भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.82

5.82.1

विचार एवं विदुषा संवर्तेन कृतः पुरा ।
कथितो मम विन्ध्याद्रौ तेनैव विदितात्मना ॥

5.82.2

एतां दृष्टिम् अवष्टभ्य विचारपरया धिया ।
संसारसागराद् अस्मात् तारतम्येन सन्तर ॥

5.82.3

अथेमाम् अपरां राम शृणु दृष्टिं पदप्रदाम् ।
मुनिना वीतहव्येन यथा स्थितम् अशङ्कितम् ॥

5.82.4

वीतहव्यो महातेजा बभ्रामाभ्राम्बरः पुरा ।
विन्ध्यशैलदरीर् दीर्घा रविर् मेरुदरीर् इव ॥

5.82.5

अस्मात् क्रियाक्रमाद् घोरात् संसारभ्रमदायिनः ।
आधिव्याधिमयाकारात् कालेनोद्वेगम् आययौ ॥

5.82.6

निर्विकल्पसमाध्यंशलभ्योदारपदेच्छया ।
सञ्जहार जराजीर्णस् स्वां व्यापारपरम्पराम् ॥

5.82.7

विवेश रम्भारचितं निजं पर्णोटजान्तरम् ।
चूतगौरं ससौगन्ध्यम् अलिर् नीलम् इवोत्पलम् ॥

5.82.8

तत्रासने समे शुद्धे स्वास्तीर्णहरिणाजिने ।
विशश्रामाचले शान्ते वान्तवर्ष इवाम्बुदः ॥

5.82.9

बद्धपद्मासनः कृत्वा पार्ष्ण्योर् अधि कराञ्जलिम् ।
शृङ्गिवच् छान्तचलनम् अतिष्ठद् दृढकन्धरम् ॥

5.82.10

सञ्जहारालम् आलोकं दिग्विकीर्णं शनैश् शनैः ।
विशन् मेरुदरीं सायं भानुर् भासाम् इवोत्करम् ॥

5.82.11

बाह्यान् आभ्यन्तरांश् चैव स्पर्शान् परिहरन् क्रमात् ।
इदम् आकलयाम् आस मनसा विगतैनसा ॥

5.82.12

अहो नु चञ्चलम् इदं प्रत्याहृतम् अपि क्षणात् ।
न मनस् स्थैर्यम् आयाति तरङ्गप्रौढपर्णवत् ॥

5.82.13

चक्षुरादिभिर् उद्दामै रूपैर् आहितसम्भ्रमैः ।
अजस्रम् उत्फलत्य् एव वीटेव तलताडिता ॥

5.82.14

त्यजद् एवाशु गृह्णाति वृत्तीर् इन्द्रियवर्धिताः ।
यस्मान् निवार्यते तस्मिन् प्रोन्मत्त इव धावति ॥

5.82.15

घटात् पटम् उपायाति पटाच् छकटम् उत्कटम् ।
चित्तम् अर्थेषु चरति पादपेष्व् इव मर्कतः ॥

5.82.16

पञ्चद्वाराणि मनसश् चक्षुरादीन्य् अमून्य् अलम् ।
दग्धेन्द्रियाभिधानानि तावद् आलोकयाम्य् अहम् ॥

5.82.17

हंहो हतेन्द्रियगणाः किम् एषोद्दामतेह वः ।
वेला विलुलिताम्बूनाम् अब्धीनाम् इव चञ्चला ॥

5.82.18

मा कुरुध्वम् अनर्थाय चापलं चञ्चलाशयाः ।
स्मरतातीतवृत्तीनि दुःखजालानि भूरिशः ॥

5.82.19

रूपाणि मनसो यूयं जडा एव किलाधमाः ।
जडिम्नोत्सुकतात्यर्थं मृगतृष्णेव वल्गति ॥

5.82.20

असारात्मस्वरूपाणाम् अनालोकवतां सदा ।
अन्धानाम् उद्धतिर् येयं सा हासायैव जायते ॥

5.82.21

चिदात्मा भगवान् सर्वं साक्षित्वेन करोत्य् अजः ।
हतेन्द्रियगणा यूयं किं निरर्थकम् आगताः ॥

5.82.22

मिथ्यैवैते विवल्गन्ति नीरूपा नयनादयः ।
अलातचक्रप्रतिमास् सर्परज्जुभ्रमोपमाः ॥

5.82.23

तेनात्मना बहुज्ञेन निर्ज्ञानाश् चक्षुरादयः ।
मनाग् अपि न सम्बद्धा द्युपातालतलाद्रिवत् ॥

5.82.24

भीतः पान्थ इवाहिभ्यः पुक्कसेभ्य इव द्विजः ।
दूरे तिष्ठति चिन्मात्रम् इन्द्रियेभ्यस् त्व् अनामयम् ॥

5.82.25

चित्सत्तामात्रकेणायं सङ्क्षोभो भवतां मिथः ।
तिष्ठति स्वैरम् आदित्ये दिनकार्यवताम् इव ॥

5.82.26

चित्त चारणचार्वाक चतुर्दिक्कुक्षिभिक्षुक ।
श्वेव व्यर्थम् अनर्थाय मेदं विहर हे जगत् ॥

5.82.27

अहं चिद्वद् इति व्यर्थम् असत्या तव वासना ।
अत्यन्तभिन्नयोर् ऐक्यं नास्ति चिन्मनसोश् शठ ॥

5.82.28

जीवाम्य् एवाहम् इत्य् एषा तवाहङ्कारदुन्दुभिः ।
मिथ्यैव जाता दुःखाय न सत्या सत्यवर्जिता ॥

5.82.29

अहङ्काराद् अहं सो ऽस्मीत्य् एतां संरब्धतां त्यज ।
न किञ्चिद् अपि मूर्ख त्वं किं व्यर्थं तरलायसे ॥

5.82.30

संविच् चित्तम् अनाद्यन्तं संविदो ऽन्यन् न विद्यते ।
देहे ऽस्मिंस् तन् महामूर्ख किं तत् स्याच् चित्तनामकम् ॥

5.82.31

विषपर्यवसानेयं रसायनवद् उत्थिता ।
भोक्तृताकर्तृताशङ्का तव चित्त मुधैव हि ॥

5.82.32

मोपहासपदं गच्छ मूर्खेन्द्रियगण स्वयम् ।
न कर्ता त्वं न भोक्ता त्वं जडो ऽस्य् अन्येन बोध्यसे ॥

5.82.33

कस् त्वं भवसि भोगानां के वा भोगा भवन्ति ते ।
जडस्यात्मैव ते नास्ति बन्धुमित्रादि तत् कुतः ॥

5.82.34

यज् जडं तद् धि नास्त्य् एव सद् एवासत्तयान्वितम् ।
ज्ञत्वकर्तृत्वभोक्तृत्वमन्तृत्वानाम् असम्भवात् ॥

5.82.35

प्रत्यक्चेतनरूपं चेत् त्वं तद् आत्मैव ते वपुः ।
भावाभावमयी चित्त सत्ता ते केव दुःखदा ॥

5.82.36

ये वा कर्तृत्वभोक्तृत्वे मिथ्यैवाधिगते त्वया ।
मया ते हि प्रमार्ज्येते शृणु युक्त्या कथं शठ ॥

5.82.37

स्वयं तावद् भवान् एष जडो नास्त्य् अत्र संशयः ।
जडस्य कीदृक् कर्तृत्वं नृत्यन्ति हि कथं शिलाः ॥

5.82.38

उपजीव्य चिरं तस्माच् छुद्धं तद्भागम् ऐश्वरम् ।
जीवसीच्छसि हंसि त्वं प्लवसे यासि वल्गसि ॥

5.82.39

क्रियते यत् तु यच्छक्त्या तत् तेनैव कृतं भवेत् ।
लुनाति दात्रं पुंशक्त्या हन्तैव प्रोच्यते पुमान् ॥

5.82.40

पीयते यत् तु यच्छक्त्या पीतं तेनैव तद् भवेत् ।
पात्रेण पीयते पानं पानपस् तूच्यते नरः ॥

5.82.41

प्रकृत्यैवासि सुजडम् असकृज् ज्ञेन बोध्यसे ।
तेनात्मैवात्मनात्मानं चिनोतीदं हि नो भवेत् ॥

5.82.42

अनारतं बोधयति त्वाम् आत्मा परमेश्वरः ।
बोधनीया बुधैर् मूढाः किलावृत्तिशतैर् अपि ॥

5.82.43

आत्मसत्तैव बोधैकरूपिणी स्फुरतीह हि ।
तयैव चित्त शब्दार्थान् अङ्गीकृत्य लघु स्थितम् ॥

5.82.44

एवं चित्त त्वम् अज्ञानाद् आत्मशक्तेर् उपागतम् ।
ज्ञाने त्व् अद्यावगलितं तीव्रे हिमम् इवातपे ॥

5.82.45

तस्मान् मृतं त्वं मूढं त्वं नासि त्वं परमार्थतः ।
तद् एवाहम् इति व्यर्थं मानो मास्त्व् असुखाय ते ॥

5.82.46

असत्याश् चित्तकलना इन्द्रजाललता इव ।
विज्ञानमात्रम् एवेह ब्राह्मम् अङ्ग विजृम्भते ॥

5.82.47

नरामरजगद्रूपैर् ब्राह्मी शक्तिर् उदेत्य् अलम् ।
सामुद्री कणकल्लोलजालैर् वेलेव वल्गति ॥

5.82.48

चिन्मयं चिद्भवन् मूढ तत् तस्मात् परमात् पदात् ।
नित्यम् अव्यतिरिक्तं त्वं किम् अन्यत् परिशोचसि ॥

5.82.49

सर्वगं सर्वभावस्थं सर्वरूपं हि तत् पदं ।
तत्प्राप्तौ सर्वम् एवाशु प्राप्तं भवति सर्वदा ॥

5.82.50

न त्वम् अस्ति न देहो ऽस्ति ब्रह्मास्तीह महत् स्फुरत् ।
अहं त्वम् इति निष्ष्यन्दैस् स्फुरत्य् आर्तिर् हि कस्य का ॥

5.82.51

आत्मा चेत् त्वं तद् आत्मैव सर्वगो ऽस्तीह नेतरः ।
आत्मनो ऽन्यज् जडं त्वं चेत् तत् त्वं नास्त्य् अस्य् अविद्वपुः ॥

5.82.52

आत्मैव सर्वं त्रिजगत् तदन्यत् तु नकिञ्चन ।
तन् नकिञ्चित् त्वम् आत्मान्यद् यदि तत् त्वं नकिञ्चन ॥

5.82.53

अहं त्व् इदम् इदं तन् मे इति व्यर्थं किम् ईहसे ।
असद्वपुः किं स्फुरति शशशृङ्गेण को हतः ॥

5.82.54

तृतीया कल्पना नास्ति चिज्जडांशेतरा शठ ।
छायाहसनयोर् मध्ये तृतीयेवानुरञ्जना ॥

5.82.55

सत्यावलोकनाज् जाते चित्त्वजाड्यदृशोः क्षये ।
सम्पद्यते यत् तत् त्व् अज्ञ स्वसंवेदनमात्रकम् ॥

5.82.56

तेन मूढ न कर्तृ त्वं न भोक्तृ त्वं न चाप्य् असि ।
तद् एवासि परं ब्रह्म त्यज मौर्ख्यं भवात्मकम् ॥

5.82.57

केवलं त्व् अज्ञविषयम् उपदेशार्थसिद्धये ।
त्वया करणभूतेन करोत्य् आत्मेति कथ्यते ॥

5.82.58

असत्स्वरूपं करणं जडं निरवलम्बनम् ।
न स्पन्दते न प्लवते कर्तृसम्बोधनं विना ॥

5.82.59

अकर्तुः करणस्याज्ञ शक्तिः काचिन् न विद्यते ।
दात्रस्य लावकाभावे कर्तुं किम् इव शक्तता ॥

5.82.60

खड्गप्रहारविच्छेदक्रियायां पुंसि शक्तता ।
न खड्गे सुजडे कृत्तसर्वाङ्गे ऽप्य् अस्ति शक्तता ॥

5.82.61

तस्मान् नासि सखे कर्तृ मा व्यर्थं दुःखभाग् भव ।
परार्थं क्लेशिता मूर्ख प्राकृतेषु न शोभते ॥

5.82.62

ईश्वरो नेदृशश् शोच्यो यस् त्वयोपकृतो भवेत् ।
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥

5.82.63

सर्वं तूपकरोम्य् एनम् इति केवलम् अल्पधीः ।
क्लिश्यते च सतां त्व् अर्थो न कश्चिद् उपयुज्यते ॥

5.82.64

कर्तुर् भोगेश्वरस्यैवम् अथ चेद् अनुवर्तसे ।
तद् अस्य काचिन् नेच्छेह तृप्तत्वात् सर्वदैव हि ॥

5.82.65

अकृत्रिमावभासेन सर्वगेन चिदात्मना ।
एकेनैवेदम् आपूर्णं कल्पनैवास्ति नेतरा ॥

5.82.66

एकानेकावभासेन समस्तेन ततात्मना ।
आत्मन्य् एवात्मनैवान्तः क्रियते किं किम् इष्यते ॥

5.82.67

त्वादृशस्य तु दृष्ट्यैव क्षुब्धता जायते मुधा ।
आलोक्य राजमहिषीं मनो मदमयीं यथा ॥

5.82.68

आत्मना तव सम्बन्धश् चेत् तत् कर्त्र् असि सुन्दर ।
किं तु नास्यासि सम्बन्धः कुसुमस्योपलो यथा ॥

5.82.69

द्वितीयेन समं यैषा तत्ता तद्भावतैकता ।
सा सम्बन्धगतिः प्रोक्ता प्राग्द्वित्वाद् अधुनैकता ॥

5.82.70

नानाप्रकाररचना नानारूपक्रियामुखी ।
सुखदुःखदशाहेतुस् सा चानेकविधा स्मृता ॥

5.82.71

सम्बन्धस् समयोर् दृष्टस् तथार्धसमयोर् अपि ।
सुविलक्षणयोश् चान्यस् तस्मिन् सति जगत्त्रये ॥

