मोक्षोपाय · अध्याय 5.84
भूयो मुनिवरो धीरो धिया धवलयेद्धया ।
स्वम् इन्द्रियगणं गुप्तं बोधयाम् आस साध्व् इदम् ॥
तवेन्द्रियगण स्वार्थं शृणु वक्ष्याम्य् अतिस्फुटम् ।
श्रुत्वा तद्भावताम् एत्य परां निर्दुःखतां व्रज ॥
भवताम् आत्मसत्तैका दुःखायैवानपायिनी ।
असत्याम् आत्मनस् सत्तां तद् भवन्तस् त्यजन्त्व् इति ॥
मदीयेनोपदेशेन सत्तैषा भवतां क्षयम् ।
गतैवेति स्फुटं मत्तो यूयं ह्य् अज्ञानसम्भवाः ॥
स्वसत्तास्फुटतैवातिदुःखाय तव चित्तक ।
तप्तक्वाथे जतूल्लासो दाहायैव स्वपार्श्वयोः ॥
पश्य त्वयि सति भ्रातर् जडकल्लोलसङ्कुलाः ।
विशन्ति कालजलधिं संसारसरितां गणाः ॥
पतन्त्य् अहमहमिकाविहितान्योऽन्यवेल्लनाः ।
कुतो ऽपि दुःखावलयो धारा आसारगा इव ॥
परिस्फुरत्य् अपर्यन्ता हृदयोन्मूलनोद्यता ।
आक्रन्दकारिणी क्रूरा भावाभावविषूचिका ॥
कासश्वासरणद्भृङ्गे कलेवरजरद्द्रुमे ।
विकसत्य् अमलोद्द्योता जरामरणमञ्जरी ॥
कल्लोलव्यालवलिते शरीरश्वभ्रकोटरे ।
खनतीहानखी खातं चिन्ताचपलगर्गटी ॥
लोभलट्वा लटत्पक्षा तीक्ष्णया द्वन्द्वतुण्डया ।
कायजीर्णद्रुमाद् अस्माद् गुणपद्मानि कृन्तति ॥
हृदयावकरं कीर्णम् इतश् चेतश् च कर्कशः ।
अपवित्रोद्धुराकारः कुरुते कामकुक्कुटः ॥
महत्यां मोहयामिन्याम् उल्बणो ऽज्ञानकौशिकः ।
श्मशान इव वेतालः परिवल्गति हृद्द्रुमे ॥
एताश् चान्याश् च बह्व्यो ऽपि त्वयीन्द्रियगणे सति ।
पिशाचा इव शर्वर्यां प्रवल्गन्त्य् अशुभश्रियः ॥
त्वयि त्व् असति हे साधो सर्वा एव शुभश्रियः ।
प्रभात इव पद्मिन्यस् सालोकं विकसन्त्य् अलम् ॥
प्रशान्तमोहमिहिकं राजते हृदयाम्बरम् ।
निर्मलालोकवलितं नीरजस्कं ततान्तरम् ॥
अशङ्कितं नभःकोशपतितोपलपूरवत् ।
नापतन्ति विकल्पौघाश् चिरं वैकल्यकारिणः ॥
सर्वस्याह्लादनी शीता मैत्री परमपावनी ।
अभ्युदेति हृदो हृद्या सुतरोर् इव मञ्जरी ॥
अन्तश्छिद्रवती जाड्ययुक्ता गुप्तगुणा स्वयम् ।
चिन्ता शोषम् उपायाति हिमदग्धेव पद्मिनी ॥
आलोकस् स्फुटताम् अन्तर् आयात्य् अज्ञानसङ्क्षये ।
प्रशाम्यत्य् अम्बुदे व्योम्नि शरदीवार्कमण्डलम् ॥
प्रसन्नस्फारगम्भीरम् अक्षुब्धम् अपराहतम् ।
हृदयं समताम् एति शान्तवात इवार्णवः ॥
अमृतापूरपूर्णेन नित्यानन्दमयेन च ।
स्थीयते पुरुषेणान्तश्शीतेन शशिना यथा ॥
संविदंशैकविश्रान्तं समग्रं सचराचरम् ।
भाव्यते भरिताकारं वपुर् आनन्दमन्थरम् ॥
न भवत्य् अस्तसङ्गानाम् आशापाशविधायिनाम् ।
दग्धानाम् इव पर्णानां जन्मनां पुनरागतिः ॥
पुंसा क्षपितसंसारजराजन्ममहाध्वना ।
अपुनर्भ्रमणायात्मद्रुमे विश्रम्यते चिरम् ॥
