भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.80

5.80.1

इदम् अन्तः कलयतो भोगान् प्रति विवेकिनः ।
पुरस्स्थितान् अपि सदा स्पृहैवाङ्ग न जायते ॥

5.80.2

चक्षुर् आलोकनायैव जीवस् तु सुखदुःखयोः ।
भारायैव बलीवर्दो भोक्ता द्रव्यस्य नायकः ॥

5.80.3

नयने रूपनिर्मग्ने क्षोभः क इव देहिनः ।
गर्दभे पल्वलोन्मग्ने कैव सेनापतेः क्षतिः ॥

5.80.4

रूपकर्दमम् एतन् मानय नास्वादयाधम ।
नश्यत्य् एतन् निमेषेण भवन्तम् अपि हिंसति ॥

5.80.5

येनैव सख्यं क्रियते य एवाभ्यनुगम्यते ।
तदीयैः कर्मभिः क्षिप्रं प्राज्ञश् शूरो ऽपि बध्यते ॥

5.80.6

उत्पन्नध्वंसि सम्पातमात्रहृद्यम् असन्मयम् ।
रूपम् आश्रय मा नेत्र विनाशायाविनाशिने ॥

5.80.7

साक्षिवत् त्वं स्थितं नेत्र रूपं आत्मनि तिष्ठति ।
आलोकः कालवशतस् त्वम् एकः किं प्रतप्यसे ॥

5.80.8

सलिलस्पन्दवद् दृष्टिः पिञ्छिकेवाम्बरोत्थिता ।
स्वजातिबन्धात् स्फुरति तव चित्त किम् आगतम् ॥

5.80.9

स्वल्पाम्भसीव शफरे चित्ते स्फुरणधर्मिणि ।
स्वयं स्फुरत्य् अहङ्कार त्वम् अयं प्रोत्थितः कुतः ॥

5.80.10

आलोकरूपयोर् नित्यं जडयोस् स्फुरतोर् मिथः ।
आधाराधेययोश् चित्त व्यर्थम् आकुलता तव ॥

5.80.11

रूपालोकमनस्काराः परस्परम् असङ्गिनः ।
संसक्ता इव लक्ष्यन्ते वदनादर्शबिम्बवत् ॥

5.80.12

अज्ञानजन्तुना ह्य् एते श्लिष्टा जाता निरन्तराः ।
अज्ञाने ज्ञानगलिते पृथक् तिष्ठन्त्य् असन्मयाः ॥

5.80.13

मनःकलनया ह्य् एते सुसम्बद्धाः परस्परम् ।
रूपालोकमनस्कारा दारूणि जतुना यथा ॥

5.80.14

स्वमनोमनने तन्तौ मनोऽभ्यासेन यत्नतः ।
विचाराच् छेदम् आयाते छिन्नैवाज्ञानभावना ॥

5.80.15

अज्ञानसङ्क्षयात् क्षीणे मनस्य् एते पुनर् मिथः ।
रूपालोकमनस्कारास् सङ्घटन्ते न केचन ॥

5.80.16

सर्वेषां चित्तम् एवान्तर् इन्द्रियाणां प्रबोधकम् ।
तद् एव तस्माद् उच्छेद्यं पिशाच इव मन्दिरात् ॥

5.80.17

चित्त वल्गसि मिथ्यैव दृष्टो ऽन्तो भवतो मया ।
आद्यन्तेषु सुतुच्छस् त्वं वर्तमाने ऽपि न ह्य् असि ॥

5.80.18

मुधा पञ्चभिर् आकारैः किम् अन्तः परिवल्गसि ।
यस् त्वां त्व् आम् इति जानाति तस्यैतत् परिवल्ग्यते ॥

5.80.19

त्वद्वल्गनं मे कुमनो न मनाग् अपि तुष्टये ।
मायानरस्पन्द इव व्यर्थं वृत्तिषु दह्यसे ॥

5.80.20

तिष्ठ वा गच्छ वा चित्त नासि मे शठ जीवसि ।
प्रकृत्यासि मृतं नित्यं विचारात् सुमृतं स्थितम् ॥

5.80.21

निस्तत्त्वं त्वं जडं भ्रातश् शठ नित्यमृताकृते ।
मूढ एव त्वयाज्ञेन वञ्च्यते न विचारवान् ॥

5.80.22

वयम् आज्ञातवन्तस् त्वां मौर्ख्येणानुसृतं भवेत् ।
मृतम् अस्माकम् अद्यासि दीपानां तिमिरं यथा ॥

5.80.23

शठेन भवता दीर्घं कालं देहगृहं मम ।
उपरुद्धम् अभूत् पूर्वं साधुसंसर्गवर्जितम् ॥

5.80.24

जडे प्रेतसमाकारे गते त्वयि मनश्शठे ।
सर्वसज्जनसंसेव्यं इदं देहगृहं स्थितम् ॥

5.80.25

पूर्वम् एवासि नास्य् एव सम्प्रत्य् अपि जडं शठम् ।
न भविष्यसि चेदानीं किं वेताल न लज्जसे ॥

5.80.26

सह तृष्णापिशाचीभिस् सह कोपादिगुह्यकैः ।
निर्गच्छ चित्तवेताल शरीरसदनान् मम ॥

5.80.27

दिष्ट्या विवेकमन्त्रेण निर्गतो देहमन्दिरात् ।
प्रमत्तचित्तवेतालः कुवृकः कन्दराद् इव ॥

5.80.28

अहो नु चित्रं सुमहज् जडेन क्षणभङ्गिना ।
मनश्शठेन सर्वो ऽयं नीतो विवशतां जनः ॥

5.80.29

कस् ते पराक्रमः किं ते बलं कस् ते समाश्रयः ।
यदि वल्गसि माम् एव जनतां बाधसे तथा ॥

5.80.30

शठात्मैवासि न मया दीनचित्तक मार्यसे ।
मृतम् इत्य् अवबुद्धं त्वम् अद्य केवलम् अज्ञ हे ॥

5.80.31

एतावन्तम् अहं कालं त्वां ज्ञात्वा जीवदास्थितम् ।
क्लिष्टः प्रभूतभङ्गासु चिरं संसृतिरात्रिषु ॥

5.80.32

चित्तं मृतं हि नास्तीह त्व् इत्य् अद्यावगतं मया ।
तेन त्वदाशां सन्त्यज्य तिष्ठाम्य् आत्मनि केवलः ॥

5.80.33

दिष्ट्या चित्तं मृतम् इति ज्ञातम् अद्य मया स्वयम् ।
न शठेन समं नीतं समग्रं जीवितं निजम् ॥

5.80.34

उत्सार्य देहसदनान् मनश्शठम् अहं क्षणात् ।
अयं स्वस्थस् स्थितो ऽस्म्य् अन्तर्वेतालपरिवर्जितः ॥

5.80.35

चित्तवेताललब्धेन चिरं कालं मयोद्धताः ।
कृता विकारा विविधास् स्वयं कृत्वा हसामि यान् ॥

5.80.36

चिरान् निपतितो दिष्ट्या विचारासिवराङ्कितः ।
हृद्गेहाच् चित्तवेतालस् तालोत्तालसमुन्नतिः ॥

5.80.37

प्रशान्तचित्तवेताले पवित्रां पदवीं गते ।
दिष्ट्या शरीरनगरे सुखं तिष्ठामि केवलः ॥

5.80.38

मृतं मनो मृताश् चिन्ता मृतो ऽहङ्कारराक्षसः ।
विचारमन्त्रेण समस् स्वस्थस् तिष्ठामि केवलः ॥

5.80.39

किं मनो मे ममाशाः काः को मे ऽहङ्कारको भवेत् ।
दिष्ट्या व्यर्थं कलत्रं मे नष्टम् एतद् अशेषतः ॥

5.80.40

एकस्मै कृतकृत्याय नित्याय विमलात्मने ।
निर्विकल्पचिदाख्याय मह्यम् एव नमो नमः ॥

5.80.41

न ममाशा न कर्माणि न संसारो न कर्तृता ।
न भोक्तृता न देहो मे मह्यम् एव नमो नमः ॥

5.80.42

नाहम् आत्मा न चाकाशो न चैवायम् अहं स्वयम् ।
मम नास्ति व्यवच्छेदो मह्यम् एव नमो नमः ॥

5.80.43

नीरूपाय निराख्याय प्रकाशायामलात्मने ।
स्वयम् आत्मैकसंस्थाय मह्यम् एव नमो नमः ॥

5.80.44

निर्विकाराय नित्याय निरंशाय निरात्मने ।
सर्वस्मै सर्वकार्याय मह्यम् एव नमो नमः ॥

5.80.45

समां सर्वगतां सूक्ष्मां जगदेकप्रकाशिनीम् ।
सत्ताम् उपागतो ऽस्म्य् अन्तर् मह्यम् एव नमो नमः ॥

5.80.46

साद्रिद्यूर्वीनदीशाङ्गं नाहम् एवाहम् एव वा ।
जगत् सर्वपदार्थाढ्यं मह्यम् एव नमो नमः ॥

5.80.47

व्यपगतमननं शमाभिरामं प्रकटितविश्वम् अविश्वम् अप्य् अनन्तम् ।
स्वयम् अजम् अजरं गुणाद् अतीतं वपुर् अहम् अच्युतम् ऐश्वरं नमामि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc