मोक्षोपाय · अध्याय 5.81
एवं विचार्य बुद्ध्यान्तः पुनर् इत्थं विचार्यते ।
तत्त्वविद्भिर् महाबाहो ज्ञेय आत्मा महात्मभिः ॥
आत्मैवेदं जगद् इति सत्यं चित्तेन मार्जितम् ।
उत्थितं स्यात् कुतश् चित्तम् अहो चित्रम् अवस्तु यत् ॥
अविद्यात्वाद् अचित्त्वाच् च समायात्वात् सदैव हि ।
मृतं नास्त्य् एव वा चित्तं भ्रमाद् अन्यत् खपुष्पवत् ॥
सिद्धस् स्थाणुपरिस्पन्दो नौगतस्य यथा शिशोः ।
अबुद्धस्य न बुद्धस्य तथा चित्तम् असन्मयम् ॥
मौर्ख्यमोहभ्रमे शान्ते चित्तं नोपलभामहे ।
चक्रारोहभ्रमस्यान्ते पर्वतस्पन्दनं यथा ॥
एवं हि चित्तं नास्त्य् एव ब्रह्मैवास्ति ततात्मकम् ।
पदार्थभावनाश् चित्रास् तेनासत्या मयोज्झिताः ॥
जातो ऽस्मि शान्तसन्देहस् स्थितो ऽस्मि विगतज्वरः ।
यथा तिष्ठामि तिष्ठामि तथैव विगतैषणम् ॥
चित्ताभावे परिक्षीणा बलात् तृष्णादयो गुणाः ।
आलोकोपरमे चित्रा वर्णाख्या इव संविदः ॥
मृतं चित्तं गतास् तृष्णाः प्रक्षीणं मोहपञ्जरम् ।
निरहङ्कारता जाता जगत्य् अस्मि प्रबुद्धवान् ॥
एकम् एव जगच् छान्तं नानात्वं न सद् इत्य् अपि ।
किम् अन्यद् विमृशाम्य् अन्तः कथयैवालम् एतया ॥
निराभासम् अनाद्यन्तं पदं पावनम् आगतः ।
सोम्यस् सर्वगतस् सूक्ष्मस् स्थित आत्मास्मि शाश्वतः ॥
यद् अस्ति यच् च नास्तीह चित्ताद्य् आत्माद्य् अवस्तु वा ।
तत् खाद् अच्छतरं शान्तम् अनन्ताग्राह्यम् आततम् ॥
चित्तं भवतु वा मान्तर् नियतां स्मृतिम् एतु वा ।
को विचारणयार्थो मे निरंशस्योदितात्मनः ॥
विचारकारको मौर्ख्याद् अहम् आसम् इति स्थितिः ।
विचारेणामिताकारः क्वाधुनाहं विचारकः ॥
मृते ऽपि मनसीयं मे विकल्पश्रीर् निरर्थका ।
मनोवेतालवृत्त्यर्थं किमर्थम् उपजायते ॥
तद् इमां प्रजहाम्य् अन्तर् विकल्पकलनाम् अलम् ।
निर्णीयोम् इति शान्तात्मा तिष्ठाम्य् आत्मनि मौनवान् ॥
अश्नन् गच्छन् स्वपंस् तिष्ठन्न् इति राघव चेतसा ।
सर्वत्र प्रज्ञया तज्ज्ञः प्रत्यहं प्रविचारयेत् ॥
प्रविचार्य स्वसंस्थेन स्वस्थेन स्वेन चेतसा ।
तिष्ठन्ति विगतोद्वेगं सन्तः प्रकृतकर्मसु ॥
विगतमानमदा मुदिताशयाश् शरदुपोढशशाङ्कसमत्विषः ।
प्रकृतसंव्यवहारविहारिणस् त्व् इह सुखं विहरन्ति महाधियः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0