मोक्षोपाय · अध्याय 5.86
अथ किं वीतहव्यस्य स्थितं तस्मिन् वनोदरे ।
कथम् उद्धृतवान् देहं स सम्पन्नश् च किं कथम् ॥
अनन्तरम् अनन्तात्म वीतहव्याभिधं मनः ।
स्वम् एवात्मचमत्कारम् इत्थं तम् अवबुद्धवान् ॥
सर्वस्यास्य गणस्याभूत् प्राग्जातिस्मरणे स्वयम् ।
इच्छा कदाचित् सकलप्राग्जन्मालोकनं प्रति ॥
अशेषान् स ददर्शाथ नष्टान् नष्टान् स्वदेहकान् ।
अनष्टानां ततो मध्यात् तं धराकोटरस्थितम् ॥
यदृच्छयैव प्रोद्धर्तुं देहं तस्याभवन् मतिः ।
शरीरं वीतहव्याख्यं धराकोटरपीडितम् ॥
प्रावृडोघोपनीतं स्वपृष्ठस्थं पङ्कमण्डलम् ।
तृणजालावकीर्णत्वं देहपृष्ठमृदस् तथा ॥
एतद् दृष्ट्वा महातेजा धराविवरयन्त्रितः ।
भूयो ऽपि चिन्तयाम् आस धिया परमबोधया ॥
सर्वसम्पिण्डिताङ्गत्वात् कायो मे प्राणवायुभिः ।
मूकश् चलितुम् आक्रान्तश् शक्नोति न मनाग् अपि ॥
तद् गत्वा प्रविशाम्य् आशु देहम् एतं विवस्वतः ।
तदीयः पिङ्गलो देहम् उद्धरिष्यति मे ततः ॥
अथ वा किं ममैतेन शाम्याम्य् अहम् अविघ्नतः ।
निर्वामि स्वं पदं यामि को ऽर्थो मे देहलीलया ॥
इति सञ्चिन्त्य मनसा वीतहव्यो महामते ।
तूष्णीं स्थित्वा क्षणं भूयश् चिन्तयाम् आस भूतले ॥
उपादेयो हि देहस्य न मे त्यागो न संश्रयः ।
यादृशो देहसन्त्यागस् तादृशो देहसंश्रयः ॥
तद् यावद् अस्ति देहो ऽयं न यावद् अणुतां गतः ।
तावद् एनम् उपारुह्य किञ्चित् प्रविचराम्य् अहम् ॥
पिङ्गलेन शरीरं स्वम् उद्धर्तुं तापनं वपुः ।
प्रविशामि नभस्संस्थं मकुरं प्रतिबिम्बवत् ॥
इत्य् असौ मुनिर् आदित्यं विवेशानिलरूपधृत् ।
पुर्यष्टकवपुर् भूत्वा शस्त्रपिण्डम् इवानलः ॥
भगवान् रविर् अप्य् एनं हृद्गतं मुनिनायकम् ।
दृष्ट्वा सो ऽचिन्तयत् कार्यपौर्वापर्यम् उदारधीः ॥
विन्ध्यकन्दरभूदेशम् अग्रं मुनिकलेवरम् ।
तृणोपलपरिच्छन्नं ददर्श गतसंविदम् ॥
ऋषेश् चिकीर्षितं ज्ञात्वा भानुर् गगनमध्यगः ।
धरातो मुनिम् उद्धर्तुम् आदिदेशाग्रगं गणम् ॥
वीतहव्यमुनेस् संवित् सा पुर्यष्टकरूपिणी ।
रविं वातमयी पूज्यं प्रणनामाशु चेतसा ॥
भानुनाथाभ्यनुज्ञातो मानपूर्वकम् अग्रगम् ।
विवेश पिङ्गलाकारं विन्ध्यकन्दरगामिनम् ॥
पिङ्गलो ऽसौ नभस् त्यक्त्वा कुञ्जकुञ्जरसुन्दरम् ।
प्राप विन्ध्यवनं प्रावृण्मत्ताभ्राम्बरभासुरम् ॥
उद्दधार धराकोशान् नखनिष्कृष्टभूधरः ।
कलेवरं मुनेः पङ्कान् मृणालम् इव सारसः ॥
मौनं पुर्यष्टकम् अथ स्वं विवेश कलेवरम् ।
नभस्तलपरिश्रान्तो विहङ्गम इवालयम् ॥
प्रणम्याशु मिथो मूर्ती वीतहव्यनभश्चरौ ।
बभूवतुस् स्वकार्यैकतत्परौ तेजसां निधी ॥
जगाम पिङ्गलो व्योम मुनिश् च विमलं सरः ।
तारकाकारकुमुदं सूर्यांशुकचदाकृति ॥
वीतहव्यो ममज्जाशु सरस्य् उत्फुल्लपङ्कजे ।
पङ्कपल्वललीलान्ते वने कलभको यथा ॥
तत्र स्नात्वा जपं कृत्वा पूजयित्वा दिवाकरम् ।
तपोभूषितया तन्वा पूर्ववत् पुनर् आबभौ ॥
मैत्र्या तया समतया परया च शान्त्या सत्प्रज्ञया मुदितया कृपया श्रिया च ।
युक्तो मुनिस् सकलसङ्गविमुक्तचेता विन्ध्ये सरित्तटगतो दिनम् एव रेमे ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0