मोक्षोपाय · अध्याय 5.85
इति निर्णीय स मुनिर् वीतहव्यो विवासनः ।
आसीत् समाधाव् अचलो विन्ध्यपर्वतकोटरे ॥
अपरिस्पन्दिताशेषस्पन्दनानन्दसुन्दरः ।
बभूवास्तङ्गतमनास् स्तिमिताम्भोधिशोभनः ॥
अन्तर् एव शशामास्य क्रमेण प्राणसन्ततिः ।
ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानले ॥
अनन्तर्निष्ठतां याते बाह्यार्थे चाप्य् असंस्थिते ।
शेषे तु लब्धसंस्थाने तस्य स्फुरितपक्ष्मणी ॥
घ्राणप्रान्तगताल्पाल्पसमालोक इवेक्षणे ।
अर्धकुट्मलितैः पद्मैश् श्रियम् आययतुस् समाम् ॥
समकायशिरोग्रीवस्थानकस् स महामतिः ।
आसीच् छैलाद् इवोत्कीर्णश् चित्रार्पित इवाथ वा ॥
तथा प्रतिष्ठतस् तस्य संवत्सरशतत्रयम् ।
कोटरे विन्ध्यकच्छस्य ययाव् अर्धमुहूर्तवत् ॥
एतावन्तम् असौ कालं नाबुध्यत किलात्मवान् ।
जीवन्मुक्ततया ध्यानी न च तत्याज तां तनुम् ॥
तावत्कालं स सुभगो न प्राबुध्यत योगवित् ।
उद्दामैर् अम्बुदारावैर् आसारभरघर्घरैः ॥
पर्यन्तमण्डलाधीशमृगयारवबृंहितैः ।
ऋक्षवानरनिर्ह्रादैर् मातङ्गास्फोटनिस्स्वनैः ॥
सिंहसंरम्भरटितैर् निर्झरारावझाङ्कृतैः ।
विषमाशनिसम्पातैर् गजकोलाहलैर् घनैः ॥
प्रमत्तशरभास्फोटैर् भूकम्पतटघट्टनैः ।
वनदाहधमद्ध्वानैर् जलौघाहतवेल्लनैः ॥
महोपलतलाघातैर् धरणीतलमज्जनैः ।
जलौघान्दोलनापातैस् तापैर् अनलकर्कशैः ॥
केवलं वहति स्वैरं काले कलितकारणे ।
परियान्तीषु वर्षासु लहरीष्व् इव वारिणि ॥
स्वल्पेनैव स कालेन तस्मिन् पर्वतकन्दरे ।
प्रावृडोघविनुन्नेन पङ्केनोर्वीतले कृतः ॥
तत्रासाव् अवसद् भूमेः कोटरे सङ्कटोदरे ।
पङ्कसम्पिण्डितस्कन्दः पर्वते ऽन्तश् शिला यथा ॥
शतत्रये तु वर्षाणाम् अथ याते स्वयं प्रभुः ।
प्राबुध्यतात्मरूपात्मा धराकोटरपीडितः ॥
संविद् एवास्य तं देहं जग्राहोर्वीनिपीडितम् ।
न तु प्राणमयस् स्पन्दः प्राणसंसरणं विना ॥
उत्पत्य प्रौढिम् आसाद्य कलना हृदयाम्बरे ।
स्वमनोरूपिणी तस्य हृद्य् एवानुबभूव सा ॥
कैलासकानने कान्ते कदम्बस्य तरोस् तले ।
मुनित्वं शतम् अब्दानां जीवन्मुक्तात्म निर्मलम् ॥
विद्याधरत्वं वर्षाणां शतम् आधिविवर्जितम् ।
युगपञ्चकम् इन्द्रत्वं प्रणतं सुरचारणैः ॥
मुनित्वादिषु तेष्व् अस्य प्रतिभासेषु भो मुने ।
नियमो ऽनियमश् चैव दिक्कालनियतेः कथम् ॥
सर्वात्मिकैषा चिच्छक्तिर् यत्रोदेति यथा यथा ।
तथा तथाशु भवति तदात्मैकस्वभावतः ॥
यदा यत्र यथा बुद्धो नियमस् स तथा स्थितः ।
देशकालादिनियमक्रमाणां तन्मयात्मनाम् ॥
तेन नानाविधान्य् एष जगन्ति परिदृष्टवान् ।
हृदि संवेदनाकाशे वीतहव्यो विवासनः ॥
सम्यग्बोधवताम् एषा वासनैव न वासना ।
ज्ञानाग्निदग्धा दग्धस्य केव बीजस्य बीजता ॥
कल्पम् एकं गणत्वं स चन्द्रमौलेश् चकार ह ।
समस्तविद्यानियतं त्रिकालामलदर्शनम् ॥
यो यादृग्दृढसंस्कारस् स सम्पश्यति तादृशम् ।
जीवन्मुक्ततयैवैतद् वीतहव्यो ऽनुभूतवान् ॥
एवं स्थिते मुनिश्रेष्ठ जीवन्मुक्तमतेर् अपि ।
बन्धमोक्षदृशस् सन्ति वीतहव्यात्मनो यथा ॥
यथास्थितम् इदं विश्वं शान्तम् आकाशनिर्मलम् ।
ब्रह्मैव जीवन्मुक्तानां बन्धमोक्षदृशः कुतः ॥
एवं संविन्नभो भाति यत्र यत्र यथा यथा ।
तत्र तत्र तथा तावत् तावत् तद् विन्दते ततम् ॥
तेनानुभूतानि बहून्य् अनुभूयन्त एव च ।
जगन्ति सर्वात्मतया ब्रह्मरूपेण राघव ॥
धराकोटरनिर्मग्नवीतहव्यचिदात्मसु ।
जगत्सु तेष्व् असङ्ख्येषु नीरूपेषु महात्मसु ॥
यश् शक्रो ऽनवबुद्धात्मा सो ऽद्य चीनेषु पार्थिवः ।
कर्तुं प्रवृत्तो मृगयां क्षणे ऽस्मिन् नीपकानने ॥
यो हंसो ऽनवबुद्धात्मा पद्मे पैतामहे ऽभवत् ।
स्थितस् स एष दाशेशः कैलासवनकुञ्जके ॥
यो राजानवबुद्धात्मा भूमौ सौराष्ट्रमण्डले ।
स एष हि स्थितो ऽन्ध्राणां ग्रामे विपुलपादपः ॥
मानसः किल सर्गो ऽसौ वीतहव्यस्य तत्र ये ।
देहिनो भ्रान्तिमात्रं ते वदेहाकारिणः कथम् ॥
यदि भ्रान्त्येकमात्रात्म वीतहव्यस्य तज् जगत् ।
तद् इदं भासते नाम किम्मयं प्रतिभासते ॥
इदम् अङ्ग सचिन्मात्रमनोमात्रं भ्रमात्मकम् ॥
वस्तुतस् तु न तन् नाम जगन् नेदं च नेतरत् ।
न चापि न जगत्सत्ता ब्रह्मेदं भाति केवलम् ॥
भावि भूतं भविष्यच् च तच् चेदं च तथेतरत् ।
जगत् सर्वम् इदं दृश्यं संविन्मात्रमनोमयम् ॥
एवंरूपम् इदं यावन् न परिज्ञातम् ईदृशम् ।
वज्रसारं दृढं तावज् जातं सत् परमाम्बरम् ॥
अज्ञानां मन एवेदम् इत्थं सम्प्रविजृम्भते ।
प्रत्युल्लासविलासात्म जलम् अम्बुनिधाव् इव ॥
यथास्थितेनैव चिदम्बरेण स्वचित्त्वम् एवेति मनोऽभिधानम् ।
स्फारीकृतं तेन जगच् च दृश्यम् एवं ततं नैव ततं च किञ्चित् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0