्मनि ।
सम्पूर्ण इव शीतांशुर् विश्रान्त इव मन्दरः ॥
कुम्भकारगृहे चक्रं संरोधितम् इव भ्रमात् ।
अम्भोधिर् इव सम्पूर्णस् स्तिमितस्फारनिर्मलः ॥
शान्ततेजस्तमःपुञ्जं विगतार्केन्दुतारकम् ।
अधूमाभ्ररजस् स्वच्छम् अनन्तं शरदीव खम् ॥
सह प्रणवपर्यन्तदीर्घनिस्स्वनतन्तुना ।
जहाव् इन्द्रियतन्मात्रजालं गन्धम् इवानिलः ॥
ततो जहौ तमोमात्रं प्रतिभातम् इवान्तरे ।
उत्तिष्ठत् प्रस्फुरद्रूपं प्राज्ञः कोपलवं यथा ॥
प्रतिभातं ततस् तेजो निमेषार्धं विचार्य सः ।
जहौ बभूव च तदा न तमो न प्रकाशकम् ॥
ताम् अवस्थाम् अथासाद्य मनसा तन् मनस्तृणम् ।
स्फुरितं न मनाग् एव निमेषार्धाद् अशातयत् ॥
ततो ऽङ्गसंविदं स्वस्थां प्रतिभासम् उपागताम् ।
सद्योजातशिशुज्ञानसमाम् अकलनामलाम् ॥
निमेशार्धार्धभागेन कालेनाकलनः प्रभुः ।
जहौ चितश् चेत्यदशां स्पन्दशक्तिम् इवानिलः ॥
पश्यन्तीपदम् आसाद्य सत्तामात्रात्मकं ततः ।
सुषुप्तपदम् आसाद्य तस्थौ मेरुर् इवाचलः ॥
ततस् सुषुप्तसंस्थानस्थित्या स्थित्वा विभुर् मनाक् ।
सुषुप्ते स्थैर्यम् आसाद्य तुर्यरूपम् उपाययौ ॥
निरानन्दो ऽपि सानन्दस् सच् चासच् चापि तत्र सः ।
आसीन् नकिञ्चित् किञ्चिच् च प्रकाशस् तिमिरं तथा ॥
अचिन्मयं चिन्मयं च नेति नेति यद् उच्यते ।
तत् ततस् सम्बभूवासौ मद्गिराम् अप्य् अगोचरः ॥
तद् असौ सुषमं स्थानं पदं परमपावनम् ।
सर्वभावान्तरगतम् अभूत् सर्वविवर्जितम् ॥
यच् छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां वरम् ।
विज्ञानमात्रं विज्ञानविदां यद् अमलात्मकम् ॥
पुरुषस् साङ्ख्यदृष्टीनाम् ईश्वरो योगवादिनाम् ।
शिवश् शशिकलङ्कानां कालः कालकवादिनाम् ॥
आत्मात्मनस् तद्विदुषां नैराश्यं तादृशात्मनाम् ।
मध्यं माध्यमिकानां च सर्वं सुशमचेतसाम् ॥
यत् सर्वशास्त्रसिद्धान्तो यत् सर्वहृदयानुगम् ।
यत् सर्वं सर्वदा सार्वं यत् सत् तत् सद् असौ स्थितः ॥
यद् अनुत्तमनिष्ष्यन्दो दीपं यत् तेजसाम् अपि ।
स्वानुभूत्येकमानं यत् तत् तत् तत् तद् असौ स्थितः ॥
यद् एकं चाप्य् अनेकं च साञ्जनं च निरञ्जनम् ।
यत् सर्वं चाप्य् असर्वं च तत् तत् तत् तद् असौ स्थितः ॥
अजम् अजरम् अनाद्यम् आद्यम् एकं पदम् अकलं सकलं च निष्कलं च ।
स्थित इति स तदा नभस्स्वरूपाद् अपि विमलस्थितिर् ईश्वरः क्षणेन ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0