मोक्षोपाय · अध्याय 5.83
वीतहव्यो महाबुद्धिर् विन्ध्याद्रौ कन्दरोदरे ।
क्षुराग्रशितया बुद्ध्या भूयश् चेदं व्यचारयत् ॥
मूर्खेन्द्रियगणाशेषे समग्ररचनान्विते ।
सर्वसङ्कल्पवलिते सर्वाङ्कुरपरावृते ॥
समग्रपरिवारे ऽस्मिन् सर्वनाशे तवोत्थिते ।
नूनम् एवाभ्युदेत्य् आत्मा तमसीव क्षते रविः ॥
नित्योदितो ऽपि भवतो नोदेति परमेश्वरः ।
रविर् अन्धेक्षणस्येव वासनावलितात्मनः ॥
वासनामलसंशान्तौ त्वं समूलं विनश्यसि ।
ततः प्रकटताम् एति ब्रह्म बृंहितचिद्घनम् ॥
बन्धो हि वासनामात्रं तत्क्षयो मोक्ष उच्यते ।
वासनारज्जुविच्छेदविलासेनोदितो भव ॥
इन्द्रियाली विभौ दृष्टे क्षीयते सहवासना ।
आन्ध्यसङ्कल्पना काले नान्ध्यक्षय इवोदिते ॥
आत्मलाभे क्षयं याति मनष्षष्ठेन्द्रियावली ।
इन्द्रियावलिनाशे च स्वात्मनात्मोपलभ्यते ॥
सततं श्रेयसे तस्माद् द्वयम् एव समाचरेत् ।
आत्मलाभेन्द्रियवशाव् अभ्यासेनैव सिध्यतः ॥
स्वयं गुणसमाहारः क्षीयते दृष्ट आत्मनि ।
शार्वरो भूतसंरम्भो दिवाकर इवोदिते ॥
यस्मिन् दृष्टे क्षयं याति यस् स तेन सता क्षयी ।
कथं सम्बन्धम् आयाति चेतनेन जडात्मकः ॥
प्रकाशस्याप्रकाशेन शीतलेनोष्णरूपिणः ।
जीवता प्रमृतस्येव न सम्भवति सङ्गमः ॥
क्व समग्रकलातीतः क्व समग्रकलान्वितः ।
क्व नित्यस् सम्प्रकाशात्मा क्वानित्यस् तिमिराकृतिः ॥
नित्यम् अस्तमिताकारः क्व नित्योदितचिद्वपुः ।
क्व चासज्जडमूकान्धः क्व सर्वालोकचिद्घनः ॥
आत्मेन्द्रियगणैर् युक्त इत्य् अनर्थाय निश्चयः ।
यावद् अज्ञानम् एवान्तर् बालानाम् एव वल्गति ॥
तज्ज्ञानाम् आत्मना सङ्गो नेन्द्रियाणाम् इति स्थिते ।
अक्षग्रामे क्षयं याते परमात्ममयं जगत् ॥
ययायुक्त्या मुधैषा ते शङ्का स्फुरति पीवरी ।
आत्मा कलङ्कित इति सा विनष्टाज्ञताधुना ॥
अनिगीर्णविषो मूर्खस् स यातो विषमूर्छनाम् ।
आत्मेन्द्रियशठैर् युक्त इति येनाश्रितो ऽन्तरम् ॥
दुःखिष्व् इन्द्रियमूर्खेषु सुखेषूपहतेषु वा ।
साक्षिणो ऽक्षीणसद्वृत्तेर् आत्मनः किम् इवागतम् ॥
चित्तेन्द्रियात्मनां सङ्ग इति नो सम्भवत्य् अलम् ।
सम्बन्धाभावसंसिद्धौ भोक्तृताकर्तृते कथम् ॥
नातः कर्ता न भोक्तास्मि न मोक्षो ऽस्ति न बन्धनम् ।
नाहम् अस्मि न चान्यो ऽस्ति संविदात्मास्त्य् अलेपकः ॥
स एवाहं स एव त्वं स जगत् सो ऽम्बरं स भूः ।
सर्वं नूनं स एवेति निर्णीते किं विमुह्यसि ॥
संविदश् च्यवनं दुःखं संविदो मा च्युतो भव ।
एतावतैकध्यानेन नित्यध्यानो भवात्मदृक् ॥
अभावे दुःखदस्यान्तर् दृश्यादृश्यस्य वस्तुनः ।
सङ्कल्पोन्मुखतां विद्धि दुःखदां संविदश् च्युतिम् ॥
जडेषूपलभेदेषु मनोदेहेन्द्रियादिषु ।
कीदृशी कर्तृता चित्त कथं व्योम्नि वनं भवेत् ॥
निरस्तकलनापङ्के मननध्वंसरूपिणि ।
न चैवात्मनि कर्तृत्वं सम्भवत्य् अम्बराङ्गवत् ॥
अयं केवलम् आत्मैव नानानानातयात्मनि ।
स्फुरत्य् अब्धिर् इवाम्भोभिर् मुधा लोकः कदर्थितः ॥
आभासमात्रे सर्वस्मिन् स्फुरत्य् अस्मिंश् चिदात्मनि ।
द्वितीया नास्ति कलना तप्ताङ्गार इवाम्बुधौ ॥
कलनारहिते देवे देहे मनसि वा जडे ।
संवित् संवेद्यनिर्मुक्ता सारा सुन्दर नेतरत् ॥
इदम् अन्यद् इदं चान्यच् छुभं वाशुभम् एव वा ।
इति सङ्कल्पना नास्ति यथा नभसि काननम् ॥
संवेद्यरहितं संविन्मात्रम् एवेदम् आततम् ।
तत्रायम् अहम् अन्यो ऽयम् इति सङ्कल्पना कथम् ॥
अनादिमति नीरूपे सर्वगे विततात्मनि ।
आरोपयेत् कः कलनाम् ऋग्वेदं व्योम्नि को लिखेत् ॥
नित्योदिते सकलवस्तुपदार्थसारे देवे स्थिते भरितनिर्भरभूरिदिक्कम् ।
आत्मन्य् असत् त्वम् इति साधु गते ऽमलत्वात् क्षीणौ सुखासुखलवौ मम वै समोहम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0