एवम्प्रायास् तथान्याश् च भवन्ति गुणसम्पदः ।
असति त्वयि सर्वाशिन् सर्वाशाक्षणदाक्षये ॥
पक्षयोर् एतयोश् चित्त सत्तासत्तास्वरूपयोः ।
येनैव पश्यसि श्रेयस् तम् एवाङ्गीकुरु क्षणात् ॥
स्वात्माभावस् तव सुखं मन्ये मानवतां वर ।
तम् एव भावयाभावं सुखत्यागो हि मूढता ॥
यदि त्व् अस्ति भवत् सत्यम् अन्तर्भावितचेतनम् ।
जीवतस् तत् तवात्यन्तम् अभावं क इवेच्छति ॥
किं तु नास्त्य् असि सत्येन वदामि तव सुन्दर ।
तेन मिथ्यैव जीवामीत्य् आस्थया मा भवासुखि ॥
प्रक्रमे वासि नास्त्य् एव या वा भ्रान्त्या त्वदस्तिता ।
सापीदानीं विचारेण भृशं सङ्क्षयम् आगता ॥
एतावद् एव ते रूपं साधो यद् अविचारणम् ।
विचारे विहिते सम्यक् त्वम् अरूपम् असत् स्थितम् ॥
अविचारात् प्रजातं त्वम् अनालोकात् तमो यथा ।
विचारेणोपशान्तं त्वम् आलोकेन तमो यथा ॥
एतावन्तं सखे कालं बभूवाल्पविवेकिता ।
तावतैवातिपीनत्वम् अभूद् दुःखैककारणम् ॥
मोहसङ्कल्पमात्रेण बालवेतालवद् भवत् ।
बभूवात्यन्तसङ्कल्पे क्षीणे त्वयि भवत् स्थितम् ॥
इदानीम् उदितं नित्यं त्वं प्राग्रूपे क्षयं गते ।
विवेकस्य प्रसादेन विवेकाय नमो नमः ॥
बभूविथाप्रबुद्धं त्वं चित्तकात्यन्तबोधतः ।
चित्ततायां विनष्टायां स्थितस् त्वं परमेश्वरः ॥
प्राक्स्वरूपविलासस् ते श्रेयसि स्थितिम् आगतः ।
समस्तवासनोन्मुक्तस् सम्प्रत्य् असि महेश्वरः ॥
यस्याविवेकाद् उत्पत्तिस् स विवेकाद् विनश्यति ।
प्रकाशेन प्रयात्य् अन्तम् अनालोकोद्भवं तमः ॥
अनिच्छतो ऽपि ते साधो विचारे स्थितिम् आगते ।
अर्थतो ऽयम् उपायातो विनाशस् सुखसिद्धये ॥
तस्मान् नास्त्य् असि निर्णीतम् इति सिद्धान्तयुक्तिभिः ।
मित्रेन्द्रियेश्वर स्वस्ति भवतस् त्व् अस्तम् आगतम् ॥
नित्यं पूर्वम् अभूताय नास्तिरूपाय सम्प्रति ।
भविष्यते च नोदर्कस् स्वमनस् स्वस्ति ते ऽस्त्व् इति ॥
परिनिर्वामि शान्तो ऽस्मि दिष्ट्यास्मि विगतज्वरः ।
स्वात्मन्य् एवावतिष्ठे ऽहं तुर्यरूपे पदे स्थितः ॥
अतो नास्त्य् एव नास्त्य् एव संसारी चित्तसंस्थितिः ।
आत्मा त्व् अस्त्य् एव चास्त्य् एव यस्माद् अन्यन् न विद्यते ॥
अयम् आत्मेति कलना मन्ये नो निर्मलान्तरा ।
प्रतियोगिव्यवच्छेदकलनैकस्य वा कुतः ॥
अहं तेनायम् आत्मेति कलनाम् अनुदाहरन् ।
मौनी स्वात्मनि निर्वामि तरङ्ग इव वारिणि ॥
संशान्तवासनम् अनाश्रितचेतनांशम् अप्राणसञ्चरणम् अस्तविनाशदोषम् ।
संवेद्यवर्जितम् उपेत्य सुसंविदंशं शाम्यामि मौनम् अयम् एव निरीहम् अन्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0