5.82.72

द्रव्यान्तरगुणं द्रव्याण्य् आश्रयन्ति बहून्य् अलम् ।
शशिशैत्यं यथौषध्यो यथोष्माणं महाशिलाः ॥

5.82.73

इत्थं यदि तु सम्बन्धो भवतः परमात्मना ।
अस्तु तत् संसृतेर् बीजम् अन्योऽन्यगुणसङ्करः ॥

5.82.74

मनोमनननिर्माणकलातीतात्मनात्मना ।
ईदृशो ऽस्ति न सम्बन्धस् तवेन्द्रियगणाणुना ॥

5.82.75

अन्यश् च दृश्यते लोके सम्बन्धस् समयोस् स्फुटः ।
यथा ज्वलनयोर् ऐक्ये तेजसोः पयसोर् अपि ॥

5.82.76

मनोमनननिर्माणकलातीतात्मनाणुना ।
ईदृशो ऽपि न सम्बन्धस् तवेन्द्रियगणात्मना ॥

5.82.77

अन्यश् च चौर सम्बन्धो दृष्टो ऽर्धसमयोर् अपि ।
एकावयववैचित्र्याद् यथा स्त्रीपुंसयोर् इह ॥

5.82.78

किञ्चिदन्यतया चैव सलिलक्षीरयोर् इव ।
अथ वा वारिमधुनोर् मधुनोर् इव चित्रयोः ।
पाण्डुरारुणयोर् वापि तेजसोर् अरुणार्कयोः ॥

5.82.79

मनोमनननिर्माणकलातीतात्मनात्मना ।
ईदृशो ऽपि न सम्बन्धस् तवेन्द्रियगणाणुना ॥

5.82.80

अन्यो ऽस्ति चौर सम्बन्धो यो ऽत्यन्तासमयोर् अपि ।
यथेह काष्ठजतुनोस् तथा पुरुषदन्तिनोः ॥

5.82.81

तादृशो ऽपि न सम्बन्धस् तवेन्द्रियगणाणुना ।
मनोमनननिर्माणकलातीतात्मनात्मना ॥

5.82.82

अन्यो बीजाङ्कुरन्याये पितृपुत्रक्रमे तथा ।
कार्यकारणरूपो ऽपि न सम्बन्धस् तवात्मना ॥

5.82.83

अन्यो ऽपि कलनामात्रसङ्केतरचितो भवेत् ।
तवाहं त्वं ममेत्य् अन्तर्निश्चयेन किल द्वयोः ॥

5.82.84

अन्ये च बहवो लोकेष्व् आधाराधेयतादयः ।
सम्भवन्तीह सम्बन्धास् सुष्ठु सम्बन्धकारिणाम् ॥

5.82.85

मनोमनननिर्माणकलातीतात्मनाणुना ।
तथापि नैव सम्बन्धस् तवेन्द्रियगणात्मना ॥

5.82.86

आत्मना भवतः को ऽयं घोरस् संसारदुःखदः ।
सम्बन्धस् स्याद् वदास्माभिर् यो न दृष्टो न दृश्यते ॥

5.82.87

नासौ सुसमनिर्माणो न चार्धसमनिर्मितिः ।
न विलक्षणनिर्माणस् सम्बन्धः क इवेदृशः ॥

5.82.88

शशमस्तकशृङ्गेण रसायनमयश् शशी ।
कथं संश्लिष्यते साधो नित्यं सन्न् असता किल ॥

5.82.89

नित्यं सदसतोर् ऐक्यं कथम् अक्षगणात्मनोः ।
प्रकाशजडयोर् मूर्ख सकलङ्काकलङ्कयोः ॥

5.82.90

द्वयोर् वाप्य् असतोर् एवं सङ्गस् सम्भवतीह कः ।
शशमस्तकशृङ्गाद्रिशिलाशकलयोर् इव ॥

5.82.91

शृण्व् इमं निश्चयं चित्त सत्यम् एव मयोच्यते ।
आत्मना तव सम्बन्धस् स्वप्नेष्व् अपि न विद्यते ॥

5.82.92

यद् अनात्ममयं तच् च न सम्भवति कुत्रचित् ।
आत्मनस् सर्वरूपत्वात् तेन त्वं नासि चित्तक ॥

5.82.93

चित्त चेत्यविमुक्तेयं जगज्जालविजृम्भितैः ।
अहं त्वम् इत्यादिमयी ब्रह्मसत्तैव वल्गति ॥

5.82.94

सकलकल्पनया स्वसमुत्थया परिवृतो ऽप्य् अभितश् च विवर्जितः ।
तव न सङ्गम् उपैति शठाकृते हतमनस् सकलामलदृग् विभुः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc